प्रश्नोत्तरमणिरत्नमाला

प्रश्नोत्तरमणिरत्नमाला

अपारसंसारसमुद्रमध्ये निमज्जतो मे शरणं किमस्ति । गुरो कृपालो कृपया वदैत- द्विश्वेशपादाम्बुजदीर्घनौका ॥ १॥ बद्धो हि को यो विषयानुरागी को वा विमुक्तो विषये विरक्तः । (विषयैर्विमुक्तः) को वाऽस्ति घोरो नरकः स्वदेह- स्तृष्णाक्षयः स्वर्गपदं किमस्ति ॥ २॥ संसारहृत्कस्तु निजात्मबोधः को मोक्षहेतुः प्रथितः स एव । द्वारं किमेकं नरकस्य नारी का स्वर्गदा प्राणभृतामहिंसा ॥ ३॥ शेते सुखं कस्तु समाधिनिष्ठो जागर्ति को वा सदसद्विवेकी । के शत्रवः सन्ति निजेन्द्रियाणि तान्येव मित्राणि जितानि कानि ॥ ४॥ को वा दरिद्रो हि विशालतृष्णः श्रीमांश्च को यस्य समस्ततोषः । जीवन्मृतो कस्तु निरुद्यमो यः कोवाऽमृतः स्यात्सुखदा निराशा ॥ ५॥ पाशो हि को यो ममताभिधानः संमोहयत्येव सुरेव का स्त्री । को वा महान्धो मदनातुरो यो मृत्युश्च को वापयशः स्वकीयम् ॥ ६॥ को वा गुरुर्यो हि हितोपदेष्टा शिष्यस्तु को यो गुरु भक्त एव । को दीर्घ रोगो भव एव साधो किमौषधिं तस्य विचार एव ॥ ७॥ किं भूषणाद्भूषणमस्ति शीलं तीर्थं परं किं स्वमनो विशुद्धम् । किमत्र हेयं कनकं च कान्ता श्राव्यं सदा किं गुरुवेदवाक्यम् ॥ ८॥ के हेतवो ब्रह्मगतेस्तु सन्ति सत्सङ्गतिर्दानविचारतोषाः । (शान्तिविचारतोषाः) के सन्ति सन्तोऽखिलवीतरागाः अपास्तमोहाः शिवतत्त्वनिष्ठाः ॥ ९॥ को वा ज्वरः प्राणभृतां हि चिन्ता मूर्खोऽस्ति को यस्तु विवेकहीनः । कार्या मया का शिवविष्णुभक्तिः किं जीवनं दोषविवर्जितं यत् ॥ १०॥ विद्या हि का ब्रह्मगतिप्रदा या बोधो हि को यस्तु विमुक्ति हेतुः । (बोधोऽस्ति) को लाभ आत्मावगमो हि यो वै जितं जगत्केन मनो हि येन ॥ ११॥ शूरान्महाशूरतमोऽस्ति को वा मनोजबाणैर्व्यथितो न यस्तु । प्राज्ञोऽतिधीरश्च समोऽस्ति को वा प्राप्तो न मोहं ललनाकटाक्षैः ॥ १२॥ विषाद्विषं किं विषयाः समस्ता दुःखी सदा को विषयानुरागी । धन्योऽस्ति को यस्तु परोपकारी कः पूजनीयो ननु तत्त्वनिष्ठः ॥ १३॥ सर्वास्ववस्थास्वपि किं न कार्यं किंवा विधेयं विदुषां प्रयत्नात् । स्नेहश्च पापं पठनं च धर्मः संसारमूलं हि किमस्ति चिन्ता ॥ १४॥ विज्ञान्महाविज्ञतमोऽस्ति को वा नार्या पिशाच्या न च वञ्चितो यः । का श‍ृङ्खला प्राणभृतां च नारी दिव्यं व्रतं किं च निरस्तदैन्यम् ॥ १५॥ ज्ञातुं न शक्यं हि किमस्ति सर्वै- र्योषिन्मनो यच्चरितं तदीयम् । का दुस्त्यजा सर्वजनैर्दुराशा विद्याविहीनः पशुरस्ति को वा ॥ १६॥ वासो न सङ्गः सह कैर्विधेयो मूर्खैश्च नीचैश्च खलैश्च पापैः । मुमुक्षुणा किं त्वरितं विधेयं सत्सङ्गतिर्निर्ममतेश भक्तिः ॥ १७॥ लघुत्वमूलं च किमर्थितैव गुरुत्वबीजं यदयाचनं किम् । जातोऽस्ति को यस्य पुनर्न जन्म को वाऽमृतो यस्य पुनर्न मृत्युः ॥ १८॥ मूकोऽस्ति को वा बधिरश्च को वा वक्तुं न युक्तं समये समर्थः । तथ्यं सुपथ्यं न श‍ृणोति वाक्यं विश्वासपात्रं न किमस्ति नारी ॥ १९॥ तत्त्वं किमेकं शिवमद्वितीयं किमुत्तमं सच्चरितं यदस्ति । किं कर्म कृत्वा न च शोचनीयः कामारिकंसारिसमर्चनाख्यम् ॥ २०॥ शत्रोर्महाशत्रु तमोऽस्ति को वा कामःसकोपानृतलोभतृष्णः । न पूर्यते को विषयैः स एव किं दुःखमूलं ममताभिधानम् ॥ २१॥ किं मण्डनं साक्षरता मुखस्य सत्यं च किं भूतहितं तदेव । त्यक्त्वा सुखं किं स्त्रियमेव सम्यक् देयं परं किं त्वभयं सदैव ॥ २२॥ कस्यास्ति नाशे मनसो हि मोक्षः क्व सर्वथा नास्ति भयं विमुक्तौ । शल्यं परं किं निजमूर्खतैव के के ह्युपास्या गुरुवश्च वृद्धाः ॥ २३॥ उपस्थिते प्राणहरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् । वाक्कायचित्तैः सुखदं यमघ्नं var हृद्बुद्धिचित्तैः मुरारिपादाम्बुजमेव चिन्त्यम् ॥ २४॥ के दस्यवः सन्ति कुवासनाख्याः कः शोभते यः सदसि प्रविद्यः । मातेव का या सुखदा सुविद्या किमेधते दान वशात्सुविद्या ॥ २५॥ कुतो हि भीतिः सततं विधेया लोकापवादाद्भवकाननाच्च । को वास्ति बन्धुः पितरौ च कौ वा विपत्सहायः परिपालकौ यौ ॥ २६॥ बुद्ध्या न बोध्यं परिशिष्यते किं शिव प्रशान्तं सुख बोध रूपम् । ज्ञाते तु कस्मिन् विदितं जगत्स्या- त्सर्वात्मके ब्रह्मणि पूर्ण रूपे ॥ २७॥ किं दुर्लभं सद्गुरुरस्ति लोके सत्सङ्गतिर्ब्रह्मविचारणा च । त्यागो हि सर्वस्य निजात्मबोधः var शिवात्मबोधः किं दुर्जयं सर्वजनैर्मनोजः ॥ २८॥ पशोः पशुः को न करोति धर्म प्राधीतशास्त्रोऽपि न चात्मबोधः । किं तद्विषं भाति सुधोपमं स्त्री के शत्रवो मित्रवदात्मजाद्याः ॥ २९॥ विद्युच्चलं किं धन यौवनायु- र्दानं परं किं च सुपात्र दत्तम् । कण्ठे गतेरप्यसुभिर्न कार्यं किंवा विधेयं मलिनं शिवार्चा ॥ ३०॥ किं कर्म यत्प्रीतिकरं मुरारेः क्वास्था न कार्या सततं भवाब्धौ । अहर्निशं किं परिचिन्तनीयं संसारमिथ्यात्वशिवात्मतत्त्वम् ॥ ३१॥ कण्ठं गता वा श्रवणं गता वा प्रश्नोत्तराख्या मणिरत्नमाला । तनोतु मोदं विदुषां प्रयत्नात् रमेशगौरीशपदौ सुसेव्यौ ॥ ३२॥ इति श्रीमुक्तीन्द्रशङ्करमिश्रविरचिता प्रश्नोत्तरमणिरत्नमाला अथवा ब्रह्मोत्तरतत्त्वरत्नमाला समाप्ता । Encoded and proofread by Sunder Hattangadi Thirtytwo Catechetical Verses on Morals and Religion by Muktindrashankara Mishra.
% Text title            : Prashnottara Maniratnamala or brahmottaratattvaratnamAlA
% File name             : maniratnamala.itx
% itxtitle              : prashnottaramaNiratnamAlA athavA brahmottaratattvaratnamAlA (muktIndrashaNkaramishravirachitA)
% engtitle              : prashnottaramaNiratnamAlA athavA brahmottaratattvaratnamAlA
% Category              : stotra, shankarAchArya, upadesha
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : stotra
% Author                : Muktindrashankara Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sunder hattangadi
% Proofread by          : sunder hattangadi
% Description-comments  : 32 verses on conduct conducive to liberation
% Indexextra            : (Hindi, Scan)
% Latest update         : Jan. 2, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org