श्रीशङ्कराचार्यशतकम्

श्रीशङ्कराचार्यशतकम्

श्रीशिवदत्तशर्माचतुर्वेदः साहित्यविभागाध्यक्षः काशीहिन्दूविश्वविद्यालयस्य संस्कृतसङ्काये शङ्करभगवत्पादं शिवाऽवतारं समाश्रये सुखदम् । कल्याणाय जनानां ज्ञानामृतवर्षिणं मेघम् ॥ १॥ मानवतेयं धन्या सञ्जाता यत्कृपालेशैः । आविर्भूतः प्रथमः स श्रीमान् शङ्कराचार्यः ॥ २॥ भूवलये धन्यतमः सर्वोऽयं कालटीभागः । यत्रत्यधूलिकणिका शङ्करपदसौरभं वहति ॥ ३॥ सा माता धन्यतमा यस्याः कुक्षौ समवतीर्णम् । निखिलागमस्वतन्त्रं सत्यं सच्चिन्मयं ज्योतिः ॥ ४॥ प्रणमामो गोविन्दं भगवन्तं सद्गुरुं नित्यम् । यस्य च शिक्षा फलिता जगद्गुरुत्वे स्वयंवृता काचित् ॥ ५॥ वन्दितदिव्यचरित्रः परमपवित्रः प्रभास्फुरद्गात्रः । भूतभविष्यन्मध्ये विभूतिरिव वर्तमानोऽयम् ॥ ६॥ ज्योतिः किञ्चन साक्षाद् भासितमासीत्तु भूवलये । यच्चाऽनन्तं कालं सम्यक् संस्तम्भयामास ॥ ७॥ कालोऽयं कलिरूपः सत्ययुगादपि समुन्नतो जातः । यस्मिन् शङ्करभगवत्पादैराविष्कृतिः क्लृप्ता ॥ ८॥ धन्या मानवतेयं सञ्जाता शङ्कराचार्यः । स्वयमवतीर्य समस्याः सर्वाः संसाधयामास ॥ ९॥ वेदानामथ मननं विधाय सद्यः समुन्नतं तत्त्वम् । व्याप्तं परमनिगूढं वैशद्येनाथ घोषयामास ॥ १०॥ उपनिषदां व्याख्यानं विहितवता धीमता येन । भाष्याणां सा सरणिः प्रणम्य भावं समानीता ॥ ११॥ तासामथ सर्वासामुपनिषदामुपरि भाष्यसंरचना । या विहिताऽऽचार्यवरैः सुधेव सा जीवनोन्नतये ॥ १२॥ तदनन्तरमुपनिषदां महत्त्वमग्रे परिस्फुरितम् । अद्वैततत्त्वमयता सर्वासां सुस्फुटा जाता ॥ १३॥ तदिदं किञ्चन तावद्विलक्षणं दिव्यताभरितम् । विज्ञानं विद्योतितमभवच्छ्रीशङ्कराचार्यैः ॥ १४॥ व्याख्या तावदियं सा गरीयसी शङ्कराचार्यैः । उपनिषदां या रचिता संसारे निधिरयं कश्चित् ॥ १५॥ पञ्चमवेदविवर्ते दिव्ये तस्मिन् महत्त्वसम्पूर्णे । गीता सङ्ग्रथिताऽऽसीन्महितमहाभारते ग्रन्थे ॥ १६॥ वेदव्यासविरचना सेयं क्रोडीचकार तत्सर्वम् । मानवजीवनमध्ये समुन्नतं यत् प्रकाम्यं वा ॥ १७॥ तत्र च गीता दिव्या श्रीकृष्णेनार्जुनाय सन्दिष्टा । शङ्करभगवत्पादव्याख्यानं संप्रतीक्षमाणाऽऽसीत् ॥ १८॥ तदुपरि भाष्यविरचना कृता समासीत्तु शङ्कराचार्यैः । तदवधि गीता गीता जाता सर्वासु जनतासु ॥ १९॥ अद्वैतस्य समुद्रं तरङ्गितं वा न पश्यन्तः । दिग्भ्रान्ता इव मूढा जन्मनि जन्मनि भजन्ति दुःखचयम् ॥ २०॥ अद्वैताख्यं तत्त्वं गीतायां गीतमेव कृष्णेन । तत्सन्देशं लब्ध्वा पार्थो विजयी बभूव सङ्ग्रामे ॥ २१॥ पार्थत्वं ननु जातिः काचन सर्वेषु देहेषु । काले काले स्वीयं रूपं सम्यक् प्रकाशयत्येव ॥ २२॥ अद्यापि सैव गीता श्रीकृष्णस्यैव मुखकमलसञ्जाता । सर्वविधं पार्थत्वं पदे पदे सन्दिशत्येव ॥ २३॥ सर्वमपीदं तत्त्वं गीताभाष्यस्य रचनायाम् । शङ्करभगवत्पादैः प्रकाशितं सर्वदा जयति ॥ २४॥ यद्यप्यासीद् गीता महति महाभारते विमला । किन्तु महत्त्वं तस्याः प्राथम्येन प्रकाशितं जातम् ॥ २५॥ तावत्प्रभृति समेषामाचार्याणां च विदुषां च । दृष्टौ गीता काचिद् विपुलज्ञाने गभीरनदी ॥ २६॥ यद्यपि शङ्करभगवत्पादैर्व्याख्यायिता गीता । तत्रैव पूर्वभाष्याणामपि सङ्केत उल्लसति ॥ २७॥ किन्तु न मिलितान्येतान्यद्यावधि भाष्यरूपाणि । शङ्करभगवत्पादैरारचितं भाष्यमेवाऽऽद्यम् ॥ २८॥ अग्रे तु प्रस्थानत्रयमध्ये सुप्रतिष्ठिता गीता । नानाव्याख्यानानां केन्द्रीभूतैव सञ्जाता ॥ २९॥ अद्वैतवादविमतैरप्याचार्यैर्मता गीता । सर्वा सम्परिपीता कर्ममये जीवने सर्वैः ॥ ३०॥ गीताऽमृतमिदमतुलं सूक्ष्मेक्षिकया विचारयन्वाचा । नूनं निखिलं तेजो सम्भृतवांस्तद् विचारेषु ॥ ३१॥ योऽयं मर्यादाया गरिमा कश्चित् समुच्छलति । सर्वोऽयं सन्देशः करुणापूर्णस्य शङ्कराचार्यस्य ॥ ३२॥ श्रीव्यासेन विरचितं दिव्यतमं ब्रह्मसूत्रं तत् । शारीरिकेण भाष्येणाऽसौ स्वच्छं प्रकल्पयामास ॥ ३३॥ वेदान्तडिण्डिमानां घोषश्चासीत् समुच्छलितः । वैचारिकसङ्घर्षाणामप्येषा विलक्षणा सरणिः ॥ ३४॥ उपनिषदामतिगहने ज्ञानवने सञ्चरन्नित्यम् । दिव्यफलानामन्वेषणमथ दानश्रीगुरुर्विदधे ॥ ३५॥ दर्शनसारैः सर्वैरोतप्रोतानि भिक्षुसूत्राणि । श्रोबादरायणकृतानि व्याख्या रत्नैविभूषयामास ॥ ३६॥ सर्वेषामथ तेषां तेषां विख्यातदर्शनानां वा । सुगभीराणि मतानि तु नूनं विश्लेषयामास ॥ ३७॥ ज्ञानस्याद्याकाशे नूतनसूर्यायितं येन । प्रातःस्मरणीयोऽसौ पुण्यश्लोकोऽस्ति शङ्कराचार्यः ॥ ३८॥ स्वयमेव श्रीव्यासश्छन्नतया यत्समीपमागत्य । शास्त्रार्थं च वितन्वन् स्वात्मानं तोषयामास ॥ ३९॥ विद्यारण्यविरचितं शङ्करदिग्विजयमालोच्य । शङ्करभगवत्पादे जातं विनयोज्ज्वलं चेतः ॥ ४०॥ इतिहासानां मध्ये विभूतिसारैर्विभूषितस्वान्तः । बुद्धादूर्ध्वं पुरुषो न दृष्टिपथगो विभात्यद्य ॥ ४१॥ विमता येन ध्वस्ता वैदिकमार्गाः प्रकाशिताः सम्यक् । सर्वो लोको नूनं नित्यं सच्छिष्यतां नीतः ॥ ४२॥ दिव्यं जगद्गुरुपदं स्वयमेवोपायनीकृत्य । भारतजनता तुष्टा मानवता चापि सम्पुष्टा ॥ ४३॥ पोषितचारित्रचित्रैर्विभूषितं वा चराचरञ्चैतत् । शङ्करभगवत्पादध्यानैरानन्दितं जातम् ॥ ४४॥ सर्वेषामपि तावद्देवानां चाऽथ देवीनाम् । दिव्याः स्तुतयो रचिता विनिर्मलैश्छन्दसां निचयैः ॥ ४५॥ सर्वेषामथ तेषां स्तुतिरूपश्च्छन्दसां महिमा । सत्यं सत्यमनन्तं सुखसंसारं समानयति ॥ ४६॥ सौन्दर्यलहरिकायाः प्रवाहमाला निमग्नानाम् । भक्तानां हृदयानां या भाषा साऽस्ति मन्त्रमयी ॥ ४७॥ भजगोविन्दस्तोत्रे जनजनमानसविराजिते दिव्ये । कल्याणानां करुणां धारां विस्तारयाञ्चक्रे ॥ ४८॥ वाराणसीनिवासे लीलानां दिव्यचित्राणि । सम्पश्यन् विचचार स्वच्छन्दं शङ्कराचार्यः ॥ ४९॥ श्रीविश्वनाथपूजनजगदम्बार्चननिवेदनेन विश्वेशम् । कोटीनपि तान्देवानावाहितवान् विभावना भरितः ॥ ५०॥ सर्वेषामथ तेषां देवानां तुष्टिमातन्वन् । गाङ्गं पयः पिबन्नथ विरजोरूपे विराजितो जातः ॥ ५१॥ नास्तिकतासिद्धान्तान् विवादमध्ये समाहुत्य । ज्ञानाऽग्निकुण्डमध्ये यज्ञे स्वाहाचकार विक्षिप्तान् ॥ ५२॥ बुद्धो योऽसौ जातोऽवताररूपस्तदुपदेशान् । धूर्ता विपरीततया काले विस्तारयामासुः ॥ ५३॥ आसीद् धूर्तैरेभिस्तादृशमाच्छादितं सर्वम् । ज्ञानस्य गगनमेतत् कालाऽऽवरणैर्यथा मेघैः ॥ ५४॥ वेदान्तपवनवेगैर्विच्छिन्ना बौद्धमेघा ये । भारतवर्षाऽऽकाशं विहाय दूरं प्रयातास्ते ॥ ५५॥ वाग्युद्धानि वितन्वन् बौद्धाचार्यैः सहैव सहसैव । तेषां पराजयानामितिहासे लेखनं चक्रे ॥ ५६॥ मीमांसकान् विवादे सम्यक् सच्छिष्यतां नीत्वा । नानाशास्त्रार्थानां जनतायां संप्रवर्तनं चक्रे ॥ ५७॥ आसेतुराहिमाचलमथाटकात् कटकपर्यन्तम् । पदभ्यां विचरन् नित्यं जनजनसन्दर्शनं चक्रे ॥ ५८॥ दिव्यानथ तान्देवान्दिक्कोणेषु प्रतिष्ठितानपि वा । सम्पूजयन्निकामं सन्तुष्टः शङ्करस्वामी ॥ ५९॥ यत्र हि जगाम जनता कोटिशतैः प्राप तं द्रष्टुम् । दर्शनवन्दनभाषणविनिमयरूपेण धन्यतां भेजे ॥ ६०॥ राजानो येऽप्यासंस्तस्मिन् कालेऽथ संसारे । वैभवमतुलं स्वीयं तच्चरणे प्रार्पयामासुः ॥ ६१॥ स्तोत्राणां या काचिद्दिव्या रचनावलिर्जयति । तस्या उद्भवसंस्था आचार्यस्तोत्रमालेयम् ॥ ६२॥ जीवेश्वरयोर्मिलने बिन्दुत्वं संप्रयातानि । स्तोत्राक्षराणि शाश्वतभावैर्नित्यं प्रपूर्णानि ॥ ६३॥ यत्राऽस्माकं श्रद्धाधाराऽसौ संप्रवहन्नास्ते । तत्रैव स्तुतिकाले चेतो नित्यं निबद्धत्तां याति ॥ ६४॥ अद्वैतदर्शनस्याऽऽविर्भावे यन्मनोलग्नम् । तेन कथं देवानां स्तोत्राणीमानि रचितानि ॥ ६५॥ द्वैते त्वेतत्सर्व स्तोत्रं प्रक्रम्यतां नाम । कथमद्वैते स्तोत्रं तत्र द्वैतत्वमायातम् ॥ ६६॥ सन्देहोऽयं तावदद्वैते नैव साधुतां याति । अज्ञाने तु द्वैताऽवस्थैवाऽत्रानुभूयमानाऽऽस्ते ॥ ६७॥ अज्ञानावस्थतो ज्ञानावस्थं मनो यथा भूयात् । तस्यार्थे सात्त्विकता सङ्गतिरावश्यकी कथिता ॥ ६८॥ अज्ञानावस्थायां द्वैते बुद्धौ प्रजातायाम् । अद्वैतभावनार्थं स्तोत्राणीमानि रचितानि ॥ ६९॥ अद्वैते तु तदेकं दृश्यं द्रष्टा च नो किञ्चित् । रूपं मृग्यं जातं केवलमेकं हि तत्त्वं तत् ॥ ७०॥ नूनं तस्या एवोच्चाया भूमेरवाप्त्यर्थम् । नानाजन्म गृहीतं नानारूपाणि चाप्तानि ॥ ७१॥ नाना-भाव-विलोपोऽपि च नानात्वेनैव सम्भाव्यः । एतत्तत्त्वं मत्वा स्तोत्राणां पद्धतिः सेयम् ॥ ७२॥ द्वैताऽवस्थास्थितिरप्येषा निर्मलतां यायात् । तस्मिन्नर्थे चैते देवा एवोपकुर्वन्ति ॥ ७३॥ अद्वैताऽवस्थायां यदा स्थितिर्जायते नाम । नूनं तदा न संस्तुतिरप्येषा चादृता भवति ॥ ७४॥ या साहित्ये सेवा विहिता श्रीशङ्कराचार्यैः । नैकशताब्दीं यावत्साऽद्याप्यायात्यविच्छिन्ना ॥ ७५॥ पुनः समाजदृष्टिर्याता श्रीशङ्कराचार्याणाम् । वैदिकमार्गविलोपस्तेषां क्षणमपि न सह्यतां यातः ॥ ७६॥ वैचारिकसङ्घर्षे बौद्धान् सम्यक् पराजित्य । वैदिकविश्वासानां दीप्तिः स्थानं परं लेभे ॥ ७७॥ आस्तिकताया घोषो नूनं तैरेव तादृशो विहितः । भूमण्डलमिदमखिलं दिव्यैर्भावैर्विमण्डितं येन ॥ ७८॥ नानावतारचर्चा परमेश्वररूपचित्रेषु । जनतायां हृन्मन्दिरमध्यस्थेयं पुनर्जाता ॥ ७९॥ वर्णाश्रममर्यादा देशे संस्थापिता जाता । शान्तिः काऽप्यवतीर्णा समृद्धिमयता समायाता ॥ ८०॥ वैराग्याविष्कारे नूनं तैर्यन्मनो दत्तम् । संन्यासाश्रमधारा नवावतारा स्थितिं प्राप ॥ ८१॥ दशनाम्नां संन्यासाश्रमनिष्ठानां विभूतिरूपाणाम् । आविर्भावे जाते लोको वैराग्यमापेदे ॥ ८२॥ वैराग्यमयी धारा नतमां साधारणी काचित् । नैवेयं सङ्घर्षात्पलायने कापि सरणिः स्यात् ॥ ८३॥ जीवनसफलीकरणे वैराग्यस्यैव धारेयम् । पूर्णतमं स्वाराज्यं जीवनमध्ये समादिशति ॥ ८४॥ सर्वासां सिद्धीनां साम्राज्ये संस्थितो भूत्वा । दूरे संस्थित आसीन्मुक्तो मुक्तिप्रदाताऽयम् ॥ ८५॥ देशस्य चतुष्कोणे पीठानां स्थापनां कृत्वा । धार्मिकमर्यादानां परिपालनभावमातेने ॥ ८६॥ अद्यापि तेषु पीठेष्वासीनाः शङ्कराचार्याः । धार्मिकसद्भावानां प्रचारकार्येषु सज्जन्ते ॥ ८७॥ शङ्करभगवत्पादैर्या या सरणिः प्रवर्तिता दिव्या । सा सैवाऽद्य समस्ते देशे परिपाल्यते सकलैः ॥ ८८॥ सोऽयं भारतदेशोऽद्यत्वे तद्दिष्टमार्गाणाम् । अवलम्बनमथ कृत्वा जगद्गुरुत्वं वहन् जयति ॥ ८९॥ इतिहासे स्वर्णमये लिखितं कालेन करुणारम्यम् । नानाऽसङ्ख्यैश्चरितैस्तदिदं विभ्राजते ज्योतिः ॥ ९०॥ दर्शन-विचार-सरणौ शाङ्करसिद्धान्तमुज्झित्वा । कोऽपि विचारः कर्तुन्नतमामद्याऽस्ति शक्यसम्पादः ॥ ९१॥ स्तोत्राणां साहित्ये शङ्करवाक्यावलिः सेयम् । सन्तर्पयति नितान्तं मानसमद्यापि सहृदयावल्याः ॥ ९२॥ शङ्करचरितसमर्चनविधया नूनं महाकवयः । छन्दोवितानमसमं नूनं विस्तारयन्त्यद्य ॥ ९३॥ शास्त्रविचारावसरे शीर्षस्थः शङ्कराचार्यः । सर्वैरेवोद्ध्रियते नास्तिकहास्तिकपञ्चाननः सद्यः ॥ ९४॥ खण्डनमण्डनसरणिः काऽपि समायोज्यतां नाम । शङ्करभगवत्पादा नो विस्मरणीयतां यान्ति ॥ ९५॥ संन्यासैमण्डलानां सर्वस्वं शङ्कराचार्याः । संन्यासैनां समाजे श्रेष्ठत्वं सर्वसम्मतं चाऽस्ते ॥ ९६॥ ग्रन्थाऽगारे तावद् विलोक्यते ग्रन्थनिचयेषु । शाङ्करसिद्धान्तानां ग्रन्थानां सा महीयसी सङ्ख्या ९७॥ उत्तरदक्षिणभेदं विलोपयन्नूनमाचार्यः । दक्षिणदेशोत्पन्नश्चोत्तरदेशेषु बभ्राम ॥ ९८॥ जडजङ्गमजगतामथ सिद्धान्तेऽद्वैतमास्थाय । ननु देशकालभेदे का भाषा शङ्कराचार्ये ॥ ९९॥ गङ्गा-रेवामज्जनव्यत्यन्तेनादरेण संसाध्य । नूनं पूतचरित्रो नेताऽऽसीच्छङ्कराचार्यः ॥ १००॥ इति तावच्छीगिरिधरशर्मचतुर्वेदतनुजन्मा । शिवदत्तचतुर्वेदः शङ्करशतकं निवेदयति ॥ १०१॥ Encoded and proofread by Mandar Mali
% Text title            : Shankaracharya Shatakam by Shivadatta Sharma Chaturveda
% File name             : shankarAchAryashatakam.itx
% itxtitle              : shaNkarAchAryashatakam (shivadattasharmAchaturvedavirachitam)
% engtitle              : shankarAchArya shatakam
% Category              : shankarAchArya, gurudev
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% SubDeity              : gurudev
% Author                : shrIshivadattasharmAchaturvedaH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com
% Description/comments  : Sarawati Sushma 1986, 87 Shankaracharya 12th Birth Centennary Issue Sampurnanada University
% Indexextra            : (Scan)
% Latest update         : April 23, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org