तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः

तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः

अथ श्रीसूर्यमन्त्रः - ॐ ह्राँ ह्रीं सः इति त्र्यक्षरं मन्त्रः ॥ ॐ अस्य श्रीसूर्यमन्त्रस्य अज ऋषिः, गायत्री छन्दः, सूर्यो देवता, ह्रां बीजम्, ह्रीं शक्तिः, सः कीलकम्, श्रीसूर्यप्रीत्यर्थे जपे विनियोगः । ॐ अज ऋषये नमः शिरसि । ॐ गायत्रीछन्दसे नमः मुखे । ॐ सूर्यदेवतायै नमः हृदि । ॐ ह्रां बीजाय नमः गुह्ये । ॐ ह्रीं शक्तये नमः पादयोः । ॐ सः कीलकाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ अथ अङ्गन्यासः - ॐ आं ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ ईंह्रीं तर्जनीभ्यां नमः । ॐ ऊँ ह्रीं मध्यमाभ्यां नमः । ॐ ऐं ह्रीं अनामिकाभ्यां नमः । ॐ औं ह्रीं कनिष्ठिकाभ्यां नमः । ॐ अः ह्रीं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । एवं हृदयादिषडङ्गन्यासं कुर्यात् । एवं न्यासविधिं कृत्वा ध्यायेत् । ॐ रक्ताम्बुजासनमशेषगुणैकसिन्धु, भानुं समस्तजगतामधिपं भजामि । पद्मद्वयाभयवरान्दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य यथोक्तविधिना जपं कुर्यात् ॥ अथ चन्द्रमन्त्रः - ॐ स्वौं सोमाय नमः (मतान्तरे सौं सोमाय नमः) इति षडक्षरो मन्त्रः ॥ ॐ अस्य श्रीसोममन्त्रस्य भृगुरृषिः, पङ्क्तिश्छन्दः, सोमो देवता, स्वौं बीजम्, नमः शक्तिः, सोमप्रीतये जपे विनियोगः । ॐ भृगुऋषये नमः शिरसि । ॐ पङ्क्तिश्छन्दसे नमः मुखे । ॐ सोमदेवतायै नमो हृदि । ॐ स्वौं बीजाय नमः गुह्ये । ॐ नमः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । ॐ सां अङ्गुष्ठाभ्यां नमः । ॐ सीं तर्जनीभ्यां नमः । ॐ सूं मध्यमाभ्यां नमः । ॐ सैं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठिकाभ्यां नमः । ॐ सः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् - ॐ कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुबिम्बाननं मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः । हस्ताभ्यां कुमुदं वरञ्च दधतं नीलालकोद्भासितं स्वीयाङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपं कुर्यात् ॥ अथ भौममन्त्रः - ॐ अं अङ्गारकाय नमः । ॐ अस्य श्रीभौममन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, अङ्गारको देवता, अं बीजं, आपः शक्तिः, अङ्गारकप्रीतये जपे विनियोगः । ॐ ब्रह्माऋषये नमः शिरसि । ॐ गायत्रीछन्दसे नमः मुखे । ॐ अङ्गारकदेवतायै नमः हृदये । ॐ अं बीजाय नमः गुह्ये । ॐ आपः शक्तये नमः पादयोः । ॐ आं अङ्गुष्ठाभ्यां नमः । ॐ ईं तर्जनीभ्यां नमः । ॐ ऊं मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ औं कनिष्ठिकाभ्यां नमः । ॐ अः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् - ॐ नमाम्यङ्गारकं देवं रक्ताभाम्बरभूषणम् । जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् । एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपं कुर्यात् ॥ अथ बुधमन्त्रः - ॐ बं बुधाय नमः । ॐ अस्य श्रीबुधमन्त्रस्य ब्रह्मा ऋषिः, पङ्क्तिश्छन्दः, बुधो देवता, बुं बीजं, आपः शक्ति, बुधप्रीतये जपे विनियोगः । ॐ ब्रह्माऋषये नमः शिरसि । ॐ पङ्क्तिश्छन्दसे नमः मुखे । ॐ बुधदेवतायै नमः हृदये । ॐ बुं बीजाय नमः गुह्ये । ॐ आपः शक्तये नमः पादयोः । ॐ बुं अङ्गुष्ठाभ्यां नमः । ॐ बुं तर्जनीभ्यां नमः । ॐ बुं मध्यमाभ्यां नमः । ॐ बुं अनामिकाभ्यां नमः । ॐ बुं कनिष्ठिकाभ्यां नमः । ॐ बुं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् - ॐ वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् । जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ बृहस्पतिमन्त्रः - ॐ बृं बृहस्पतये नमः इत्यष्टाक्षरो मन्त्रः । ॐ अस्य श्रीबृहस्पतिमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, बृहस्पतिर्देवता, बृं बीजम्, नमः शक्तिः, श्रीबृहस्पतिप्रीतये जपे विनियोगः । ॐ ब्रह्माऋषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमः मुखे । ॐ बृहस्पतिदेवतायै नमः हृदये । ॐ बृं बीजाय नमः गुह्ये । ॐ नमः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । ॐ ब्राँ अङ्गुष्ठाभ्यां नमः । ॐ ब्रीं तर्जनीभ्यां नमः । ॐ ब्रूँ मध्यमाभ्यां नमः । ॐ ब्रैं अनामिकाभ्यां नमः । ॐ ब्रौं कनिष्ठिकाभ्यां नमः । ॐ ब्रः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् । अथ ध्यानं - तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रसङ्घस्तुतपादपङ्कजम् । मेधानिधिं मत्स्यगतं द्विबाहुं गुरुं भजे मानसपङ्कजेऽहम् ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ शुक्रमन्त्रः - ॐ शुं शुक्राय नमः स्वाहा । ॐ अस्य श्रीशुक्रमन्त्रस्य ब्रह्मा ऋषिः, पङ्क्तिश्छन्दः, शुक्रो देवता, शुं बीजम्, स्वाहा शक्तिः, श्रीशुक्रप्रीत्यर्थे जपे विनियोगः । ॐ ब्रह्मऋषये नमः शिरसि । ॐ पङ्क्तिश्छन्दसे नमः मुखे । ॐ शुक्रदेवतायै नमः हृदये । ॐ शुं बीजाय नमः गुह्ये । ॐ स्वाहा शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । ॐ शुं अङ्गुष्ठाभ्यां नमः । ॐ शुं तर्जनीभ्यां नमः । ॐ शुं मध्यमाभ्यां नमः । ॐ शुं अनामिकाभ्यां नमः । ॐ शुं कनिष्ठिकाभ्यां नमः । ॐ शुं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॐ शुं हृद्याय नमः । ॐ शुं शिरसे स्वाहा । ॐ शुं शिखायै वषट् । ॐ शुं कवचाय हुँ । ॐ शुं नेत्रत्रयाय वौषट् । ॐ शुं अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् - ॐ सन्तप्तकाञ्चननिभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुहकेशयुग्मम् । क्रौञ्चासनं असुरसेवितपादपद्मं शुक्रं भजे द्विनयनं हृदि पङ्कजेऽहम् ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ शनिमन्त्रः - ॐ शं शनैश्चराय नमः । ॐ अस्य श्रीशनैश्चरमन्त्रस्य ब्रह्माऋषिः, गायत्री छन्दः, शनैश्चरो देवता, शं बीजम्, आपः शक्तिः, श्रीशनैश्चरप्रीतये जपे विनियोगः । ॐ ब्रह्मऋषये नमः शिरसे । ॐ गायत्रोछन्दसे नमः मुखे । ॐ शनैश्चरदेवतायै नमः हृदि । ॐ शं बीजाय नमः गुह्ये । ॐ आपः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । ॐ शं अङ्गुष्ठाभ्यां नमः । ॐ शं तर्जनीभ्यां नमः । ॐ शं मध्यमाभ्यां नमः । ॐ शं अनामिकाभ्यां नमः । ॐ शं कनिष्ठिकाभ्यां नमः । ॐ शं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । ॐ शं हृदयाय नमः । ॐ शं शिरसी स्वाहा । ॐ शं शिखायै वषट् । ॐ शं कवचाय हुँ । ॐ शं नेत्रत्र्याय वौषट् । ॐ शं अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् - ॐ नीलाञ्जनाभं मिहिरस्य पुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् । सुरासुराणां भयदं द्विबाहुं भजे शनिं मानसपङ्कजेऽहम् ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ राहुमन्त्रः - ॐ रां राहवे नमः । ॐ अस्य श्रीराहुमन्त्रस्य ब्रह्माऋषिः, पङ्क्तिश्छन्दः, राहुर्देवता, रां बीजम्, वेशः शक्तिः, श्रीराहुप्रीतये जपे विनियोगः । ॐ ब्रह्मऋषये नमः शिरसे । ॐ पङ्क्तिश्छन्दसे नमः मुखे । ॐ राहुदेवताये नमः हृदि । ॐ रां बीजाय नमः गुह्ये । ॐ वेशः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । ॐ रां अङ्गुष्ठाभ्यां नमः । ॐ रां तर्जनीभ्यां नमः । ॐ रां मध्यमाभ्यां नमः । औं रां अनामिकाभ्यां नमः । ॐ रां कनिष्ठिकाभ्यां नमः । ॐ रां कवचाय हुँ । ॐ रां नेत्रत्रयाय वैषट् । ॐ रां अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् । वन्दे राहुं धूम्रवर्णं अर्धकायं कृताञ्जलिम् । विकृतास्यं रक्तनेत्रं धूम्रालङ्कारमन्वहम् ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ केतुमन्त्रः - ॐ कें केतवे नमः । ॐ अस्य श्रीकेतुमन्त्रस्य श्रीब्रह्माऋषिः, पङ्क्तिश्छन्दः, केतुर्देवता, कें बीजं, वेशः शक्तिः, श्रीकेतुप्रीतये जपे विनियोगः । ॐ ब्रह्मऋषये नमः शिरसे । ॐ पङ्क्तिश्छन्दसे नमः मुखे । ॐ केतुर्देवतायै नमः हृदये । ॐ कें बीजाय नमः गुह्ये । ॐ वेशः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । ॐ कें अङ्गुष्ठाभ्यां नमः । ॐ कें तर्जनीभ्यां नमः । ॐ कें मध्यमाभ्यां नमः । ॐ कें अनामिकाभ्यां नमः । ॐ कें कनिष्ठिकाभ्यां नमः । ॐ कें करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । ॐ कें हृदयाय नमः । ॐ कें शिरसे स्वाहा । ॐ कें शिखायै वषट् । ॐ कें कवचाय हुँ । ॐ कें नेत्रत्रयाय वौषट् । ॐ कें अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् ॐ वन्दे केतुं कृष्णवर्णं कृष्णवस्त्रविभूषणम् । वामोरुन्यस्ततद्धस्तं साभयेतरपाणिकम् ॥ २॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ इति तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः । Proofread by Paresh Panditrao
% Text title            : Tantrokta Navagraha Mantra Japa Prayogah
% File name             : navagrahamantrajapaprayogaHtantrokta.itx
% itxtitle              : navagrahamantrajapaprayogaH (tantrokta)
% engtitle              : navagrahamantrajapaprayogaHtantrokta
% Category              : navagraha, mantra, tantra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan,
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org