पूर्वम्: १।१।१२
अनन्तरम्: १।१।१४
 
प्रथमावृत्तिः

सूत्रम्॥ शे॥ १।१।१३

पदच्छेदः॥ शे १।१ प्रगृह्यम् १।१ ११

अर्थः॥

शे इति लुप्तप्रथमान्तः निर्देशः {सुपां सुलुक्॰ (७।१।३९)} इत्यनेन छान्दसः आदेशः गृह्यते। शे इत्यस्य प्रगृह्यसंज्ञा भवति।

उदाहरणम्॥

अस्मे इन्द्राबृहस्पती (ऋ॰ ४।४९।४), युष्मे इति, अस्मे इति॥
काशिका-वृत्तिः
शे १।१।१३

शे इत्येतत् प्रगृह्यसंज्ञं भवति। किमिदं शे इति? सुपाम् आदेशश् छन्दसि। न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती। युष्मे इति। अस्मे इति। त्वे रायः। मे रायः। त्वे इति। मे इति। छान्दसम् एतदेवैकम् उदाहरणम् अस्मे इन्द्राबृहस्पती इति। तत्र तथा पाठात्। इतरत् तु लौकिकम् अनुकरणम् युश्मे इति, अस्मे इति, त्वे इति, मे इति।
न्यासः
शे। , १।१।१३

"शे" इति। शेश्रुतेरविशिष्टत्वात् काशे कुशे इत्यत्र यः शेशब्दस्तस्यापि ग्रहणं प्राप्नोति, अतो विशेषो वक्तव्य इत्यभिप्रायेणाह- "किमिदं शे" इति। "सुपाम्ित्यादि। यस्तु काशकुशशब्दाभ्यां सप्तम्येकवचने च कृते आद्गुणे ६।१।८४ च शेशब्दः सम्पद्यते, तस्येह ग्रहणं न भवति; लाक्षमिकत्वादिति भावः। "युष्मे, अस्मे" इति। षष्ठीबहुवचनस्य "सुपां सुलुक्" ७।१।३९ इत्यादिना शेशब्दादेशः, "शेषे लोपः"७।२।९० अथ वा- प्रथमाबहुवचनस्यैव शेभावः, छान्दसत्वात् "यूयवयौ जसि" ७।२।९३ इत्येतन्न प्रवर्तते। "त्वे इति, मे इति"। सप्तम्येकवचनस्य पञ्चम्येकवचनस्य च शेभावः। "त्वमा- वेकवचने" ७।२।९७ इति युष्मदस्मदोस्त्वमावादेशौ। "इतरत् तु लौकिकमनुकरणम्" इति। यदा "युष्मे इति" एवमादिकं तदा लौकिकमनुकरणमिति भावः। यदा "युष्मे", "अस्मे" इत्याददीनां वेदवाक्यस्थानामर्थाद्वयवच्छिद्य स्वरूपेऽवस्थानार्थं पदकारैरितिकरणोऽध्या- ह्यियते, तदा "युष्मे इति", "अस्मे इति" एवमादिकमुदाहरणमिति भवति। इतरत् तु लौकिकम नुकरणमित्युक्ते "न युष्मे वाजबन्धवः" (ऋ।८।६९।१९), "त्वे रायः" (तै।सं।१।२।५।२), "मे रायः" (वा।सं।४।२२) इत्येतेष्वपि वेदवाक्येषु यत् "युष्मे" इत्यादिशेशब्दान्तं शब्दरूपम्, तत् स्वरूपेण दर्शयितुमाह- "युष्मे इति, अस्मे इति, त्वे इति, मे इति"। यद्येववं किमर्थं "न युष्मे वाजबन्धवः" )ऋ ८।६९।१९) इत्यादीनामुपन्यासः? एषु वेदवाक्येषु ये "युष्मे" इत्यादयः शब्दाः, तेषामेतान्यनुकरणनीति प्रदर्शनार्थः; अन्यथा हि ज्ञायते कस्यैतान्यतनुकरणनीति॥
बाल-मनोरमा
शे १०३, १।१।१३

शे। एकपदं सूत्रम्। "प्रगृह्र"मित्यनुवर्तते। छन्दसीत्यनुवृत्तौ "सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड()आयाजालः" इति विहितः "शे" इत्येकारान्त आदेशः प्रगृह्रः स्यादित्यर्थः। तदाह--अयमिति। "शे" आदेशे इत्यर्थः। अस्मे इति। अस्मभ्यमित्यर्थः। भ्यसः शे-आदेशः, "लशक्वतद्धिते" इति शकार इत्। "शेषे लोपः"। अस्मे इति रूपम्। अद्विवचनत्वादप्राप्तौ वचनम्। यद्यपि छान्दसमिदं बैदिकप्रक्रियायामेव निबन्ध्यं, तथापि "अस्मे इति" "त्वे इति" इत्याद्यवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् , पदपाठस्याधुनिकत्वात्।

तत्त्व-बोधिनी
शे ८३, १।१।१३

शे इति। छान्दसमपीदं सन्दर्भशुध्द्यर्थमुक्तामित्याहुः। अस्मे इति। अस्मभ्यमित्यर्थः। "सुपां सुलु"गिति भ्यसः शेआदेशः। "शेषे लोपः"।