शिवविष्णूकृतं सूर्यस्तोत्रम् १६
महादेव उवाच ।
जय भाव जयाजेय जय हंस दिवाकर ।
जय शम्भो महाबाहो खग गोचर भूधर ॥ ६०॥
जय लोकप्रदीपेन जय भानो जगत्पते ।
जय काल जयानन्त संवत्सर शुभानन ॥ ६१॥
जय देवादितेः पुत्र कश्यपानन्दवर्धन ।
तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ॥ ६२॥
महेश जय कान्तीश जय कालेश शङ्कर ।
अर्थकामेश धर्मेश जय मोक्षेश शर्मद ॥ ६३॥
जय वेदाङ्गरूपाय ग्रहरूपाय वै नमः ।
सत्याय सत्यरूपाय सुरूपाय शुभाय च ॥ ६४॥
क्रोधलोभविनाशाय कामनाशाय वै जय ।
कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ॥ ६५॥
विश्वाय विश्वरूपाय विश्वकर्माय वै जय ।
जयोङ्कार वषट्कार स्वाहाकार स्वधामय ॥ ६६॥
जयाश्वमेधरूपाय चाग्निरूपार्यमाय च ।
संसारार्णवपीताय मोक्षद्वारप्रदाय च ॥ ६७॥
संसारार्णवमग्नस्य मम देव जगत्पते ।
हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ॥ ६८॥
ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः ।
विरराम महाराज प्रणम्य शिरसा रविम् ॥ ६९॥
अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् ।
उवाच राजशार्दूल भक्त्या श्रद्धासमन्वितः ॥ ७०॥
विष्णुरुवाच ।
नमामि देवदेवेशं भूतभावनमव्ययम् ।
दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ॥ ७१॥
इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् ।
त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् ॥ ७२॥
षण्मुखाय नमो नित्यं त्रिनेत्राय नमो नमः ।
चतुर्विंशतिपादाय नमो द्वादशपाणये ॥ ७३॥
नमस्ते भूतपतये लोकानां पतये नमः ।
देवानां पतये नित्यं वर्णानां पतये नमः ॥ ७४॥
त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः ।
त्वं सोमस्त्वं तथाऽऽदित्यस्त्वमोङ्कारक एव हि ॥ ७५॥
बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः ।
यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज ॥ ७६॥
त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् ॥ ७७॥
ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते ।
कल्पादौ तु पुरा देव स्थितये जगतोऽनघ ॥ ७८॥
नमस्ते वेदरूपाय अहोरूपाय वै नमः ।
नमस्ते ज्ञानरूपाय यज्ञाय च नमो नमः ॥ ७९॥
प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल ।
संसारार्णवमग्नानां प्रसादं कुरु गोपते ॥ ८०॥
वेदान्ताय नमो नित्यं नमो यज्ञकलाय च ।
इति भविष्यपुराणे ब्राह्मे पर्वणि त्रयःपञ्चाशदधिकशततमाध्यायान्तर्गतं
शिव-विष्णुकृतं सूर्यस्तोत्रं समाप्तम् ।
भविष्यपुराण । ब्राह्मपर्व । अध्याय १५३/५०-८०॥
bhaviShyapurANa . brAhmaparva . adhyAya 153/50-80..
Proofread by PSA Easwaran