॥ बृहत्पाराशरहोराशास्त्रम् ११-२० ॥


अथ भावविवेकाध्यायः ॥ ११॥ अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने । कस्माद् भावात् फलं किं किं विचार्यमिति मे वद ॥ १॥ देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् । सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् ॥ २॥ धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् । धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥ ३॥ विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् । पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥ ४॥ वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि । निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥ ५॥ यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् । पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ॥ ६॥ मातुलान्तकशंकानां शत्रूंश्चैव व्रणादिकान् । सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ॥ ७॥ जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् । मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥ ८॥ आयु रणं रिपुं चापि दुर्गं मृतधनं तथा । गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ॥ ९॥ भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा । तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् ॥ १०॥ राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा । प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ॥ ११॥ नानावस्तुभवस्यापि पुत्रजायादिकस्य च । आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् ॥ १२॥ व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा । व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता ॥ १३॥ यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक् । युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः ॥ १४॥ तदीक्षणवशात् तत्तद्भाबसौख्यं वदेद् बुधः । यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥ १५॥ भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा । पीडितो वाऽस्य भावस्य फलं नष्टं वदेद् ध्रुवम् ॥ १६॥
अथ तनुभावफलाध्यायः ॥ १२॥ सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् । केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् ॥ १॥ लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् । शुभः केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः ॥ २॥ लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते । शुभदृष्टिविहीने च जन्तोर्देहसुखं न हि ॥ ३॥ लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः । सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ॥ ४॥ लग्नेशो ज्ञा गुरुर्वाऽपि शुक्रो वा केन्द्रकोणगः । दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ॥ ५॥ लग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते । कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ॥ ६॥ बुधो जीवोऽथवा शुक्रो लग्ने चन्द्रसमन्वितः । लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ॥ ७॥ ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ । राश्यंशसदृशौ गात्रे स जातो नालविष्टितः ॥ ८॥ चतुष्पदगतो भानुः परे वीर्यसमन्विताः । द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ॥ ९॥ रवौन्दू एकभावस्थावेकंशकसमन्वितौ । त्रिमात्रा च थिभिर्मासैः पित्रा भ्रात्रा च पोषितः ॥ १०॥ एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः । अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ॥ ११॥ शिरो नेत्रे तथ कर्णौ नासिके च कपोलकौ । हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥ १२॥ मध्यद्रेष्काणगे लग्ने कण्ठोंऽसौ च भुजौ तथा । पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥ १३॥ वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जंघके । पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके ॥ १४॥ यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् । नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः ॥ १५॥
अथ धनभावफलाध्यायः ॥ १३॥ धनभावफलं वच्मि स्रृणु त्वं द्विजसत्तम । धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा ॥ १॥ धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् । धनदश्च धने सौम्यः पापो धनविनाशकृत् ॥ २॥ धनाधिपो गुरुर्यस्य धनभावगतो भवेत् । भौमेन सहितो वाऽपि धनवान् स नरो भवेत् ॥ ३॥ धनेशे लाभभावस्थे लाभेशे वा धनं गते । तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् ॥ ४॥ धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे । गुरुशुक्रयुते दृष्टे धनलाभमुदीरयेत् ॥ ५॥ धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि । धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः ॥ ६॥ धनलाभाधिपावस्तौ पापग्रहसमन्वितौ । जन्मप्रभृतिदारिद्रं भिक्षान्नं लभते नरः ॥ ७॥ षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि । लाभे कुजोधने राहू राजदण्डाद् धनक्षयः ॥ ८॥ लाभे जीवे धने शुक्रे धनेशे शुभसंयुते । व्यये च शुभसंयुक्ते धर्मकार्ये धनव्ययः ॥ ९॥ स्वभोच्चस्थे धनाधीशे जातको जनपोषकः । परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम ॥ १०॥ स्थिते पारावतांशादौ धनेशे शुभसंयुते । तद्गृहे सर्वसम्पत्तिर्विनाऽयासेन जायते ॥ ११॥ नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः । षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवेत् ॥ १२॥ धनेशे पापसंयुक्ते धने पापसमन्विते । पिशुनोऽसत्यवादी च वातव्याधिसमन्वितः ॥ १३॥
अथ सहजभावफलाध्यायः ॥ १४॥ अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज । सहजे सौम्ययुग्दृष्टे भ्रातृमान् विक्रमी नरः ॥ १॥ सभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति । भ्रात्र्/क्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत् ॥ २॥ पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः । उत्पाट्य सहजान् सद्यो निहन्तरौ न संशयः ॥ ३॥ स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः । भगिनी स्यात् तथा भ्राता पुंगृहे पुंग्रहो यदि ॥ ४॥ मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् । मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ॥ ५॥ केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे । कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत् ॥ ६॥ भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते । कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ॥ ७॥ पश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् । कारके राहुसंयुक्ते सहजेशे तु नीचगे ॥ ८॥ पश्चात् सहोदराभावं पूर्वं तु तत्त्रयं वदेत् । भ्रातृस्थानाधिपे केन्द्रे कारके तत्त्रिकोणगे ॥ ९॥ जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः । तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम् ॥ १०॥ सप्तमं नवमं चैव द्वादशं च मृतं वदेत् । शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ॥ ११॥ व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा । भ्रातृभावे स्थिते चन्द्रे सप्तसंख्यास्तु सोदराः ॥ १२॥ भ्रातृस्थाने शशियुते केवलं पुङ्ग्रहेक्षिते । सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा ॥ १३॥ अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः । अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः ॥ १४॥ एतेषां विप्र योगानां बलाबलविनिर्णयात् । भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् ॥ १५॥
अथ सुखभावफलाध्यायः ॥ १५॥ उक्तं तृतीयभावस्य फलं संक्षेपतो मया । सुखभावफलं चाऽथ कथयामि द्विजोत्तम ॥ १॥ सुखेशे सुखभावस्थे लग्नेशे तद्गतेऽपि वा । शुभदृष्टे च जातस्य पूर्णं गृहसुखं वदेत् ॥ २॥ स्वगेहे स्वांशके स्वोच्चे सुखस्थानाधिपो यदि । भूमियानगृहादीनां सुखं वाद्यभवं तथा ॥ ३॥ कर्माधिपेन संयुक्ते केन्द्रे कोणे गृहाधिपे । विचित्रसौधप्राकारैर्मण्डितं तद्गृहं वदेत् ॥ ४॥ बन्धुस्थानेश्वरे सौम्ये शुभग्रहयुतेक्षिते । शशिजे लग्नसंयुक्ते बन्धुपूज्यो भवेन्नरः ॥ ५॥ मातुःस्थाने शुभयुते तदीशे स्वोच्चराशिगे । कारके बलसंयुक्ते मातुर्दीर्घायुरादिशेत् ॥ ६॥ सुखेशे केन्द्रभावस्थे तथ केन्द्रस्थितो भृगुः । शशिजे स्वोच्चराशिस्थे मातुः पूर्णं सुखं वदेत् ॥ ७॥ सुखे रवियुते मन्दे चन्द्रे भाग्यगते सति । लाभस्थानगतो भौमो गोमहिष्यादिलाभकृत् ॥ ८॥ चरगेहसमायुक्तो सुखे तद्राशिनायके । षष्ठे व्यये स्थिते भौमे नरः प्राप्नोति मूकताम् ॥ ९॥ लग्नस्थानाधिपे सौम्ये सुखेशे नीचराशिगे । कारके व्ययभावस्थे सुखेशे लाभसङ्गते ॥ १०॥ द्वदशे वत्सरे प्राप्ते वाहनस्य सुखं वदेत् । वाहने सूर्यसंयुक्ते स्वोच्चे तद्भावनायके ॥ ११॥ शुक्रेण सण्युते वर्षे द्वात्रिंशे वाहनं भवेत् । कर्मेशेन युते बन्धुनाथे तुङ्गांशसंयुते ॥ १२॥ द्विचत्वारिंशके वर्षे नरो वाहनभाग् भवेत् । लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते ॥ १३॥ द्वादशे वस्तरे प्राप्ते जातो वाहनभाग् भवेत् । शुभं शुभत्वे भावस्य पापत्वे फलमन्यथा ॥ १४॥
अथ पञ्चमभावफलाध्यायः ॥ १६॥ अथ पञ्चमभावस्य कथयामि फलं द्विज । लग्नपे सुतभावस्थे सुतपे च सुते स्थिते ॥ १॥ केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् । षष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता ॥ २॥ सुतेशेस्तंगते वाऽपि पापाक्रान्ते च निर्बले । तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ॥ ३॥ षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते । म्रियते प्रथमापत्यं काकबन्ध्या च गेहिनी ॥ ४॥ सुताधीशो हि नीचस्थो व्ययषष्ठाष्टमस्थितः । काकबन्ध्या भवेन्नारी सुते केतुबुधौ यदि ॥ ५॥ सुतेशो नीचगो यत्र सुतस्थान न पश्यति । तत्र सौरिबुधौ स्यातां काकबन्ध्यात्वमाप्नुयात् ॥ ६॥ भाग्येशो मूर्तिवर्ती चेत् सुतेशो नीचगो यदि । सुते केतुबुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ॥ ७॥ षष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः । सुतेशश्च सुते तस्य कष्टाद् पुत्रं विनिर्दिशेत् ॥ ८॥ पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः । मन्दे मान्दियुतौ दृष्टे तदा दत्तादयः सुताः ॥ ९॥ रविचन्द्रौ यदैकस्थावेकांशकसमन्वितौ । त्रिमातृभिरसौ याद्वा द्विपित्राऽपि च पोषितः ॥ १०॥ पञ्चमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे । लग्नेशेन्दू बलाढयौ चेत् तदा दत्तसुतोद्भवः ॥ ११॥ सुते ज्ञजीवशुक्रैश्च सबलैरवलोकिते । भवन्ति बहवः पुत्राः सुतेशे हि बलान्विते ॥ १२॥ सुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा । तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः ॥ १३॥ सुतेशे चरराशिस्थे राहुणा सहिते विधौ । पुत्रस्थानः गते मन्दे परजातं वदेच्छिशुम् ॥ १४॥ लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ । पापग्रहैर्युते दृष्टे परजातो न संशयः ॥ १५॥ पुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे । गुरुणा संयुते दृष्टे पुत्रभाग्यमुपैति सः ॥ १६॥ त्रिचतुःपापसंयुक्ते सुते सौम्याविविर्जिते । सुतेशे नीचराशिस्थे नीचसंस्थौ भवेच्छिशुः ॥ १७॥ पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते । द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसंभवः ॥ १८॥ सुतेशे केन्द्रभावस्थे कारकेण समन्विते । षड्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् ॥ १९॥ लग्नाद् भाग्यगते जीवे जीवाद् भाग्यगते भृगौ । लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् ॥ २०॥ पुत्रस्थानं गते राहौ तदीशे पापसंयुते । नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः ॥ २१॥ जीवात् पञ्चमगे पापे लग्नात् पञ्चमगेऽपि च । षड्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥ २२॥ लग्ने मान्दितमायुक्ते लग्नेशे नीचराशिगे । षड्पञ्चाशत्तमेऽब्दे च पुत्रशोकसमाकुकः ॥ २३॥ चतुर्थे पापसंयुक्ते षष्ठभावे तथैव हि । सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥ २४॥ कारके शुभसंयुक्ते दशसंख्यास्तु सूनवः । परमोच्चगते जीवे धनेशे राहुसंयुते ॥ २५॥ भाग्येशे भाग्यसंयुक्ते संख्याता नव सूनवः । पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥ २६॥ धनेशे कर्मभावस्थे वसुसंख्यास्तु सूनवः । पञ्चमात् पञ्चमे मन्दे सुतस्थे च तदीश्वरे ॥ २७॥ सूनवः सप्तसंख्यश्च द्विगर्भे यमलौ वदेत् । वित्तेशे पञ्चमस्थाने सतस्थे च सुताधिपे ॥ २८॥ जायन्ते षट् सुतास्तस्य तेषां च त्रिप्रजामृतिः । मन्दात् पञ्चमगे जीवे जीवात् पञ्चमगे शनौ ॥ २९॥ सुतभे पापसंयुक्ते पुत्रमेकं विनिर्दिशेत् । पञ्चमे पापयुक्ते वा जीवात् पञ्चमगे शनौ ॥ ३०॥ पत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् । पञ्चमे पापसंयुक्ते जीवात् पञ्चमगे शनौ ॥ ३१॥ लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः । जातं जातं शिशुंहन्ति दीर्घायुश्च स्वयं भवेत् ॥ ३२॥
अथ षष्ठभावफलाध्यायः ॥ १७॥ अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् । देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा ॥ १॥ षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः । तदा व्रणा भवेद्देहे षष्ठराशिसमाश्रते ॥ २॥ एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः । व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ ३॥ तेषामपि व्रणं वाच्यमादित्ये न शिरोव्रणम् । इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ॥ ४॥ गुरुणा नासिकायां च भृगुणा नयने पदे । शनिना राहुणा कुक्षौ केतुना च तथा भवेत् ॥ ५॥ लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः । यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः ॥ ६॥ लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ । राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत् ॥ ७॥ लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी । स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ॥ ८॥ कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् । लग्ने षष्ठाष्टमाधोशौ रविणा यदि संयुतौ ॥ ९॥ ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा । बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् ॥ १०॥ स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि । गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम् ॥ ११॥ चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् । एवं पित्रादिभानां तत्तत्कारकयोगतः ॥ १२॥ गण्डं तेषां वदेदेवमुह्यमत्र मनीषिभिः । रोगस्थानगते पापे तदीशे पापसंयुते ॥ १३॥ राहुणा संयुते मन्दे सर्वदा रोगसंयुतः । रोगस्थानगते भौमे तदीशे रंध्रसंयुते ॥ १४॥ षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः । षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते ॥ १५॥ द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् । रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते ॥ १६॥ लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता । व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥ १७॥ त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् । रिपुस्थेनगते चन्द्रे शशिना संयुते सति ॥ १८॥ पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् । लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते ॥ १९॥ एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् । रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते ॥ २०॥ चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मॄगाद्भयम् । षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ ॥ २१॥ जातस्य जन्मतो विप्र प्रथमे च द्वितीयके । वस्तरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् ॥ २२॥ षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुतः । पंचमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत् ॥ २३॥ अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः । त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् ॥ २४॥ रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे । द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् ॥ २५॥ लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे । एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः ॥ २६॥ सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते । व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत् ॥ २७॥ लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे । दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते ॥ २८॥
अथ जायाभावफलाध्यायः ॥ १८॥ जायाभावफलं वक्ष्ये स्रृणु त्वं द्विजसत्तम । जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर्णमादिशेत् ॥ १॥ कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः । रोगिणीं कुरुते नारीं तथा तुङ्गादिकं विना ॥ २॥ सप्तमे तु स्थिते शुक्रेऽतीवकामी भवेन्नरः । यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भवेत् ॥ ३॥ जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः । तदा जातो धनी मानी सुखसौभाग्यसंयुतः ॥ ४॥ नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे । तस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत् ॥ ५॥ मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते । स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवेत् ॥ ६॥ वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः । कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च कीर्तितः ॥ ७॥ बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता । गुरौ ब्राह्मणभार्या स्याद्गर्भिणीसङ्ग एव च ॥ ८॥ हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः । कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ॥ ९॥ कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी । पापे द्वादशकामस्थे क्षीणचन्द्रस्तु पञ्चमे ॥ १०॥ जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् । जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ॥ ११॥ वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः । भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा ॥ १२॥ भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् । मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि च ॥ १३॥ मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः । दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते ॥ १४॥ लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः । तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी ॥ १५॥ कलत्रे तत्पतौ वापि पापग्रहसमन्विते । भार्याहानिं वदेत् तस्य निर्बले च विशेषतः ॥ १६॥ षष्ठाष्टमव्ययस्थाने मन्देशो दुर्बलो यदि । नीचराशिगतो वापि दारनाशं विनिर्दिशेत् ॥ १७॥ कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे । कारको बलहीनश्च दारसौख्यं न विद्यते ॥ १८॥ सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते । सप्तमे क्लीवराश्यंशे द्विभार्यो जातको भवेत् ॥ १९॥ कलत्र्स्थानगे भौमे शुक्रे जातमित्रगे शनौ । लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भवेत् ॥ २०॥ द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके । दारेशे बलसंयुक्ते बहुदारसमन्वितः ॥ २१॥ दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः । पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो भवेत् ॥ २२॥ दारस्तानं गते सूर्ये तदीशे भृगुसंयुते । सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् ॥ २३॥ कुटुम्बस्थानगे शुक्रे दारेशे लाभराशिगे । दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् ॥ २४॥ लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे । वत्सरैकादशे प्राप्ते विवाहं लभते नरः ॥ २५॥ लग्नात् केन्द्रगते शुक्रे तस्मात् कामगते शनौ । द्वादशैकोनविंशे च विवाहः प्रायशो भवेत् ॥ २६॥ चन्द्राज्जामित्रगे शुक्रे शुक्राज्जामित्रगे शनौ । वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः ॥ २७॥ धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे । अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः ॥ २८॥ धनेशे लाभराशिश्ते लाभेशे धनराशिगे । अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥ २९॥ रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते । द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ॥ ३०॥ दारांशकगते लग्ननाथे दारेश्वरे व्यये । त्रयोविंशे च षड्विंशे विवाहं लभते नरः ॥ ३१॥ रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते । पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ॥ ३२॥ भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते । एकत्रिंशास्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत् ॥ ३३॥ भाग्याज्जामित्रगे शुक्रे तद्द्वूने दारनायके । त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ॥ ३४॥ दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते । अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम् ॥ ३५॥ मदेशे नाशराशिस्थे व्ययेशे मदराशिगे । तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ ३६॥ कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते । पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ॥ ३७॥ रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे । द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ ३८॥ लग्नेशे नीचराशिस्थे धनेशे निधनं गते । त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत् ॥ ३९॥ शुक्राज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे । रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम् ॥ ४०॥ द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् । विवाहं लभते मर्त्यो नाऽत्र कार्या विचारणा ॥ ४१॥ षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः । अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥ ४२॥
अथ आयुर्भावफलाध्यायः ॥ १९॥ आयुर्भावफलं चाऽथ कथयामि द्विजोत्तम । आयुःस्थानाधिपः केन्द्रे दीर्घमायुः प्रयच्छति ॥ १॥ आयुस्थानाधिपः पापैः सह तत्रैव संस्थितः । करोत्यल्पायुषं जातं लग्नेशोऽप्यत्र संस्थितः ॥ २॥ एवं हि शनिना चिन्ता कार्या तर्कैर्विचक्षणैः । कर्माधिपेन च तथा चिन्तनं कार्यमायुषः ॥ ३॥ षष्ठे व्ययेऽपि षष्ठेशो व्ययाधीशो रिपौ व्यये । लग्नेऽष्टमे स्थितो वाऽपि दीर्घमायुः प्रयच्छति ॥ ४॥ स्वस्थाने स्वांशके वाऽपि मित्रेशे मित्रमन्दिरे । दीर्घायुषं करोत्येव लग्नेशोऽष्टमपः पुनः ॥ ५॥ लग्नाष्टमपकर्मेशमन्दाः केन्द्रत्रिकोणयोः । लाभे वा संस्थितास्तद्वद् दिशेयुर्दीर्घमायुषम् ॥ ६॥ एवं बहुविधा विद्वन्नायुर्योगाः प्रकीर्तिताः । एषु यो बलवांस्तस्याऽनुसारादायुरादिशेत् ॥ ७॥ अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जते । विंशद्वर्षाण्यसौ जीवेद् द्वात्रिंशत्परमायुषम् ॥ ८॥ रन्ध्रेशे नीचराशिस्थे रन्ध्रे पापग्रहैर्युते । लग्नेशे दुर्बले जन्तुरल्पायुर्भवति ध्रुवम् ॥ ९॥ रन्ध्रेशे पापसंयुक्ते रन्ध्रे पापग्रहैर्युते । व्यये क्रूरग्रहाक्रान्ते जातमात्रं मृतिर्भवेत् ॥ १०॥ केन्द्रत्रिकोणगाः पापाः शुभाः षष्ठाष्टगा यदि । लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भवेत् ॥ ११॥ पञ्चमे पापसंयुक्ते रन्ध्रेशे पापसंयुते । रन्ध्रे पापग्रहैर्युक्ते स्वल्पमायुः प्रजायते ॥ १२॥ रन्ध्रेशे रन्ध्रराशिस्थे चन्द्रे पापसमन्विते । शुभदृष्टिविहीने च मासान्ते च मृतिर्भवेत् ॥ १३॥ लग्नेशे स्वोच्चराशिस्थे चन्द्रे लाभसमन्विते । रन्ध्रस्थानगते जीवे दीर्घमायुर्न संशयः ॥ १४॥ लग्नेशोऽतिबली दृष्टः केन्द्रसंस्थैः शुभग्रहैः । धनैः सर्वगुणैः सार्धं दीर्घमायुः प्रयच्छति ॥ १५॥
अथ भाग्यभावफलाध्यायः ॥ २०॥ अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः । सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भवेत् ॥ १॥ भाग्यस्थानगते जीवे यदीशे केन्द्रसंअस्थिते । लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् ॥ २॥ भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते । लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ॥ ३॥ भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते । भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ॥ ४॥ भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते । लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घजीवनः ॥ ५॥ भाग्येशे केन्द्रभावस्ये गुरुणा च निरीक्षिते । तत्पिता वाहनैर्युक्तो राजा वा तत्समो भवेत् ॥ ६॥ भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे । शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पिता भवेत् ॥ ७॥ परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते । धर्मष्ठो नृपवात्सल्यः पितृभक्तो भवेन्नरः ॥ ८॥ लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते । गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ॥ ९॥ भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे । द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भवः ॥ १०॥ लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते । अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ॥ ११॥ कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः । भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः ॥ १२॥ षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते । व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे स्थिते ॥ १३॥ जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् । रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे ॥ १४॥ जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् । व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके ॥ १५॥ तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् । लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते ॥ १६॥ द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् । भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ ॥ १७॥ षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् । राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ ॥ १८॥ सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् । भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे ॥ १९॥ वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् । रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते ॥ २०॥ पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः । पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते ॥ २१॥ पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् । भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तमगस्तमः ॥ २२॥ षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् । रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ ॥ २३॥ त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् । भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे ॥ २४॥ षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् । एवं जातस्य दैवज्ञो फलं ज्ञात्वा विनिर्दिशेत् ॥ २५॥ परमोच्चांशगे शुक्रे भाग्येशेन समन्विते । भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् ॥ २६॥ गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे । विंशद्वर्षात् परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २७॥ परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे । षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् ॥ २८॥ लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते । गुरुणा संयुते द्यूने धनवाहनलाभकृत् ॥ २९॥ भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते । भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः ॥ ३०॥ भाग्यस्थानगते मन्दे शशिना च समन्विते । लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥ ३१॥ एवं भाग्यफलं विप्र संक्षेपात् कथितं मया । लग्नेशभाग्यभावेशस्थित्याऽन्यदपि निर्दिशेत् ॥ ३२॥
Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)
% Text title            : bRihatpArAsharahorAshAstram.h 11-20
% File name             : par1120.itx
% itxtitle              : bRihatpArAsharahorAshAstram 11-20
% engtitle              : bRihatpArAsharahorAshAstram.h 11-20
% Category              : jyotisha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP