सुभाषितानि सङ्ग्रह
अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये ।
विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ॥ १॥
अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् ।
चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ॥ २॥
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ॥ ३॥
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥ ४॥
अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् ।
प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ॥ ५॥
अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् ।
परोपकारे निरताः कथं मेघा न सज्जनाः ॥ ६॥
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ ७॥
अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥ ८॥
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥ ९॥
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥ १०॥
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥ ११॥
अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः ।
अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ॥ १२॥
अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥ १३॥
अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः ।
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥ १४॥
अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च ।
विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ॥ १५॥
अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् ।
मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ॥ १६॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ १७॥
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥ १८॥
अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ॥ १९॥
अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ २०॥
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ २१॥
अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ २२॥
अयं निजः परो वेऽति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २३॥
अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता ।
न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ॥ २४॥
अहो दुर्जनसंसर्गात् मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥ २५॥
अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ २६॥
अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् ।
साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ॥ २७॥
अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥ २८॥
अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥ २९॥
अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् ।
भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥ ३०॥
अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने ।
एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥ ३१॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ३२॥
अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥ ३३॥
अनाचारेण मालिन्यम् अत्याचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥ ३४॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ३५॥
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ३६॥
अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ ३७॥
असितगिरिसमं स्यात् कज्जल्ं सिन्धु पात्रं
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ ३८॥
अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥ ३९॥
अधनाधि निवर्तन्ते ज्ञातयः सुहृदो जनाः ।
अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥ ४०॥
अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥ ४१॥
अहम्पूरुषो भारतीयोऽस्मि नूनं
न धैर्यङ्कदाचित्त्यजेयं विपत्सु ।
स्वकर्तव्यनिष्ठां न वा विस्मरेयं
यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥ ४२॥
अहम्भारती स्त्री स्वयं शक्तिरूपा
मयि श्रीश्च दुर्गा तथा शारदा च ।
त्यजेयं कदाचिन्न शीलाभिमानं
विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥ ४३॥
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥ ४४॥
अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् ।
अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥ ४५॥
अनुदिनमनुतापेनास्म्यहं राम तप्तः
परमकरुणमोहं छिन्धि मायासमेतम् ।
इदमतिचपलं मे मानसं दुर्निवारं
भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥ ४६॥
अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ ४७॥
अस्यां सखे बधिरलोकनिवासभूमौ
किं कूजितेन किल कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्णं
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ४८॥
अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी
तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्नुसुतामसूयति कलानाथं कपालानलः
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥ ४९॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ ५०॥
अम्बा यस्य उमादेवी जनको यस्य शङ्करः ।
विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥ ५१॥
अस्थिरं जीवितं लोके अस्थिरे धनयौवने ।
अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥ ५२॥
आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥ १॥
आत्मार्थम् जीवलोके च को न जीवति मानवः ।
परं परोपकाराय यो जीवति स जीवति ॥ २॥
आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥ ३॥
आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते स वृथा येन प्रमादः सुमहानहो ॥ ४॥
आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः ।
शेते निपद्यमानस्य चराति चरतो भगः ॥ ५॥
आपद्गतं हससि किं द्रविणान्ध मूढ
लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ।
एतान् प्रपश्यसि घटां जलयन्त्रचक्रे
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥ ६॥
आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ ७॥
आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।
स्वामिनो देहलीदीपसममन्योपकारकम् ॥ ८॥
आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥ ९॥
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ १०॥
आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥ ११॥
आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।
स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥ १२॥
आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥ १३॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥ १४॥
आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावण कुम्भकर्णहननं एतधि रामायणम् ॥ १५॥
आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनं
मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनं
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥ १६॥
आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः
तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ।
बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् ।
गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥ १७॥
इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥ १॥
ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥ २॥
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ३॥
उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते ।
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥ ४॥
उपकारोऽपि नीचानां अपकारो हि जायते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ५॥
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥ ६॥
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ७॥
उत्तमा आत्मन्ः ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥ ८॥
उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥ ९॥
एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ ।
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥ १०॥
एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् ।
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥ ११॥
एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ १२॥
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥ १३॥
एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे ।
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ॥ १४॥
एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ १५॥
एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः ।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥ १६॥
ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥ १७॥
ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ १८॥
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥ १९॥
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥ २०॥
क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा ।
क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥ १॥
कार्यार्थी भजते लोकः यावत्कार्यम् न सिध्यति ।
उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥ २॥
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ ३॥
क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति ।
प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥ ४॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥ ५॥
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ ६॥
काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके
मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने ।
दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते
या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥ ७॥
क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ ८॥
कमले कमला शेते हरः शेते हिमालये ।
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ ९॥
कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि ।
आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥ १०॥
कविः करोति काव्यानि रसं जानाति पण्डितः ।
तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥ ११॥
कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न ।
यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥ १२॥
का पाण्डुपत्नी गृहभूषणं किं
को रामशत्रुः किमगस्तिजन्म ।
को सूर्यपुत्रो विपरीतपृच्छा
कुन्ती सुतो रावणकुम्भकर्णः ॥ १३॥
कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥ १४॥
कन्या वरयते रूपं माता वित्तं पिता श्रुतं ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ १५॥
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ १६॥
के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः ।
रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥ १७॥
क्वचित् दुष्टः क्वचित् तुष्टः
दुष्टस्तुष्टः क्वचित् क्वचित् ।
अव्यवस्थितचित्तानां
प्रसादोऽपि भयङ्करः ॥ १८॥
कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥ १९॥
क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता ।
विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥ २०॥
काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला ।
तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥ २१॥
किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ २२॥
कस्यचित् किमपि नो हरणीयं
मर्मवाक्यमपि नोच्चरणीयम् ।
श्रीपतेः पदयुगं स्मरणीयं
लीलया भवजलं तरणीयम् ॥ २३॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥ २४॥
केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।
केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥ २५॥
काचं मणिं काञ्चनमेकसूत्रे
मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान् पाणिनिरेकसूत्रे
श्वानं युवानं मघवानमाह ॥ २६॥
कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ २७॥
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ २८॥
किसलयानि कुतः कुसुमानि वा
क्व च फलानि तथा नववीरुधाम् ।
अयमकारणकारुणिको न चेत्
वितरतीह पयांसि पयोधरः ॥ २९॥
कल्पद्रुमः कल्पितमेव सूते
सा कामधुक् कामितमेव दोग्धि ।
चिन्तामणिश्चिन्तितमेव दत्ते
सतां तु सङ्गः सकलं प्रसूते ॥ ३०॥
करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
नमः पतनशीलाय मुसलाय खलाय च ॥ ३१॥
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥ ३२॥
कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ३३॥
काके शौचं द्यूतकारे च सत्यं
सर्पे शान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता
भूपे सख्यं केन दृष्टं श्रुतं वा ॥ ३४॥
कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते ।
बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥ ३५॥
कथं गुरूनहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ३६॥
कालो वा कारणं राज्ञः राजा वा कालकारणं ।
इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥ ३७॥
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ३८॥
कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥ ३९॥
करोति शोभामलके स्त्रियाः को
दृष्या न कान्ता विधिना च कोक्ता ।
अङ्गे तु कस्मिन् दहन्ं पुरारेः
सिन्दूरबिन्दुः विधवाललाटे ॥ ४०॥
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशां
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ ४१॥
किं वाससेति तत्र विचारणीयं
वासः प्रधानं खलु योग्यतायै ।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां
दिगम्बरं वीक्ष्य विषं समुद्रः ॥ ४२॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः
न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता र्धायते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ ४३॥
कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां ।
ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥ ४४॥
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ ४५॥
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् ।
तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥ ४६॥
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥ १॥
खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ।
अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्
कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥ २॥
खद्योतो द्योतते तावत् यावत् न उद्यते शशिः ।
उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥ ३॥
गच्छन् गगग्नमार्गेण नित्यं लोकान् प्रकाशयन् ।
वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥ ४॥
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ ५॥
गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।
यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥ ६॥
गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥ ७॥
गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै ।
प्रासादशिखरस्थोऽपि काको न गरुडायते ॥ ८॥
गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ९॥
गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् ।
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥ १०॥
गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥ ११॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥ १२॥
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥ १३॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ १४॥
गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः ।
सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥ १५॥
गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् ।
स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥ १६॥
गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः ।
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥ १७॥
गर्वाय परपीडायै दुर्जनस्य धनं बलम् ।
सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥ १८॥
घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥ १९॥
घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ।
दग्धं दग्धं पुनरपि पुनः काञ्चन्ं कान्तवर्णम्
प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ २०॥
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥ १॥
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥ २॥
चतुरः सखि मे भर्ता यल्लिखति तद् परो न वाचयति ।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥ ३॥
चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥ ४॥
चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥ ५॥
चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखनन्ं युक्तं प्रदीप्ते वह्निना गृहे ॥ ६॥
चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥ ७॥
चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥ ८॥
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥ ९॥
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ १०॥
जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः ।
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥ ११॥
जनैर्जनहितार्थाय जनानामेव निर्मितं ।
लोकतन्त्रं भारतस्य वसुधायां विराजते ॥ १२॥
जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।
सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥ १३॥
ज्येष्ठत्त्वं जन्मना नैव गुणैज्र्येष्ठत्त्वमुच्यते ।
गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥ १४॥
जन्मदाता अन्नदाता विद्यादाता तथैव च ।
कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥ १५॥
तृणं खादिति केदारे जलं पिबति पल्वले ।
दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥ १॥
तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ २॥
त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः ।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥ ३॥
तातेन कथितं पुत्र पत्रं लिख ममाज्ञया ।
नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥ ४॥
ते यान्ति तीर्थेषु बुधाः ये शम्भोर्दूरवर्तिनः ।
यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥ ५॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥ ६॥
ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् ।
स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥ ७॥
तृणादपि लघुस्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ ८॥
तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् ।
अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥ ९॥
तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम्
तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् ।
अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे
कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥ १०॥
दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥ १॥
द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।
सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥ २॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रधुनन्दनम् ॥ ३॥
दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥ ४॥
दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते ।
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ५॥
दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिंव्हाग्रे हृदये तु हलाहलम् ॥ ६॥
दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ७॥
दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।
पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥ ८॥
दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ ९॥
दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः ।
दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥ १०॥
दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ ११॥
दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् ।
इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥ १२॥
दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते ।
काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥ १३॥
द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥ १४॥
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः ।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥ १५॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥ १६॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १७॥
दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् ।
पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥ १८॥
देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च ।
सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥ १९॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ २०॥
दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥ २१॥
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ २२॥
दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं ।
अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥ २३॥
दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः ।
एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥ २४॥
धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् ।
रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥ २५॥
धवलयति समग्रं चन्द्रमा जीवलोकं
किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवति विदितमेतद् प्रायशः सज्जनानां
परहितनिरतानामादरो नात्मकार्ये ॥ २६॥
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २७॥
न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः ।
न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ १॥
नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ २॥
न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ३॥
नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति ।
तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥ ४॥
नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ ५॥
न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः ।
कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥ ६॥
नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं
शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी ।
वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्डितैः
सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥ ७॥
न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ८॥
न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते ।
तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥ ९॥
नमस्ते सर्वदेवानां वरदासि हरेः प्रिया ।
या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥ १०॥
नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः ।
सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥ ११॥
नमस्ते शारदे देवी वीणा पुस्तकधारिणि ।
विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥ १२॥
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ १३॥
न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।
भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥ १४॥
नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः ।
शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १५॥
नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ १६॥
नमस्ते शारदे देवी काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ १७॥
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥ १८॥
न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं ।
विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥ १९॥
नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता ।
अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥ २०॥
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥ २१॥
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ २२॥
न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥ २३॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ २४॥
न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥ २५॥
नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि ।
प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥ २६॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ २७॥
न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ २८॥
न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥ २९॥
न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥ ३०॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥ ३१॥
नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते
सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा ।
तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम्
सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥ ३२॥
नरपतिहितकर्ता द्वेष्यतां याति लोके
जनपदहितकर्ता त्यज्यते पार्थिवेन ।
इति महति विरोधे विद्यमाने समाने
नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ३३॥
नायं प्रयाति विकृतिं विरसो न यः स्यात्
न क्षीयते बहुजनैर्नितरां निपीतः ।
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं
नूनं सुभाशितरसोऽन्यरसातिशायी ॥ ३४॥
निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः ।
विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥ ३५॥
निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः
लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति ।
चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति
ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥ ३६॥
न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥ ३७॥
न तेन स्थविरो भवति येनास्य पलितं शिरः ।
स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥ ३८॥
निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ ३९॥
नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ ४०॥
नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः
निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।
तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ ४१॥
नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥ ४२॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ ४३॥
नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ४४॥
परित्राणाय साधूनां विनाशाय च दुश्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ १॥
परोपकारकरणं नूनं हस्तस्य भूषणम् ।
पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥ २॥
पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् ।
नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥ ३॥
पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥ ४॥
प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं ।
तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥ ५॥
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति स्वस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ ६॥
परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् ।
यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥ ७॥
पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् ।
दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥ ८॥
पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥ ९॥
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥ १०॥
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं ।
मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥ ११॥
परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥ १२॥
पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥ १४॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्राभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति ॥ १४॥
प्रलये पवनाघातैः प्रचलन्ति नगा अपि ।
कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥ १५॥
पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १६॥
पुस्तकस्था तु या विद्या परहस्तगतं धनं ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ १७॥
परिश्रमो मिताहारः भेषजे सुलभे मम
नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् ।
धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं
सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥ १८॥
प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् ।
दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥ १९॥
पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया ।
स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥ २०॥
पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम्
धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि ।
श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः
स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोऽसि ॥ २१॥
पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा ।
परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥ २२॥
प्रारम्भगुर्वी क्षयिणी क्रमेन गुर्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्रिः खलसज्जनानाम् ॥ २३॥
पञ्चैते देवतरवः मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ २४॥
प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥ २५॥
प्राणां त्यजति देशार्थम् पण्डितानां सहायकः ।
य आचरति कल्याणं लोके मानं स विन्दति ॥ २६॥
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नारिकेला नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥ २७॥
पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम्
काले काले व्यजनमिव तं विस्तृतं यः करोति ।
शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं
कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥ २८॥
पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥ २९॥
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥ ३०॥
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ३१॥
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥ ३२॥
प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा ।
दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥ ३३॥
पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही ।
एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ३४॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥ ३५॥
पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।
पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥ ३६॥
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥ ३७॥
फणिनो बहवः सन्ति भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १॥
फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २॥
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ ३॥
बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ ४॥
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ ५॥
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥ ६॥
ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः ।
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो
सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥ ७॥
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाशितम् ॥ ८॥
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।
देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥ ९॥
भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥ १०॥
भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥ ११॥
भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥ १२॥
भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥ १३॥
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥ १४॥
भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः ।
निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनम् ॥ १५॥
माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ १॥
मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् ।
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥ २॥
मात्रा समं नास्ति शरीरपोषणं
चिन्तासमं नास्ति शरीरशोषणं ।
मित्रं विना नास्ति शरीर तोषणं
विद्यां विना नास्ति शरीरभूषणं ॥ ३॥
मुखं पद्मदलाकारं वाणी चन्दनशीतला ।
हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥ ४॥
मयूरो विहगो रम्यः आनन्दयति मानवान् ।
पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥ ५॥
मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा ।
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥ ६॥
मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ७॥
मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः ।
पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥ ८॥
मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥ ९॥
मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ।
तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥ १०॥
मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः ।
मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥ ११॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥ १२॥
महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रत्याम्बु जाह्नवीसंगात् त्रिदशैरपि वन्द्यते ॥ १३॥
मा निशाद प्रतिष्ठां त्वं अगमः शाश्वतीः समाः ।
यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥ १४॥
मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् ।
तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥ १५॥
मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥ १६॥
मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥ १७॥
मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १८॥
यत्र रामकथागानं तत्रास्ते हनुमान् यथा ।
संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ २१॥
यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ २२॥
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ २३॥
योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः ।
नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥ २४॥
यां चिन्तयामि सततं मयि सा विरक्ता
साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।
अस्मत्कृते च परितुष्यति काचिदन्या
धिक् तां च तं च मदनं च इमां च मां च ॥ २५॥
ययोरैव समं वित्तं ययोरैव समं कुलम् ।
तयोर्मैत्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥ २६॥
यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥ २७॥
यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः ।
यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥ २८॥
यदि वा याति गोविन्दो मथुरातः पुनः सखी ।
राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥ २९॥
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ३०॥
यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि ।
यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥ ३१॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥ १॥
राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च ।
एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥ २॥
रत्नैर्महार्हैस्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥ ३॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पंकजश्रीः ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ४॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः ।
केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ५॥
रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः ।
पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ६॥
रामायणम् महाकाव्यम् महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ७॥
रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः
क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥ ८॥
रजकश्चर्मकारश्च नटो वरुड एव च ।
कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥ ९॥
रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं
राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय ।
सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता
राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥ १०॥
रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम्
प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे
खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥ ११॥
रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १२॥
लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् ।
सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥ १३॥
लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ १४॥
लोभमूलानि पापानि संकटानि तथैव च ।
लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥ १५॥
लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः
गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः ।
अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः
रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥ १६॥
लालने बहवो दोषास्ताडने बहवो गुणाः ।
अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥ १७॥
लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् ।
दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥ १८॥
लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता ।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ १९॥
लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः ।
शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥ २०॥
विद्याधिदेवता साक्षात् धन्या देवी सरस्वती ।
यत्प्रसादेन कुर्वन्ति काव्यानि कवयः खलु ॥ १॥
विषादप्यमृतं ग्राह्यं अमेध्यादपि काङ्चनम् ।
अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥ २॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानम् समर्थस्य वृथा दीपो दिवापि च ॥ ३॥
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रम् धर्मो मित्रं मृतस्य च ॥ ४॥
वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा ।
मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥ ५॥
वृक्षाणामधिराजो नु नित्यमाम्रो विराजते ।
गन्धच्छायापुष्पफलैः यो रञ्जयति दुःखितान् ॥ ६॥
वृश्चिकस्य विषं पृच्छे मक्षिकाया मुखे विषम् ।
तक्षकस्य विषं दन्ते सर्वाङ्गे दुर्जनस्य तत् ॥ ७॥
वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि ।
तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥ ८॥
विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने स्नेहम् ।
विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः ॥ ९॥
विद्या विवादाय धनं मदाय खलस्य शक्तिः परपीडनाय ।
साधोस्तु सर्वं विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय ॥ १०॥
वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः ।
सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥ ११॥
वरं भृत्यविहीनस्य जीवनं श्रमपूरितं ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥ १२॥
वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥ १३॥
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।
आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ १४॥
वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषं केषां न ते वन्द्याः ॥ १५॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥ १६॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ १७॥
वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनातु भुवनं पुण्या रामायणमहानदी ॥ १८॥
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥ १९॥
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ २०॥
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिव्र्यसनं श्रुतौ प्रकृतिसिद्धमियं हि महात्मनाम् ॥ २१॥
वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च ॥ २२॥
वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके ।
प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व पयः क्व च चातकः ॥ २३॥
वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २४॥
वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥ २५॥
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥ २६॥
व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् ।
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ॥ २७॥
वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः ।
आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥ २८॥
वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ २९॥
विलक्षणः शब्दकोषः विद्यते तव भारति ।
व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥ ३०॥
वेदान्तानां पुराणानां शास्त्रानां च तथैव च ।
मन्त्राणां तन्त्रसूत्राणामाद्यभाषास्ति संस्कृतम् ॥ ३१॥
वासंसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ ३२॥
वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् ।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥ ३३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३४॥
वृक्षाग्रवासी न च पक्षिराजः
त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च बिभ्रन्न घटो न मेघः ॥ ३५॥
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ३६॥
व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः ।
खनितेव हि कूपस्य प्रासादस्येव कारकः ॥ ३७॥
विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकप्रियैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ३८॥
विराटनगरे राजन् कीचकादुपकीचकम् ।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥ ३९॥
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ४०॥
सदाचारेण सर्वेषां शुद्धं भवति मानसम् ।
निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥ १॥
सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः ।
सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥ २॥
सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
देहः परहिते यस्य कलिस्तस्य करोति किम् ॥ ३॥
सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ ४॥
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ ५॥
सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः ।
बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥ ६॥
सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥ ७॥
सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥ ८॥
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ ९॥
समुद्रवसने देवि पर्वतावलिभूषिते ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १०॥
सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् ।
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥ ११॥
सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥ १२॥
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ १३॥
सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वं मुढास्तु जल्पन्ति गुणैर्वीहीनाः ॥ १४॥
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥ १५॥
सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥ १६॥
सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥ १७॥
सेवितव्यो महावृक्षः फलच्छायासमान्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥ १८॥
सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः ।
मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥ १९॥
स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥ २०॥
स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः ।
तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥ २१॥
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते
प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥ २२॥
सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥ २३॥
सुखं हि दुःखान्यनुभूय शोभते
घनान्धकारेश्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां
धृतः शरीरेण मृतः स जीवति ॥ २४॥
सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी
वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।
तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः
तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥ २५॥
स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता
पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः ।
तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद्
नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥ २६॥
सुलभाः पुरुषा लोके सततं प्रियवादिनः ।
अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥ २७॥
सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ।
स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥ २८॥
सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ २९॥
सुभाषितेन गीतेन युवतीनां च लीलया ।
यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥ ३०॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥ ३१॥
साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥ ३२॥
सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् ।
मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥ ३३॥
सर्पा पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालां
सन्तोष एव पुरुषस्य परं निधानम् ॥ ३४॥
संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् ।
प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥ ३५॥
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥ ३६॥
स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ३७॥
साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् ।
सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥ ३८॥
स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः ।
तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥ ३९॥
सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥ ४०॥
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ ४१॥
स्नेहं दयां च सौख्यं च यदि वा जीवनमपि ।
उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥ ४२॥
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥ ४३॥
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ४४॥
संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ४५॥
सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन ।
घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥ ४६॥
सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥ ४७॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।
विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करि ॥ ४८॥
सर्पराज नमामि त्वां क्रूरमप्युपकारकम् ।
क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥ ४९॥
Transliterated by Kedar Naphade