मोहासुरकृता सूर्यस्तुतिः
॥ श्रीगणेशाय नमः ॥
मोहासुर उवाच ।
नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे ।
भानवे भास्करायैव रवये ते नमो नमः ॥ १७॥
कर्मणां फलदात्रे ते कर्ममूलधराय च ।
कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ १८॥
नानाभेदधरायैव नानाभेदविवर्जित ।
सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ १९॥
अनन्तापाररूपाय जगज्जीवनमूर्तये ।
सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ २०॥
त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक ।
सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ २१॥
ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः ।
अनादये महेशाय परेशाय नमो नमः ॥ २२॥
वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ २३॥
किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो ।
तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ २४॥
यदि तुष्टोऽसि देवेश वरं दातुं समागतः ।
तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ २५॥
नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् ।
राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ २६॥
आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो ।
सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ २७॥
यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् ।
त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ २८॥
एवमुक्त्वा महादेवं भास्करं प्रणनाम सः ।
उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ २९॥
ततः स सविता तत्र विस्मितस्तमुवाच ह ।
त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ ३०॥
(फलश्रुतिः)
सूर्या उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥ ३१॥
इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ ।
दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ ३२॥
इति मोहासुरकृता सूर्यस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ६ । ३.६। १७-३२॥
- .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 6 . 3.6. 17-32..
Proofread by Yash Khasbage, Preeti Bhandare