नानाब्रह्माण्यकृता श्रीसूर्यस्तुतिः
॥ श्रीगणेशाय नमः ॥
नानाब्रह्माण्यूचुः ।
विकटाय परेशाय सर्वजीवनधारिणे ।
आत्माकाराय सूर्याय भानवे ते नमो नमः ॥ ८॥
सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने ।
हेरम्बाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥ ९॥
संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे ।
छायानाथाय देवेश देवदेवेश ते नमः ॥ १०॥
अनामयाय नित्याय सहस्रकरधारिणे ।
अनन्तभेदहीनायाऽद्वितीयाय नमो नमः ॥ ११॥
सर्वादये सदा सर्वाधाराय विश्वमूर्तये ।
कर्माधाराय सर्वेषां पालकाय नमो नमः ॥ १२॥
आदित्याय परेशाय परात्परतराय ते ।
दिनस्य पतये नाथ दिनपालाय वै नमः ॥ १३॥
अर्यम्णे काश्यपायैव तेजसां पतये नमः ।
अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥ १४॥
किं स्तुमस्त्वां रवे यत्र वेदाः सङ्कुण्ठिता बभुः ।
योगिनं सततं सर्व आत्माकारं परात्परम् ॥ १५॥
एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः ।
वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥ १६॥
एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः ।
तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥ १७॥
(फलश्रुतिः)
सूर्य उवाच ।
वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियन्त्रितः ।
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥ १८॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥ १९॥
इति नानाब्रह्माण्यकृता श्रीसूर्यस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः ४२ । ६.४२ ८-१९॥
- .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 42 . 6.42 8-19..
Proofread by Yash Khasbage, Preeti Bhandare