सिन्धुकृता सूर्यस्तुतिः

सिन्धुकृता सूर्यस्तुतिः

नत्वा तत्पादकमलं बद्धाञ्जलिपुटोऽब्रवीत् । नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ॥ ३५॥ नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने । नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ॥ ३६॥ नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे । परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ३७॥ गुणातीताय गुरवे गुणक्षोभविधायिने । सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ॥ ३८॥ धन्यं मे जन्म देवेश ! वंशो मे जनकोऽपि च । जननी च तपश्चापि यज्जातं तव दर्शनम् ॥ ३९॥ वरदश्चेद् दिनेश त्वं देदि मे सर्वतोऽमृतिम् । तव प्रसादात् सङ्ग्रामे जयेयं सर्वदेवताः ॥ ४०॥ वर्तमानाद् देवगणान्न मे मृत्युर्भवेदिति । एवं तस्य वरान् श्रुत्वा परितुष्टो विभावसुः । उवाच निजभक्तं तमनुष्ठानकृशं भृशम् ॥ ४१॥ सूर्य उवाच । न भयं विद्यते देवयोनिभ्यो नृभ्य एव च । न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ॥ ४२॥ नोषःकाले न सन्ध्यायां मम वाक्याद् भविष्यति । मरणं ते नृपसुत ! गृहाणामृतभाजनम् ॥ ४३॥ इदं यावत् कण्ठगतं तावन्मृत्युर्न ते भवेत् । निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ॥ ४४॥ देवो योऽवतरेत् कोऽपि धुन्वन् केशाग्रतो दिवम् । यस्याङ्गुष्ठनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः ॥ ४५॥ स त्वां हनिष्यति विभुरन्यस्मादभयं तव । मद्वरस्य प्रसादेन सर्वं तृणमयं तव ॥ ४६॥ त्रैलोक्यराज्यं ते दत्तं नात्र कार्या विचारणा । इति सिन्धुकृता सूर्यस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ७४ । २.७४ ३५-४६॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 74 . 2.74 35-46.. Proofread by Preeti Bhandare
% Text title            : Sindhukrita Surya Stuti
% File name             : sUryastutiHsindhukRRitA.itx
% itxtitle              : sUryastutiH sindhukRitA (gaNeshapurANAntargatA)
% engtitle              : sUryastutiH sindhukRRitA
% Category              : navagraha, gaNeshapurANa, stuti
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 74 | 2.74 35-46||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org