पूर्वम्: १।१।१७
अनन्तरम्: १।१।१९
 
प्रथमावृत्तिः

सूत्रम्॥ ईदूतौ च सप्तम्यर्थे॥ १।१।१८

पदच्छेदः॥ ईदूतौ १।२ सप्तम्यर्थे ७।१ प्रगृह्यम् १।१ ११

समासः॥

सप्तम्याः अर्थः सप्तम्यर्थः, तस्मिन् सप्तम्यर्थे, षष्ठीतत्पुरुषः।

अर्थः॥

सप्तम्यर्थे वर्त्तमानौ, ईकारान्त-ऊकारान्तौ शब्दौ प्रगृह्यसंज्ञकौ भवतः।

उदाहरणम्॥

सोमो गौरी अधिश्रितः। अध्यस्यां मामकी तनू इति।
काशिका-वृत्तिः
ईदूतौ च सप्तम्यर्थे १।१।१९

शाक्ल्यस्यैतावनार्शे इति निवृत्तम्। ईदन्तम् ऊदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसंज्ञं भवति। अध्यस्यां मामकी तनू। मामक्यां तन्वाम् इति प्राप्ते, मांक्याम् मामकी इति, तन्वाम् तनू इति। सोमो गौरी अधि श्रितः। ईदूतौ इति किम्? प्रियः सूर्ये प्रियो अग्ना भवाति। अग्निशब्दात् परस्याः सप्तम्याः डादेशः। सप्तमीग्रहणं किम्? धीती, मती, सुष्टुती धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। अर्थग्रहणं किम्? वाऽप्यश्वः। नद्यातिः। तपरकरणम् असन्देहार्थं। ईदूतौ सप्तमीइत्येव लुप्ते ऽर्थग्रहणाद् भवेत्। पूर्वस्य चेत् सवर्णो ऽसावाडाम्भावः प्रसज्यते। १। वचनाद्यत्र दीर्घत्वं तत्र अपि सरसी यदि। ज्ञापकं स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत्। २।
बाल-मनोरमा
ईदूतौ च सप्तम्यर्थे ११०, १।१।१८

ईदूतौ च। "प्रगृह्र"मित्यनुवर्तते। तच्च द्विवचनान्ततया विपरिणम्यते। शब्दस्वरूपस्य विशेष्यत्वात्तदन्तविधिः। "ईदूतौ च सप्तम्या"वित्येव सिद्धेऽर्थग्रहणाद्यत्र सप्तम्या लुकि "यः शिष्यते स लुप्यमानार्थाभिधायी" इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसानं तथाविधत्वमीदूदन्तयोर्गम्यते। तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्रौ स्त इत्यक्षरार्थः। फलितमाह--सप्तम्यर्थ इत्यादिना। सोमो गौरी इति। गौर्यामित्यर्थः। "सुपां सुलु"गिति सप्तम्या लुक्। प्रगृह्रत्वे प्रकृतिभावान्न यण्। वातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम्, तत्र सप्तम्या लुप्तत्वाऽभावेन प्रकृतेः सप्तम्यर्थेऽप्रवृत्तेः। मामकी तनू इति। मामक्यां तन्वामित्यर्थः। "सुपां सुलु"गिति सप्तम्यालुक्। प्रगृह्रेभ्यः परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् पदपाठे "मामकी इति" "तनू इती"त्यत्र प्रगृह्रत्वफलं बोध्यम्। ननु "ईदूतौ च सप्तम्याः" इत्येव सूत्र्यताम्। षट()आ चाऽर्थद्वारा संबन्धो विवक्ष्यतां, ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्यार्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति--अर्थग्रहणं किमिति। कस्म#ऐ प्रयोजनायेत्यर्थः। "कि"मित्यव्ययम्। वृत्ताविति। अर्थग्रहणसामथ्र्याल्लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यर्थो विवक्षितः। ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घ्य उत्तरपदार्थे प्रवृत्ते सति प्रगृह्रसंज्ञा न भवति। मा भूदिति। "माङि लुङ्" सर्वलकारापवादः। वाप्य()आ इति। "वाप्याम्--अ()आ" इति विग्रहे सुप्सुपेति समासे "वाप्य()आ" इति रूपमित्यर्थः। अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतं, तच्चाधिकरणकारकं क्रियापेक्षं। तत्र वाप्याम()आओ वर्तत इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या विद्यमानेऽ()ओ लक्षमया प्रवृतिं()त पुरस्कृत्य समासो वक्तव्यः। एवं च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलङ्घ्य तत्संसृष्टे आधेयभूतेऽ()ओऽपि प्रवृत्तेः सप्तम्यर्थमात्राविश्रान्त्यभावान्न प्रगृह्रत्वमिति भावः।

तत्त्व-बोधिनी
ईदूतौ च सप्तम्यर्थे ९०, १।१।१८

ईदूतौ च। ईदूताविति किम्?। "प्रियः सूर्ये प्रियो अग्ना भवाति"।?ग्निशब्दात्परस्याः सप्तम्याः "सुपां सुलु"गित्यादिना "डा"देशः। पदकारैः प्रगृह्रेषु इतिशब्दुप्रयोगस्य नियमितत्वेन इहापि पदकाले इतिशब्दप्रयोगप्रसङ्गः, स चाऽनिष्ट इति बोध्यम्। सप्तमीग्रहणं किम्?, धीती, मती, सुष्टुती। धीत्या, मत्या, सुष्टुत्या इति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः। ततः "अकः सवर्णे दीर्घः" इत्येकादेशः। न त्विह "सुपां सुलु"गिति लुक्, ह्यस्वश्रवणापत्तेः। सोमो गौरी इति। "वातप्रमी अत्र" "ययी आसक्त" इत्याद्युदाहरणे सत्यप्यूकारान्तस्य लौकिकोदाहरणाभावादुभयोरपि वेद एवोदाहरणमुक्तम्। मामकी तनू इति। यद्यप्यत्र संहितायां प्रगृह्रप्रयोजनं नास्ति, तथापि "मामकी इति" "तनू इति" पदकाले तदस्त्येव, "स्वायां तनू ॠत्व्येनाधमाना"-मित्यत्र तु संहिताकालेऽप्यस्ति, तथापि "ऋत्यकः" इति पाक्षिकप्रकृतिभावेनाप्येतत्सिद्धं, छन्दसि रूपान्तरस्यापादयितुमशक्यत्वादिति बोध्यम्। सप्तम्या लुगिति। यदि धीत्यादाविव विभक्तेः पूर्वसवर्णे कृते सवर्णदीर्घ एकादेश इति व्याख्यायेत तदा एकादेशं बाधित्वा परत्वादाङ्गत्वात्वाच्च "आण्नद्याः"इत्याट् ङेराम् च स्यादिति भावः। अर्थग्रहणं किमिति। "वाप्य()आ" इत्यत्र यो वापीशब्दः सतु वाप्यधिकरणकद्रव्ये उपसङ्कान्तः। "सोमो गौरी" इत्यत्र गौरीशब्दस्तु सप्तम्यर्थमात्रे पर्यवसन्नः, न तु तदधिकरणकद्रव्ये उपसङ्कान्तः, वृत्त्याभावादिति भेदः।