साम्बकृतं सूर्यस्तोत्रम्
साम्ब उवाच ।
यदेतन्मण्डलं शुक्लं दिव्यं ह्यजरमव्ययम् ।
युक्तं मनोजवैरश्वैर्हारीतैर्ब्रह्मवादिभिः ॥ ९॥
आदिरेष हि भूतानामादित्य इति संज्ञितः ।
त्रैलोक्यचक्षुरेवात्र परमात्मा प्रजापतिः ॥ १०॥
एष वै मण्डले ह्यस्मिन्पुरुषो दीप्यते महान् ।
एष विष्णुरचिन्त्यात्मा ब्रह्मा चैष पितामहः ॥ ११॥
रुद्रो महेन्द्रो वरुण आकाशं पृथिवी जलम् ।
वायुः शशाङ्कः पर्जन्यो धनाध्यक्षो विभावसुः ॥ १२॥
य एष मण्डले ह्यस्मिन् पुरुषो दीप्यते महान् ।
एकः साक्षान्महादेवो वृत्रमण्डनिभः सदा ॥ १३॥
कालो ह्येष महाबाहुर्निबोधोत्पत्तिलक्षणः ।
य एष मण्डले ह्यस्मिंस्तेजोभिः पूरयन्महीम् ॥ १४॥
भ्राम्यते ह्यव्यवच्छिन्नो वातैर्योऽमृतलक्षणः ।
नातः परतरं किञ्चित्तेजसा विद्यते क्वचित् ॥ १५॥
पुष्णाति सर्वभूतानि एष एव सुधामृतैः ।
अन्तस्थान्म्लेच्छजातीयांस्तिर्यग्योनिगतानपि ॥ १६॥
कारुण्यात्सर्वभूतानि पासि त्वं च विभावसो ।
श्वित्रकुष्ठ्यन्धबधिरान्पङ्गूंश्चापि तथा विभो ॥ १७॥
प्रपन्नवत्सलो देव कुरुते नीरुजो भवान् ।
चक्रमण्डलमग्नांश्च निर्धनाल्पायुषस्तथा ॥ १८॥
प्रत्यक्षदर्शी त्वं देव समुद्धरसि लीलया ।
का मे शक्तिः स्तवैः स्तोतुमार्तोऽहं रोगपीडितः ॥ १९॥
स्तूयसे त्वं सदा देवैर्ब्रह्मविष्णुशिवादिभिः ।
महेन्द्रसिद्धगन्धर्वैरप्सरोभिः सगुह्यकैः ॥ २०॥
स्तुतिभिः किं पवित्रैर्वा तव देव समीरितैः ।
यस्य ते ऋग्यजुः साम्नां त्रितयं मण्डलस्थितम् ॥ २१॥
ध्यानिनां त्वं परं ध्यानं मोक्षद्वारं च मोक्षिणाम् ।
अनन्ततेजसाक्षोभ्यो ह्यचिन्त्याव्यक्तनिष्कलः ॥ २२॥
यदयं व्याहृतः किञ्चित्स्तोत्रेऽस्मिञ्जगतः पतिः ।
आर्तिं भक्तिं च विज्ञाय तत्सर्वं ज्ञातुमर्हसि ॥ २३॥
इति भविष्यपुराणे ब्राह्मे पर्वणि सप्तविंशाधिकशततमाध्यायान्तर्गतं
साम्बकृतं सूर्यस्तोत्रं समाप्तम् ।
भविष्यपुराण । ब्राह्मपर्व । अध्याय १२७/९-२३॥
bhaviShyapurANa . brAhmaparva . adhyAya 127/9-23..
Proofread by PSA Easwaran