पूर्वम्: १।१।११
अनन्तरम्: १।१।१३
 
प्रथमावृत्तिः

सूत्रम्॥ अदसो मात्॥ १।१।१२

पदच्छेदः॥ अदसः ६।१ मात् ५।१ ईदूदेत् १।१ ११ प्रगृह्यम् १।१ ११

अर्थः॥

अदसः सम्बन्धः यः मकारः तस्मात् परे य ईदूदेतः तेषां प्रगृह्यसंज्ञा भवति।

उदाहरणम्॥

अमी अत्र, अमी आसते। अमू अत्र, अमू आसाते।
काशिका-वृत्तिः
अदसो मात् १।१।१२

अदसः सम्बधी यो मकारस्तस्मात् परे ईदूदेतः प्रग्र्ह्यसंज्ञा भवन्ति। अमी अत्र। अमी आसते। अमू अत्र। अमू आसाते। एकारस्य उदाहरणं न अस्ति। अदसः इति किम्? शम्यत्र। दाडिम्यत्र। मातिति किम्? अमुके ऽत्र।
लघु-सिद्धान्त-कौमुदी
अदसो मात् ५२, १।१।१२

अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥
न्यासः
अदसो मात्। , १।१।१२

"अदसः सम्बन्धी यो मकारः" इति। अवयनवावयविभावलक्षणेन सम्बन्धेन षष्ठी। "अमी अत्र" इति अदस्()शब्दात् परस्य जसः शी ७।१।१७ त्यदाद्यत्वम् ७।१।१०२ , अतो गुणो" ६।१।९४पररूपत्वम्, ईकारेण सह "आद्()गुणः" ६।१।८४ "एत ईद्बहुवचने" ८।२।८१ इतीत्त्वम्, दस्य च मत्वम्, ८।२।८०। अयमद्विवचनार्थ आरम्भः। "अमू आसाते" इति। अदसो द्विवचनमौ। त्यदाद्यत्वम्,"वृद्धिरेचि" ६।१।८५ इति वृद्धिः; "अदसोऽसेर्दादुदो मः" ८।२।८० इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादुकरः।अत्राप्यूकारादिकार्यमसिद्धमिति पूर्वेणाप्राप्तिः। अतः "पूर्वात्रासिद्धम्" ८।२।१ इत्यस्य बाधनार्थं आरम्भः। कथं पुनः "पूर्वत्रासिद्धम्"८।२।१ इत्येतच्छक्यं बाधितुम्, वचनसामथ्र्यात्? नैतदस्ति; यत् सिद्धे प्रगृह्रकार्यम् "अणोऽप्रगृह्र- स्यानुनासिकः" ८।४।५६ इति, तदर्थं वचनं स्यात्, नैतदेवम्; न ह्रेकं प्रयोजनं योगारम्भं प्रयोजयति। यदि ह्रेतावत् प्रयोजनं स्यात्, तत्रैवेदं ब्राऊयात्, "अणोऽप्रगृह्रस्यानुनासिकः, अदसो न" इति। "शम्य्तर, दाडिम्यत्र" इति। "षिद् गौरादिभ्यश्च" ४।१।४१इति ङीष्, "यस्येति च" ६।४।१४८ इत्यकारलोपः। भवत्ययं मकारात्पर ईकारः, न त्वदः सम्बन्धीति। "अमुकेऽत्र" इति। "अव्ययसर्वनाम्नाम्"(५।३। ७१) इत्यकच्, "जसः शी" ७।१।१७, "आद्()गुणः" ६।१।८४, पूर्ववदुत्वमत्वे अमुके इति स्थिते परत्र चात्रशब्दे "एङः पदान्तादति" ६।१।१०५ इति पूर्वरूपत्वम्।
बाल-मनोरमा
अदसो मात् १०२, १।१।१२

अदसो मात्। "अदस" इत्यवयवषष्ठी। अदश्शब्दावयवान्मकारादित्यर्थः। "ईदू"दिति "प्रगृह्र"मिति चानुवर्तते। "मा"दिति दिग्योगे पञ्चमी। परसभ्दोऽध्याहार्यः। तदाह--अस्मात्पराविति। अदश्शब्दावयवमकारात्परावित्यर्थः। "ए"दिति नानुवर्तते, अदश्शब्दे मकारात्परस्यैकारस्याऽसंभवात्। "द्विवचन"मित्यपि नानुवर्तते, अदश्शब्दे मकारात्परस्य ईकारस्य "अमी" इति बहुवचनत्वात्, ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावर्त्त्याऽभावात्। अमी ईशा इति। अदश्शब्दाज्जसि त्यदाद्यत्वं पररूपत्वं। जसश्शी। आद्गुणः। "अदे" इति स्थिते एकारस्य "एत ई"दिति ईत्त्वं, दस्य च मत्त्वम्। तदेवम्-"अमी"#इति रूपम्। अत्र ईकारस्य द्विवचनत्वा।ञभावात्पूर्वसूत्रेण प्रगृह्रसंज्ञा न प्राप्तेत्यनेन सा विधीयते। रामकृष्णावमू इति। पुँल्लिङ्गाददश्शब्दात्प्रथमाद्विवचने औङि, त्यदाद्यत्वं, पररूपत्वं। वृद्धिरेचि। अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वं, दस्य मत्वम्। अमू इति रूपम्। यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्रत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्ट()आ सत्त्वात्पूर्वस#ऊत्रेण तस्य प्रगृह्रत्वं न प्राप्तमित्यनेन विधीयते। "अदसो मा"दिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामथ्र्यात्। पूर्वसूत्रस्य तु तत्र न सामथ्र्यं, हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात्। "स्त्रियौ फले वा अमू आसाते" इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम्। तथाहि स्त्रीलिङ्गददश्शब्दादौङि, त्यदाद्यत्वे, पररूपत्वे, टापि, "ओङ आप" इति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम्। तथा नपुंसलिङ्गात्तस्मादौङि, त्यदाद्यत्वे, पररूपत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू #इत्येव रूपम्। अत्र पूर्वसूत्रेणैव प्रगृह्रत्वं सिद्धम्। उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात्। अतः पुँल्लिङ्ग एव अदश्शब्दोऽत्रोदाहरणमिति प्रदर्शयितुं "रामकृष्णा" वित्युक्तम्। मात्किमिति। "अदस" इत्येव सूत्रमस्तु, माद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः। अमुकेत्रेति "अव्ययसर्वनाम्नामकच् प्राक्टेः" #इत्यकचि अदकश्शब्दाज्जसि, त्यदाद्यत्वं, पररूपत्वम्, जसश्शी, आद्गुणः उत्वमत्वे। "अमुके" इति रूपम्। अत्र एकारस्य प्रगृह्रत्वनिवृत्त्यर्थं माद्ग्रहणम्। कृते च तस्मिन्नेकारस्य म#आत्परत्वाऽभावान्न प्रगृह्रत्वमिति भावः। नन्वेवमपि माद्ग्रहणं व्यर्थम्, एद्ग्रहणमननुवर्त्त्य ईदूतोरेवाऽत्र प्रगृह्रत्वविधानाब्युपगमेन "अमुके" इत्यत्र प्रगृह्रत्वप्रसक्तेरेवाऽभावादित्यत आह--असतीति। "अदसो मा"दित्यत्र ईदूदेतामेकसमासपदोपात्तानां मध्ये ईदूतोद्र्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्रहणादेतोऽनुवृत्तिः प्रतिबद्धा। माद्ग्रहणाऽभावे तु बाधकाऽभावादेतोऽप्यनुवृत्तिः स्यात्। ततश्च "अमुके" इत्यत्रापि एकारस्य प्रगृह्रत्वप्रसक्तौ तन्निवृत्त्यर्थं माद्ग्रहणम्। कृते तु तस्मिन्नेतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्रत्वम्। तथाच एकाराननुवृत्तिफलसकं माद्ग्रहणमिति भावः।

तत्त्व-बोधिनी
अदसो मात् ८२, १।१।१२

अदसो मात्। इह एकारो नानुवर्तते, असंभवादित्यभिप्रेत्याह-ईदूताविति। अदसः किम्?। शम्यत्र, वाम्यत्र। ननूकारानुवृत्तिव्र्यर्था, "स्त्रियौ फले वा अमू आसाते" इत्यत्र पूर्वेणैव सिद्धेः। मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह--रामकृष्णाविति। पुंसि पूर्वेण न सिध्द्यति, औकारान्तत्वादिति भावः। "अदसो मा"दिति सूत्रं प्रति मूत्वमीत्वं च नाऽसिद्धम्, आरम्भसामथ्र्यात्। अमुकेऽत्रेति। स्त्रीलिङ्गद्विवचनस्य तु पूर्वसूत्रेण प्रगृह्रत्वे प्रकृतिभाव एव। अमुकेऽत्र। एकारोऽप्यनुवर्तेतेति। तथाच एकाराननुवृत्तितात्पर्यग्रहफलकं माद्ध्रहणमिति भावः।