लोकोक्तिसङ्ग्रहः

लोकोक्तिसङ्ग्रहः

श्रीरामाय नमः । १. अनिर्णयन्त्रके ग्रामे मधुपुष्पं हि शर्करा । २. प्रकुञ्च्यापि पथा गम्यम् । ३. सन्दग्धा अपि चिकुराः सञ्जायेरन्किमिङ्गालाः । ४. एकग्रामे द्वावुन्मत्तौ । ५. हिङ्गुपात्रमपश्यः किं विप्र भिक्षार्थमागत । ६. आत्मशेषे धर्मकृत्यम् । ७. विनायकं प्रकुर्वाणो रचयामास वानरम् । ८. काक्याश्चापि स्वशिशुः स्वर्णम् । ९. नहिवन्ध्या विजानाति गुरू प्रसववेदनाम् । १०. बलिनस्तृणमायुधम् । ११. स्वयं तरितुमक्षमः किमु परानसौ तारयेत् । १२. पक्षियोग्यो रामशरः । १३. विरतायामपि वृष्टौ नहि शाखानां पृषन्ति विरता नि । १४. सर्व कार्य तिष्ठतु वृद्धं कारय साम्प्रतमकारूढम् । १५. ज्येष्ठागमनपर्यन्तममा किं हि विलम्बते । १६. भिक्षुकपिठरं शनिराविशति । १७. गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः । १८. पुरुषाधिक्ये पाकाधिक्यम् । १९. प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् । २०. स्यादुष्णीषं शिरसो योग्यम् । २१. हेम्नस्संलक्ष्यते ह्यग्नौ विशुद्धिश्श्यामिकाऽपि वा । २२. लक्ष्म्यागमने बन्ध्वागमनम् । २३. किमिवहि मधुराणां मण्डनं नाकृतीनाम् । २४. एको मुष्टिग्राहो मूर्खे । २५. कोष्टुनटनसम्पत्तु कर्कटप्राणहानिकृत् । २६. श्रेयांसि बहुविघ्नानि । २७. आलयस्थायिमार्जारो देवताया बिभेति किम् । २८. अनिर्वेदस्सिद्धिमूलम् । २९. क्षीरं सर्पाय दद्याच्चेत्स सपों विषमुद्रेइत् । ३०. सर्वस्सर्वं न जानाति । ३१. विनायकालयं मृज्यान्न तत्रोच्चारमाचरेत् । ३२. उष्णमुष्णेन शाम्यति । ३३. तीक्ष्णत्वापादके वृक्षे तीक्ष्णत्वस्य परीक्षणम् । ३४. अहिपादानहित्ति । ३५. एकैकशः शतं किंवा योगपद्येन किं शतम् । ३६. रत्नहारी तु पार्थिवः । ३७. उत्सृज्य नगरं ग्रामे रत्नानां हि परीक्षणम् । ३८. कामी स्वतां पश्यति । ३९. पतेदाम्रशलाटुः किं मन्त्रे प्रोच्चारिते सति । ४०. सति कुड्ये चित्रकर्म । ४१. शुष्के पिचण्डे भुञ्जीत तुरङ्गोऽपि पलालकम् । ४२. कोऽतिभारस्समर्थानाम् । ४३. उभयोरजयोस्स्तन्यं पीतवानयमर्भकः । ४४. किं दूरं व्यवसायिनाम् । ४५. तपस्स्थितानां सुलभं हि सर्वम् । ४६. को विदेशः सविद्यानाम् । ४७. सत्स्वर्दनं फलमदोहृदमेव सूते । ४८. कः परः प्रियवादिनाम् । ४९. क्षुधितश्चापि शार्दूलो न कुर्यात्तृणभक्षणम् । ५०. यत्राकृतिस्तत्र गुणाः । ५५. प्रवाहो नूतनः प्रनं प्रवाहच्याप्यनाशयत् । ५२. दुष्करं किं महात्मनाम् । ५३. स्वसुः पुत्रः स्वपुत्रश्चेत्किमर्थं तपसि श्रमः । ५४. भीताः बिभ्यति सर्वतः । ५५. अश्वः पादेन खञ्जोऽपि कुलुत्थगिरणे पटुः । ५६. साध्वी ज्येष्ठाऽऽचार्यपत्नी । ५७. पुरश्चूडस्य विप्रस्य शिखा कम्पेत किं वृथा । ५८. ज्येष्ठापि भार्या कालोपयोगा । ५९. विश्वप्रसिद्धविप्रस्य किं केशब्रह्मसूत्रकम् । ६०. कूपः खातो भूतो जातः । ६१. द्रष्टु व्रणं करगतं मुकुरः किमर्थः । ६२. गतयो भिन्नपथा हि देहिनाम् । ६३. अग्निहोत्रस्य च कृषेरपि नास्त्यनुरूपता । ६४. अर्चकदत्तं यत्तत्तीर्थम् । ६५. वटकानां तु गणनं न रन्ध्राणामुदीरितम् । ६६. वृद्धा नारी पतिव्रता । ६७. श्रेष्ठा भुक्तिश्च सेवा च भेषजस्य त्र्यह स्मृता । ६८. म्लेच्छवीथ्यां भिक्षुभिक्षा । ६९. शातुं स्वकं पृष्ठदेशं पाटवं नास्ति कस्यचित् । ७०. अङ्गुलियोग्यः श्वयथुः । ७१. आ कण्ठमपि बन्धुत्वे हस्तं वक्षसि मा क्षिप । ७२. भिक्षा भिक्षोर्नचालाब्वाः । ७३. रासभस्य पुरीषं हि जायते होमसाधनम् । ७४. हिंसितं हिंस्यते पदम् । ७५. मोदके छेदमाप्तेऽपि तद्रुचिर्नैव यास्यति । ७६. नाशितं नाश्यते कुलम् । ७७. भाण्डे वक्रत्वमाप्तेऽपि किं न पच्येत मोदकम् । ७८. विप्राः पश्चिमबुद्धयः । ७९. सर्षपे सत्यपि स्वल्पे तत्कटुत्वं न गच्छति । ८०. सम्मार्जन्याः पदरज्जुः । ८१. प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । ८२. बाल्ये रम्यो गर्दभोऽपि । ८३. गृहीत्वा तण्डुलान् ज्येष्ठभगिनीबन्धुता तु का । ८४. एको भेको घटसर्पाणाम् । ८५. विष्णुशाकः पादपणो भरभृत्या त्रिपात्पणा । ८६. उष्ट्रस्याङ्गं सर्वं वक्रम् । ८७. कूपस्थितस्य भेकस्य का राष्ट्रस्य विचारणा । ८८. कार्पासो वस्त्रमफलत् । ८९. ग्रामं गते कर्षणयोग्यभद्रे तत्रापि तं कर्षणमेव कारयेत् । ९०. नदीप्रवाहे पूर्णेऽपि लीढ्वा पानक्रिया शुनः । ९१. दिनेदिने किं सूपान्नम् । ९२. पितामही शयीत चेद्गृहस्य रक्षिका भवेत् । ९३. स्वापराधं नवेत्ति स्वः । ९४. ताम्रचूडं ताडयितुं महायष्टिः किमिष्यते । ९५. संशयात्मा विनश्यति । ९६. स्थित्वोच्चरेच्चेदाचार्योधावित्वा शिष्य उच्चरेत् । ९७. सङ्ग्रही नावसीदति । ९८. बालैः कृतायास्तु कृषेःफलं किं गृहमाव्रजेत् । ९९. दुष्टं चेतः साशङ्कं स्यात् । १००. यदि वह्निरिति ब्रूयादास्यं पच्येत किं तदा । १०१. पुनरायान्महाकपिः । १०२. किं वार्षिकान्धकारेऽपि कीशः शाखां नलक्षयेत् । १०३. मूखैजल्पो वाचः श्रान्त्यै । १०४. नर्तकतनूजंशिक्षयसिनृत्तम् । १०५. अन्यन्नयातिहिविभूतिरपत्यभाजाम् । १०६. आर्षोगर्भोनोविलम्बेतरात्रौ । १०७. मधुग्राही कूपरं किन्नलिह्यात् । १०८. उष्णोदकस्य सेकेन किन्दोतं निकेतनम् । १०९. कुक्कुरपुच्छं सम्यङ्ननमेत् । ११०. ज्येष्ठार्जितं कनिष्ठस्य कटिसूत्राय नाप्यलम् । १११. फटाटोपोभयङ्करः । ११२. बध्वारुदन्शुभे किन्नु तूष्णींस्यान्मृतवेश्मनि । ११३. गानं मूढश्रोत्रे बाणः । ११४. स्वानार्जितस्य स्वर्णस्य शुद्धिर्नच मिति नच । ११५. किन्दुर्मर्षतितिथूणाम् । ११६. माधुर्यदर्शी मार्जारः प्रतिशिक्यमभिव्रजेत् । ११७. किमकार्यमसाधुभिः । रजक्यां रजकस्याशा तस्याआशातुरासमे । ११८. विश्वस्याञ्चौर्यवन्तं वा न विश्वस्यात्तु वामनम् । ११९. किमदेयं वदान्यानाम् । १२०. उत्तराभिमुखसौधनिकेतनादक्षिणाभिमुखपर्णकुटी वरा । १२१. अप्यतिक्षुल्लकं सर्प महादण्डेन ताडय । १२२. कः परः समदर्शिनाम् । १२३. पिपीलिकानां स्पृष्टयापि शिलाप्याघर्षिता भवेत् । १२४. नहि वाचो दरिद्रता । १२५. नदीमीक्षेतचेद्विप्रउत्क्रुश्योत्क्रुश्य वै पतेत् । १२६. आखुःप्राप्तःखात्वा शैलम् । १२७. एकाशीतितमालस्य कोटिभङ्गाय कल्पते । १२८. गतानुगतिको लोकः । १२९. नोलङ्घयति सीमानं तिल्लकाननकन्यका । १३०. रसनायास्सिरा कुतः । १३१. पिटकानां सहस्रस्य हन्ता च्छेत्ता भिषक्स्मृतः । १३२. गुलभाण्डं सजेइंशः । १३३. कुडवोऽपि नशिष्येत कर्षको गणयेद्यदि । १३४. सवाते धूनयेत्काले । १३५. पानक्रिया यवाग्वातु गण्डूषो हिमनीरतः । १३६. नरदृश्वा पयोनिधिः । १३७. मौक्तिकं कन्यकापि स्यात्शुल्कं चापि भवेलघु । १३८. प्रत्यापणं पुमानेव । १३९. चित्रेप्यनहश्चोलीयः । १४०. उत्पादकस्य कुम्भानामनेकान्दिवसान्क्रिया । १४१. उद्भेदकस्य कुम्भानामेकमेव क्षणं क्रिया । १४२. ककलासो वृतेःसाक्षी । १४३. पत्रतुम्बी निषिद्धाचेद्गृहतुञ्च्याः किमागतम् । १४४. बन्धुभावो रणे कुतः । १४५. सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः । १४६. यतियात्रा बहिर्वेद्याम् । १४७. हस्तस्थं पायसं मुक्त्वा कूर्परं लेढि दुर्मतिः । १४८. कङ्कस्य नासा खिद्येत । १४९. ऋणं गृहीत्वाप्युपवास एव । १५०. निष्कुटौषधिरगौरवास्पदम् । १५१. बिच्छिन्द्यात्किं कण्ठसूत्रं दुःखप्रश्नार्थमागता । १५२. वाग्मी तनूभवो जीवेत् । १५३. यत्र भुङ्क्ते गृहे तत्र द्वैतमिष्येत किंस्वयम् । १५४. निद्रालुवत्सः पुंवत्सः । १५५. केन बन्धयितुं शक्यं कुञ्जरस्यालमल्लकम् । १५६. निःस्पृहस्य तृणञ्जगत् । १५७. तण्डुलाश्चेद्विकीर्येरन् सहस्रं वायसास्तदा । १५८. अपूर्णः कलशो नृत्येत् । १५९. प्रवेश्य वा मनं तोये परिपश्यत्यगाधताम् । १६०. पञ्चसु द्वे अबल्बजे । १६१. अनिष्टायास्तु भार्यायाःकरस्पर्शेऽपि दुष्टता । १६२. ज्ञानं भारः क्रियां विना । १६३. लेखिनी कथयेत्खञ्जामजानन् लेखनं पुमान् । १६४. गुरोरतिक्रमी शिष्यः । १६५. पाकायैवाभवत्काल कालो नास्त्यौष्ण्यशान्तये । १६६. वादभ्रष्टो वैद्यश्रेष्ठः । १६७. व्याजभूतं हि खञ्जस्य वाजिनःस्खलितं स्थलम् । १६८. स्कन्धादृर्श्व सखा भवेत् । १६९. महिष्याम्प्रसवार्तायां महिषो मदनातुरः । १७०. भुक्तिश्रमो दृढस्यापि । १७१. पञ्चवक्त्रे वने दृष्टे किं चरेयुः परे मृगाः । १७२. चौर्यमभ्यस्य विस्मर । १७३. भित्तिशाकं मेलयित्वा दुर्धीर्वेश्ये निपातय । १७४. भिक्षापात्रं बृहत्पात्रम् । १७५. दह्यमाने गृहे वह्नि धूमपत्राय याचते । १७६. युद्धकार्याय गोग्रहः । १७७. चटकाकिं भवेत्कङ्को डयमानोप्युपर्यलम् । १७८. बालवत्सो न भीतिज्ञः । १७९. आगतावागतौ श्वधरभवद्गर्दभी यथा । १८०. गजस्य भाण्डस्य च साम्यमात्तम् । १८१. यावनालसमुत्पन्ना लाजाः किङ्कुञ्जरक्षुधः । १८२. मृत्तिकाधनजामातुर्भक्षणं शुष्कगोशकृत् । १८३. प्रतिवादिपदे पातो वरं साक्ष्यनिपाततः । १८४. प्राप्येऽपि कुट्टने श्लाघ्यं कुद्दनं सोमिकै करैः । १८५. विश्राणनीयं भिषजे द्रविणं देहि चक्रिणे । १८६. भोजने पुरतस्तिष्ठ पश्चात्तिष्ठ निषेवणे । १८७. जातस्यापि गिरौ धान्यस्यावघात उलूखले । १८८. निरस्तमानवे ग्रामे हयमेधं करोत्ययम् । १८९. विद्वानेव विजानाति विद्वद्जनपरिश्रमम् । १९०. य एव गवां निवर्तने प्रभवति स एव धनञ्जयः । १९१. अयोधनं गिरेदाखुः काकश्चेच्छिशुमुद्धरेत् । १९२. शिलागजाननं दशेत्सदन्तभङ्गमाप्नुयात् । १९३. न कर्तकं पङ्कप्रसादनाय । १९४. पृथुकं स्मृत्वा धुलूखलमवहन्ति । १९५. मार्गिता लता पादयोः प्रोता । १९६. अखण्डं कूश्माण्डमन्नमध्ये छादयसि । १९७. प्राचीने काणे कवाटमपावृणु । १९८. अयमपरो गण्डस्योपरि पिटकोदः । १९९. दिगम्बरदेशे कौपीनवानुन्मत्तः । २००. अन्यदुपक्रान्तमन्यदापतितम् । २०१. न शणसूत्रवानाभ्यासे प्रसरसूत्रवैचित्र्यलाभः । २०२. रत्नाकरेऽपि क्षारभावः । २०३. गिरि निगीर्णवतो महादेवस्य कवाटमेकं पर्पटम् । २०४. फलं गलितं पयसि प्रपात । २०५. लूतातन्तुना गन्धगजालानसन्दानम् । २०६. सूचीतुण्डेन वज्रमणिभेदः । २०७. वह्निरेव वह्नेवभेषजम् । २०८. नहि तरणिकर्स्पर्शादन्यो व्याधिरिन्दीवरवनस्य । २०९. प्रयोगपरतन्त्रा हि कार्यसिद्धिः । २१०. अलवितुःकट्यामष्टपञ्चाशल्लवित्राणि । २११. गर्दास्पदं हि ग्रामस्य गणेशालयभिक्षुकः । २१२. पुष्पेण सह सूत्रमपि सुरभिः । २१३. पुरुषविशेषपरिषङ्गोत्कर्षिण्य एव पुरन्ध्यो भवन्ति । २१४. ईर्ष्यायितं हि सुन्दरीणां प्रकाशकं प्रेमसर्वस्वस्य । २१५. न कालहरणक्षमाः प्रियसमागममहोत्सवाः । २१६. भवितव्यानां द्वाराणि भवन्ति सर्वत्र । २१७. इखं भक्षयितुमपि भृतिः किम् । २१८. कैतकसम्पर्कात्सिवयमपि किमप्यामोदते । २१९. लोकोभिन्नरुचिः । २२०. नावोपि शकटमारोहेत् शकटमपि नावमारोहेत् । २२१. मूकाजल्यकश्चण्डप्रचण्डः । २२२. फलिष्यत्सस्यमङ्कुरोदये दृश्यम् । २२३. काष्ठताडनेन दन्तभङ्गो जातः । २२४. आम्रान्पृष्टः कोविदारानाच । २२५. अधः पततोऽपि श्मश्रुणि रणुन मतः । २२६. मेयशून्ये हस्ते किं किष्कुमान । २२७. तव गृहमागच्छेयं चेकिं ददासिमे । २२८. मम गृहमागच्छेश्चेकिमानयसि मे । २२९. यवाग्वामप्याशा श्मश्रुण्यप्याशा । २३०. काशीं गतमपि कर्म न मुञ्चेत् । २३१. अभिसारिकेति गजमारुह्य गच्छेत् । २३२. चौर्यवतीति वीथ्यां गन्तुं शक्नुयाकि । २३३. समुद्रे क्षिप्तमपि कलशं पूरणीयमेव जलं पूरयेत् । २३४. नौकावाणिज्यतो जातमृणं किं निवर्तेत कार्पासतन्तुकरणेन । २३५. शिवमितवित्तनरस्य भार्या भूत्वा किं द्रोणमितवित्ताशां कर्तुमर्हेत् । २३६. अत्यल्पमपि तृणं दन्तनिर्घर्षणार्हम् । २३७. गर्दभोपदेशः कर्णमूलमाजगः । २३८. मशक्रस्य पिटके जाते छेदो दाहो वा कियान । २३९. निम्ने स्थले तिष्ठते जलम् । २४०. कूपनीरं प्रवाहो नापहरेत् । २४१. गोपुरं पाञ्चालिका वा धारयति । २४२. यदि श्वश्रूभिन्द्यात्तदा मृद्भाण्डं यदि स्नुषा भिन्द्यात्तदा कांस्यभाण्ड । २४३. सतस्ततस्त्रयो मार्गाः द्वौ मा वसतस्सतः एकोऽसतोऽसतो मार्गः । २४४. धावन्तं ग्राममनुधावेत् । २४५. निर्मितस्य सदनस्य सम्यकार्यत्वोक्तिः । २४६. जीर्णपर्णराशिमध्यक्षिप्तस्यापि गुञ्जाफलस्य शोभा नापगच्छेत् । २४७. जनन्यष्टपदानि काम्येच्चेद्वत्सः षोडश पदानि काम्येत् । २४८. जामात्रे पाचितमन्नं पुत्राय परिवेष्य कुक्षितापमुपागमत् । २४९. वृषभ इति भाषमाणमपि पृच्छति वत्साय कुडवमितं क्षीरम् । २५०. नद्या योजनदूरेप्यलमल्लकमख्सयत् । २५१. मिक्षित्वापि भिक्षवे देहि । २५२. भिक्षुरपवरके तिष्ठेत् भिक्षुभस्रिका रथ्यायां तिष्ठेत् । २५३. इक्षवे कृष्टा मृत्तिका किं तप्तस्य क्षीरस्य शर्करा भवेत् । २५४. अश्वत्थं प्रदक्षिणीकुवणईव कुक्षिमूलमामृशति । २५५. यवाग्थै स्थितान् तण्डुलान् दत्वा कक्षरोमाण्यवापयत् । २५६. आरे आरे विति वदन्नरोऽग्नौ किं पतिप्यति । २५७. रोगिवागभ्रमारोहेत्किम् । २५८. तत्कालकार्यस्य बुद्धियून्ना । २५९. जवेन रङ्गवल्यर्थ पिष्टमादाय विकिर । २६०. कोच्यां शिवमरीचिश्चेदत्र किम् । २६१. तृणानि किमु बध्येरन्गोश्चरन्त्याः विषाणयोः । २६२. आषाढवाते शिलायां डयमानायां शाल्मलीकासःकियान् । २६३. उक्त्वा दत्ता वाचा बध्वा दत्तं चान्नं कति दिनानि तिष्ठेताम् । २६४. दृष्टारनालं स्थलमदिरैशः दृष्टौदनं स्थानममयम्पत्तनम् । २६५. भुक्तये समागता देवता ग्रामदेवतां निरकासयत् । २६६. एह्येहीति वनं वक्ति गच्छगच्छेति मन्दिरम् । २६७. बालसिंहोऽपि बध्वा किं चार्येत । २६८. शिलायां वल्कसूत्रमुत्पादयेत् सिकताः रज्जुमापादयेत् खं शरासं मण्डलीकुर्यात् । २६९. बहिन्बहिन्नित्युक्ते बहीं बर्ह दद्याकिम् । २७०. भिक्षुमताडयत डयते स्म कन्था । २७१. भर्ता ता। डयति स्म नेत्रमलं नश्यति स्म । २७२. मृतेऽपि पुत्रे स्नुषादौष्टयं व्यरमत् । २७३. तिलास्तैलार्थमातपे शोष्यन्ते किमर्थमाखुकरीषा। णि । २७४. मातरं दृष्टा दुहितरं निश्चिनु । २७५. अस्मात्तीराददस्तीरं हरितम् । २७६. अजाश्चेत्पारमुत्तरेयुः किमेकमप्यजावत्सलोम वितरेयम् । २७७. कारवीथ्यां सूचीविक्रयो वा । २७८. कारचुल्यां मक्षिकाः किं सजेयुः । २७९. सजलव्ययः कूपः सजलोद्गमः । २८०. अंवष्टसदने रोम्णां न्यूनता किम् । २८१. विहाय लाभं किं श्रेष्ठी सरिता सह यास्यति । २८२. काकाद्भीतिमती कङ्काद्धैर्यवती । २८३. इक्षुर्भधुरइत्यामूलं खन्येत वा । २८४. मर्तुं यास्यतो महोदधिरूरुमात्रः । २८५. साङ्कामिकः पिटकः स्पर्शमात्रेण सङ्क्रामेत् । २८६. चिकोडः शाखायां कूर्मः कूपे । २८७. कण्ठरज्जु विमुच्य वालमधारयः । २८८. हस्ते नवनीतं निधाय घृताय चरति । २८९. जलावतारे यदि दृश्येत माता तदा सुता सदने किन्नु दृश्या । २९०. वृक्षं स्थापितान् जलं सिञ्चेत् । २९१. वालमाकम्पयेद्हे मार्जारोऽपि कृताशने । २९२. स्थितं यात्रे दत्वा देवरे भिक्षार्थमरोदीत् । २९३. अग्नौ मन्दाग्निमहाग्निर्वा । २९४. नद्यां पातयन्नपि मित्वा पातयेत् । २९५. चलत्सु दन्तेषु निवर्तते क्षुत् । २९६. निरस्तपादपे देशे धेरण्डोऽपि द्रुमायते । २९७. पितुर्भुक्ति पात्रं महानसे न्युजम् । २९८. सहस्रश्राद्धनाशी सामिग्रामयाजी । २९९. जामातेति कथितं तृणमुन्नमेत् । ३००. कुबेरसदनेऽपि मृन्मय्येव चुल्ली न कनकमयी । ३०१. कन्याऽपि स्यात्कमनीया किञ्चिदपि स्यात्तच्छुल्कम् । ३०२. सहस्ररूप्यमूल्यको गजः स्थितो मृतोऽपि वा । ३०३. गौरपि तनीयसी स्यात्पलालमप्यल्पं चरेत् प्रभूतं पयश्च प्रदद्यात् । ३०४. वृश्चिके बालेऽपि तद्विषमबालम् । ३०५. श्मशानवासी सं। न्यासी किं वेतालादियाद्भयम् । ३०६. प्रातिवेशिके वृद्धिमुपगते पञ्च दिनानि निराहारो भवेत् । ३०७. तालीवनसृगालः किं बिभीयाञ्चलचलध्वनेः । ३०८. आगतं शिरसे यातं शिरस्त्राणेन वै सह । ३०९. मूल्यमपि स्वल्पं स्यान्मौक्तिकानि स्युरनल्पानि । ३१०. अनधीते (अधीतेऽपि)महाभाष्ये व्यर्था सा पद्मञ्जरी । इति श्वेतारण्यनारायणयज्वनः कृतिषु लोकोक्तिसङ्ग्रहः पूर्णः । Proofread by Mandar Mali
% Text title            : Lokokti Sangrahah
% File name             : lokoktisangrahaH.itx
% itxtitle              : lokoktisaNgrahaH (shvetAraNyanArAyaNayajvanaH kRitiShu)
% engtitle              : lokoktisangrahah
% Category              : subhAShita, subhaashita, sangraha, advice
% Location              : doc_z_misc_subhaashita
% Sublocation           : subhaashita
% Author                : Shvetaranya Narayana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Description/comments  : From Vrittalamkararatnavali by Shvetaranya Narayana
% Indexextra            : (Scan)
% Latest update         : June 9, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org