॥ बृहत्पाराशरहोराशास्त्रम् ८१-९० ॥


अथ अंगलक्षणफलाध्यायः ॥ ८१॥ बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् । श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥ १॥ शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् । फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥ २॥ स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् । रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ ३॥ विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा । सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥ ४॥ शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् । यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ॥ ५॥ भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका । रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिकाः ॥ ६॥ रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः । स्फुटिताअः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥ ७॥ उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः । वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥ ८॥ मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः । दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥ ९॥ भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी । चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना ॥ १०॥ यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि । बहुनपि पतीन् हित्वा परप्रेष्या च सा भवेत् ॥ ११॥ यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् । सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी ॥ १२॥ यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् । सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् ॥ १३॥ मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् । पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥ १४॥ प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी । कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥ १५॥ उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् । अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु ॥ १६॥ अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा । रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा ॥ १७॥ सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा । कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥ १८॥ अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले । विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् ॥ १९॥ वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् । निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥ २०॥ घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ । यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥ २१॥ चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा । चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः । समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥ २२॥ विनता चिपटा दीर्घा निर्मांसा संकटा कटिः । ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका ॥ २३॥ नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः । सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥ २४॥ स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः । भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः ॥ २५॥ कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः । रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः ॥ २६॥ वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः । शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता ॥ २७॥ मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता । रोमाढ्या च शिराला च रेखाङ्का न शुभप्रदा ॥ २८॥ गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा । व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥ २९॥ पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् । भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥ ३०॥ उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा । वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला ॥ ३१॥ समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे । उन्नते रोमसंयुक्ते शिराले चाऽशुभप्रदे ॥ ३२॥ निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् । विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥ ३३॥ समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ । स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥ ३४॥ दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता । वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥ ३५॥ नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले । अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥ ३६॥ स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ । रोमाढ्यावुन्नतौ वक्रौ निर्मासावशुभौ स्मृतौ ॥ ३७॥ सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे । कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥ ३८॥ गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ । सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥ ३९॥ निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ । वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥ ४०॥ सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् । सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥ ४१॥ स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् । मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥ ४२॥ विधवा बहुरेखेण रेखाहीनेन निर्धने । भिक्षुका च शिरोढ्येन नारी करतलेन हि ॥ ४३॥ पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् । शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ॥ ४४॥ यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला । स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥ ४५॥ मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता । राजपत्नी सरोजेन जननी पृथिवीपतेः ॥ ४६॥ सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे । शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ॥ ४७॥ रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः । गजवाजिवृषाभा वा करे वामे मृगीदृशः ॥ ४८॥ रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् । कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ ४९॥ चामराङ्कुशचापैश्च राजपत्नी पतिव्रता । त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥ ५०॥ अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् । सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ॥ ५१॥ काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः । रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ॥ ५२॥ मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः । अरोमकाः शुभाः स्त्रीणामङ्गुल्यः परिकीर्तिताः ॥ ५३॥ अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः । बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ॥ ५४॥ रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः । निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ॥ ५५॥ अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् । सशिरं रोमयुक्तं वा वक्रं चाऽशुभदायकम् ॥ ५६॥ स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः । मांसलो मृदुलैश्चैव प्रशस्तफलदायकाः ॥ ५७॥ स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी । बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥ ५८॥ श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता । शुष्का शिराला रोमाढ्या विशाला कुटिलाऽसुभा ॥ ५९॥ अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः । आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ॥ ६०॥ कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ । रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽशुभप्रदौ ॥ ६१॥ स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् । सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ॥ ६२॥ वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः । मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥ ६३॥ निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः । स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥ ६४॥ रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् । किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यगो भवेत् ॥ ६५॥ स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः । अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ॥ ६६॥ अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः । विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥ ६७॥ शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा । दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ॥ ६८॥ सितया मरणं तोये श्यामया कलहप्रिया । मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ॥ ६९॥ प्रमादसहिता नारी जिह्वया च विशालया । सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ॥ ७०॥ श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् । कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ॥ ७१॥ अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् । स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप्रदम् ॥ ७२॥ समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा । स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ॥ ७३॥ रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी । दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ॥ ७४॥ शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके । गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ॥ ७५॥ उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् । रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ॥ ७६॥ पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका । पारावताक्षी दुःशीला गजाक्षी नैव शोभना ॥ ७७॥ मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् । विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ॥ ७८॥ वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते । सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ॥ ७९॥ कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ । शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ ८०॥ शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः । अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ॥ ८१॥ स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः । प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥ ८२॥ उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः । स्थूलो गीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥ ८३॥ कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना । पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽशुभाः ॥ ८४॥ पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः । नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ॥ ८५॥
अथ तिलादिलांछनफलाध्यायः ॥ ८२॥ अथाऽहं देहजातानां लांछनानां फलं ब्रुवे । आवर्तानां तिलानां च मशकानां विशेषतः ॥ १॥ अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् । रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ २॥ तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् । यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ ३॥ सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् । रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ ४॥ एक एव सुतस्तस्या भवतीत विदो विदुः । पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥ ५॥ भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् । कपोले मशको रक्तो नित्यं मिष्ठान्नदायकं ॥ ६॥ भगस्य दक्षिणे भागे लांछनं यदि योषितः । सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ ७॥ नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते । कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥ ८॥ नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् । कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनं ॥ ९॥ प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा । तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥ १०॥ त्रिशूलाकृति चिह्न च ललाटे यदि जायते । नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥ ११॥ लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ । दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥ १२॥ कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः । उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ १३॥ कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि । आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥ १४॥ सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् । दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥ १५॥
अथ पूर्वजन्मशापद्योतनाध्यायः ॥ ८३॥ महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् । अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ १॥ अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने । अपुत्रः केन पापेन भवतीति वद प्रभो ॥ २॥ जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् । अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ ३॥ साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया । यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ ४॥ केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् । तेषां च रक्षणोपायं कृपया नाथ मे वद ॥ ५॥ साधु पृष्टं त्वया देवि कथयामि तवाऽधुना । सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ॥ ६॥ गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च । सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ ७॥ रव्यारराहुशनयः सबलाः पुत्रभावगाः । तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ॥ ८॥ पुत्रस्थानगते राहौ कुजेन च निरीक्षिते । कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ॥ ९॥ पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने । चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः ॥ १०॥ कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते । लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ॥ ११॥ कारके भौमसंयुक्ते लग्ने च राहुसंयुते । पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः ॥ १२॥ भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने । राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः ॥ १३॥ पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते । सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः ॥ १४॥ पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः । निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः ॥ १५॥ लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते । कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः ॥ १६॥ ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता । तद्दोषपरिहारार्थं नागपूजां समारभेत् ॥ १७॥ स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः । नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ १८॥ गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः । एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् ॥ १९॥ पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते । पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः ॥ २०॥ पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते । क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः ॥ २१॥ भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते । पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २२॥ लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते । पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः ॥ २३॥ पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे । पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २४॥ पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः । लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् ॥ २५॥ पितृस्थानाधिपे दुःस्थे कारके पापराशिगे । सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः ॥ २६॥ लग्नपञ्चमभावस्था भानुभौमशनैश्चराः । रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः ॥ २७॥ लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने । पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ २८॥ व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे । पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः ॥ २९॥ रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ । कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ॥ ३०॥ तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् । ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ ३१॥ अथवा कन्यकादानं गोदानं च समाचरेत् । एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ॥ ३२॥ वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा । ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ॥ ३३॥ पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे । हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ॥ ३४॥ लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे । नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ॥ ३५॥ पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे । चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ॥ ३६॥ पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते । लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ॥ ३७॥ पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते । भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ॥ ३८॥ मातृस्थानाधिपे भौमे शनिराहुसमन्विते । चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ॥ ३९॥ लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः । पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ॥ ४०॥ षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते । चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ॥ ४१॥ पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम । मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ॥ ४२॥ नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे । चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ॥ ४३॥ चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते । चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ॥ ४४॥ लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः । मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ॥ ४५॥ नाशस्थानं गते जीवे कुजराहुसमन्विते । पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः ॥ ४६॥ एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता । ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ॥ ४७॥ सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका । रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ॥ ४८॥ ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् । कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ॥ ४९॥ एवं कृते महादेवि शापान्मोक्षो भविष्यति । सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ॥ ५०॥ अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् । यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ॥ ५१॥ भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते । पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ॥ ५२॥ लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे । कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ॥ ५३॥ भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि । नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ॥ ५४॥ तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि । रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ॥ ५५॥ पापमध्यगते लग्ने पापमध्ये सुतेऽपि च । लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ॥ ५६॥ कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे । पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ५७॥ पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते । रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ॥ ५८॥ लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते । लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ॥ ५९॥ भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा । राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ॥ ६०॥ नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते । रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ६१॥ भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः । चान्द्रायण्स्ं चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ॥ ६२॥ अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् । पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ॥ ६३॥ एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः । ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ॥ ६४॥ पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते । लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः ॥ ६५॥ लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ । ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ॥ ६६॥ लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने । लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ॥ ६७॥ ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते । शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ॥ ६८॥ तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् । वापीकूपतडागादिखननं सुतबन्धुनम् ॥ ६९॥ पुत्रवृद्धिर्भवेत्तस्य सम्पद्वृद्धिः प्रजायते । इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ॥ ७०॥ बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते । तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ॥ ७१॥ गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः । धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ॥ ७२॥ धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे । जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ॥ ७३॥ धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे । राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः ॥ ७४॥ जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे । पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ॥ ७५॥ पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते । पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ॥ ७६॥ मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते । पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ॥ ७७॥ लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते । व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ॥ ७८॥ तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः । ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ॥ ७९॥ पञ्चरत्नानि देयानि सुवर्णसहितानि च । ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ॥ ८०॥ एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः । मुक्तशापो विशुद्धात्मा स नरः सुखमेधते ॥ ८१॥ दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ । पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ॥ ८२॥ नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८३॥ पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८४॥ कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे । पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ॥ ८५॥ भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे । लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ॥ ८६॥ भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे । गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ॥ ८७॥ पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते । व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ॥ ८८॥ सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ । लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ॥ ८९॥ धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने । शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ॥ ९०॥ नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ९१॥ लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् । रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ॥ ९२॥ शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् । कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ॥ ९३॥ दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् । शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ॥ ९४॥ ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते । कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ॥ ९५॥ तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते । अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ॥ ९६॥ पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे । लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ॥ ९७॥ पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे । कारके नाशभावे च प्रेतशापात् सुतक्षयः ॥ ९८॥ लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः । पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ॥ ९९॥ लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने । गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १००॥ लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा । लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०१॥ पुत्रस्थानाधिपे नीचे कारके नीचराशिगे । नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः ॥ १०२॥ लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते । व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः ॥ १०३॥ कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते । मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः ॥ १०४॥ वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते । कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०५॥ अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् । कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् ॥ १०६॥ धेनुं रजतपात्रं च तथा नीलमणिं द्विज । ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् ॥ १०७॥ एवं कृते मनुष्यस्य शापमोक्षा प्रजायते । पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते ॥ १०८॥ तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् । जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः ॥ १०९॥ राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् । गोदानात् केतुजे दोषे रुद्रजापात् कुजाऽर्किजे ॥ ११०॥ सर्वदोषविनाशाय शुभसन्तानलब्धये । हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज ॥ १११॥
अथ ग्रहशान्त्यध्यायः ॥ ८४॥ ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद । मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ १॥ ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम । जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ २॥ तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा । वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ ३॥ ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ । रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ ४॥ पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः । स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥ ५॥ पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः । सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ ६॥ श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः । गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥ ७॥ रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः । वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥ ८॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ९॥ गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ १०॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ ११॥ करालवदनः खड्गचर्मशूली वरप्रदः । सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ १२॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥ १३॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः । स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ १४॥ यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च । गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ १५॥ यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् । तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ १६॥ आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥ १७॥ अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये । कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥ १८॥ सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा । त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ १९॥ इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः । क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ २०॥ अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः । उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥ २१॥ होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः । एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥ २२॥ गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ २३॥ दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज । शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥ २४॥ धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् । कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ २५॥ यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् । एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ २६॥ मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च । भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥ २७॥
अथऽशुभजन्मकथनाध्यायः ॥ ८५॥ अथाऽन्यत् सम्प्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि । यदन्यकारणेनापि भवेज्जन्माऽशुभप्रदम् ॥ १॥ दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा । पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा ॥ २॥ व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा । यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च ॥ ३॥ प्रसवस्य त्रिकारेऽपि ज्ञेयं जन्माऽशुभप्रदम् । शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम् ॥ ४॥
अथ दर्शजन्मशान्त्यध्यायः ॥ ८६॥ मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता । तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः ॥ १॥ कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् । उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा ॥ २॥ सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् । पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ॥ ३॥ सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च । आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ॥ ४॥ दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् । प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ ५॥ आप्यायस्वेति मन्त्रेनऽ सविता पश्चात्तमेव च । उपचारैः समाराध्य ततो होमं समाचरेत् ॥ ६॥ समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती । भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ॥ ७॥ अष्टोत्तरशतं वापि अष्टविंशतिरेव वा । अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ॥ ८॥ हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा । ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ॥ ९॥
अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ॥ ८७॥ कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् । जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ १॥ द्वितीये पितरं हन्ति मातरं च तृतीयके । चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ २॥ षष्ठे तु धननाशः स्यादात्मनो नाश एव वा । तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ ३॥ शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् । तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ ४॥ बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् । त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ ५॥ त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः । आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ ६॥ इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः । त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ ७॥ आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् । आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ ८॥ जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् । शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ ९॥ समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् । अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ १०॥ अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् । अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ ११॥ मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा । ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ १२॥ अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् । कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥
अथ भर्दावमदुर्योगशान्त्यध्यायः ॥ ८८॥ अथाऽहं सम्प्रवक्ष्यामि भद्रायामवमे तथा । व्यातूपातादिदुर्योगे यमघण्टादिके च यत् ॥ १॥ जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज । प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः ॥ २॥ दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही । पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ ३॥ शङ्करस्याऽभिषेकं च घृतदीपं शिवालये । आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ॥ ४॥ हवनं विष्णुमन्त्रेण स/तमष्टोत्तरं सुधीः । ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ॥ ५॥
अथैक नक्षत्र जातशान्त्यध्यायः ॥ ८९॥ अथ यद्येकनक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः । प्रसूतिश्च तयोर्मृतुरथैवकस्य निश्चयः ॥ १॥ तत्र शान्तिं प्रवक्ष्यामि गर्गादिमुनिभाषितम् । सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते ॥ २॥ रिक्तावविष्टिविवर्ज्ये च समय शान्तिमाचरेत् । शनेरीशानदिग्भागे नक्षत्रप्रतिमां शुभाम् ॥ ३॥ तन्नक्षत्रोक्तमन्त्रेण पूजयेत् कलशोपरि । रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ ४॥ स्वस्वशाखोक्तमार्गेण कुर्यादग्निमुखं तथा । पुनस्तेनैव मन्त्रेण हुनदष्टोत्तरं शतम् ॥ ५॥ प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव हि । अभिषेकं ततः कुर्यादाचार्यश्च द्वयोरपि ॥ ६॥ ऋत्विग्भ्यो दक्षिणां दद्यादाचार्याय विशेषतः । ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यविवर्जितः ॥ ७॥
अथ संक्रान्तिजन्मशान्त्यध्यायः ॥ ९०॥ घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा । मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ १॥ संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् । शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे ॥ २॥ नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये । गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ॥ ३॥ स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् । पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ॥ ४॥ तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम । पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधैः ॥ ५॥ पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा । धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥ ६॥ राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् । तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ ७॥ पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् । कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ॥ ८॥ प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् । अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ॥ ९॥ चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् । प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ १०॥ ततो व्याहृतिपूर्र्वेण तत्तन्मन्त्रेण पूजयेत् । त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ॥ ११॥ उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् । आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् ॥ १२॥ उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः । मृत्युंजयन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥ १३॥ अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् । अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः ॥ १४॥ कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् । स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् ॥ १५॥ त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् । अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा ॥ १६॥ अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः । मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् ॥ १७॥ ततः स्विष्टकृतं हुत्वाअभिषेकं च कारयेत् । ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् ॥ १८॥

Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)

% Text title            : bRihatpArAsharahorAshAstram.h 81-90
% File name             : par8190.itx
% itxtitle              : bRihatpArAsharahorAshAstram 81-90
% engtitle              : bRihatpArAsharahorAshAstram.h 81-90
% Category              : jyotiSha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP