कश्यपकृता सूर्यस्तुतिः

कश्यपकृता सूर्यस्तुतिः

॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । नमस्ते जगदाधार आत्मने परमात्मने । सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥ ७॥ भेदाभेदविहीनाय नानाभेदधराय ते । अनाकाराय देवाय शाश्वताय नमो नमः ॥ ८॥ अमेयशक्तये तुभ्यं कर्माधाराय भानवे । सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥ ९॥ अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने । अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥ १०॥ आदिमध्यान्तहीनाय तदाधाराय ते नमः । अनन्तविभवायैव तेजोराशे नमो नमः ॥ ११॥ दीननाथाय सर्वाय दिनानां पतये नमः । नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥ १२॥ भुक्तिमुक्तिप्रदायैव नानाखेलकराय च । नमो नमः परेशाय पुरुषाय दिवस्पते ॥ १३॥ एकस्मै चाद्वितीयाय मायाधाराय मायिने । संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥ १४॥ आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् । समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥ १५॥ देहि मे परमेशान भक्तिं ते चरणाम्बुजे । अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥ १६॥ (फलश्रुतिः) सूर्य उवाच । एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः । अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥ १७॥ तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् । मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥ १८॥ यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥ १९॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥ २०॥ एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् । अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥ २१॥ इति कश्यपकृता सूर्यस्तुतिः सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः २ । ३.२। ७-२१॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 2 . 3.2. 7-21.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Surya Stuti Kashyapakrita
% File name             : sUryastutiHkashyapakRRitA.itx
% itxtitle              : sUryastutiH kashyapakRitA (mudgalapurANAntargatA)
% engtitle              : sUryastutiH kashyapakRRitA
% Category              : navagraha, mudgalapurANa, stuti
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 2 | 3.2. 7-21||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org