पूर्वम्: १।१।१६
अनन्तरम्: १।१।१८
 
प्रथमावृत्तिः

सूत्रम्॥ उञ ऊँ॥ १।१।१७

पदच्छेदः॥ उञः ६।१ ऊँ १।१ शाकल्यस्य ६।१ १६ इतौ ७।१ १६ अनार्षे ७।१ १६ प्रगृह्यम् १।१ ११

अर्थः॥

उञः प्रगृह्यसंज्ञा भवति, तस्य स्थाने ऊँ-आदेशः च प्रगृह्यसंज्ञकः भवति, शाकल्यस्य आचार्यस्य मतेन, अनार्षे इतौ परतः।

उदाहरणम्॥

उ इति। विति। ऊँ इति॥
काशिका-वृत्तिः
उञः १।१।१७

शाकल्यस्यैतौ अनार्षे इति वर्तते। उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन। शाकल्यस्य इति विभाषार्थम्। उ इति, विति।
काशिका-वृत्तिः
ऊं १।१।१८

उञः इति वर्तते। उञः इतावनार्षे ऊं इत्ययमादेशो भवति दीर्घो ऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्यसंज्ञकश्च। शाकल्यस्य ग्रहणं विभाषाऽर्थम् इह अप्यनुवर्तते। तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊं इति।
न्यासः
उञः। , १।१।१७

न्यासः
ऊँ। , १।१।१७

"तेन त्रीणि रूपाणि भवन्ति" इति शाकल्यग्रहणानुवृत्तेः फलं दर्शयति। यदि ह्रत्र शाकल्यग्रहणं नानुवत्र्तेत, तदा पूर्वसूत्रेण यस्मिन् पक्ष उञः प्रगृह्रसंज्ञा न विहिता तस्मिन्ननेनन नित्यम् "ऊँ" आदेशः स्यात्। तत "उ"इति, "ऊँ" इति च द्वे रूपे स्याताम्; न वितीति तृतीयम्। शाकल्यग्रहणानुवृत्तौ तु सत्यां यस्मिन् पक्षे पूर्वसूत्रेण प्रगृह्रसञ्ज्ञा उञो न कृता, तस्मिन्नेन ऊँ आदेशे विभाषा विहिते वितीति तृतीयं रूपं सिध्यति।
न्यासः
ईदूतौ च सप्तम्य्रथे। , १।१।१७

"अध्यस्यां मामकी तनू" इति। एतद् वेदवाक्यं वेदितव्यम्। अत्र "मामकी" "तनू" इति शब्दौ"सूपां सुलुक्" ७।१।३९ इति लुप्तसप्तमीकौ। तत्र यदा अर्थाद्वयव- च्छिद्य स्वरूपे व्यवस्थापनायेतिशब्दः प्रयुज्यते उदाहरणे- "मामकी"इति, "तनू" इति च। तथा स"सोमो गौरी" इत्येतदपि। मामक्यामित्यादेरुपन्यासः सप्तम्यर्थप्रदर्शनार्थः। "डादेशः" इति। सुपां सुलुगित्यादिना ७।१।३९। तत्रेतिशब्दे परतोऽकः सवर्णे दीर्घत्वं ६।१।९७ भवत्येव। "धीती" इत्यादि। "धीतिमतिसुष्टुतिशब्देभ्यः परस्य तृतीयैकवचनस् पूर्वसवर्णदीर्घत्वम्, लुग् वा। इतिशब्दे परतोऽकोऽत्रापि सवर्ण-दीर्घत्वं भवत्येव। धीत्येत्यादिना तृतीयार्थवृत्तितां दर्शयति। "वाप्याम()आः, नद्यामातिः" इति "सञ्ज्ञायाम्" २।१।४३ इति सप्तमीसमासः। अथार्थग्रहणे क्रियमाणेऽपि कस्मादेवात्र न भवति, अस्ति ह्रत्रापि सप्तम्यर्थः? नैतदस्ति, अर्थग्रहणसाम- थ्र्यात्। अर्थग्रहणे सति केवलो योऽसंसृष्टः सप्तम्यर्थः स इह गृह्रते। नैवंविधे समासे सप्तम्यर्थः सम्भवति; संविभिन्नोभयरूपत्वाद् वृत्तौ वर्त्तिपदार्थानाम्। एषोऽजहत्स्वार्थायां वृत्तौ परिहार उक्तः, जहत्स्वार्थायां तु तस्यां वाक्यावस्थायामुपसर्जनीभूतो योऽर्थः, तं शब्दो जहातीति सप्तम्यर्थो नास्त्येव। तेनार्थग्रहणे सति समासे प्रगृह्रसञ्ज्ञा न भवति। अथ तपकरणं किमर्थम्? प्लुतनिवृत्यर्थमिति चेत्, न ; असम्भवात्। न प्लुते हीकारोकारन्तं सतप्यमर्थ रूपं किञ्चिदस्ति, यद्वयावृत्तये तपकरणं क्रियते। गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकाच्छास्त्रे गुणानाम् इत्यत आह- "तपरकरणम्" इत्यादि। तपरत्वे ह्रसति यणादेशः स्यात्। ततश्च किमयं दीर्घः, उत ह्यस्व इति सन्देहः स्यात्, स मा भूदिति तपरत्वं क्रियते। "ईदूतौ सप्तमी" इत्यादि। ईदूतौ सप्तमीत्येतावदेव सूत्रमस्तु, किमर्थग्रहणेन? "लुप्तेऽर्थग्रहणाद् भवेत्" इह "सोमो गौरी अधिश्रितः"(ऋ ९।१२।३) इति लुप्ताय- मपि सप्तम्यां प्रगृह्रसञ्ज्ञा यथा स्यादित्येव मर्थग्रहणम्। अत्र हि सप्तम्या अभावात् प्रगृह्रसञ्ज्ञा न स्यात्र्थग्रहणात्? तु भवति, सप्तम्यर्थस्य विद्यमान- त्वात्। "पूर्वस्य चेत्सवर्णोऽसौ" इति। स्यादेतत्()- नैवात्र सप्तम्या लुक् क्रियते,किं तर्हि? "सुपां सुलुक्" ७।१।३९ इत्यादिना पूर्वसवर्णः ईकारः। तत्राकः सवर्णेदीर्घत्वे कृते तस्यान्तवद्भावे सति सप्तमीग्रहणेन ग्रहणादस्त्येव सप्तमी, ततो नार्थोऽर्थग्रहणेनेति। एतच्चायुक्तम्। एवं हि सति आडाम्भावः प्रसज्यते। यद्यत्र पूर्वसवर्णः स्यात्, तदा परत्वादक सवर्णदीर्घत्वं बाधित्वा "आण् नद्याः" ७।३।११२ इत्याटो भाव आपपद्यते, "ङेराम्नद्याम्नीभ्यः" ७।३।११६ इत्यामश्च। भावः प्रादुर्भावः, सत्ता वा। तस्मात् पूर्वल्लुगेव कर्तव्यः,ततश्चासत्यां सप्तम्यां प्रगृह्र- सञ्ज्ञा न स्यात्। तसमादर्थग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्; यस्मात् सर्वत्रैव सप्तम्या लुका भवितव्यमिति न क्वचित् सप्तम्यस्ति। उच्यते चेदं वचनम्- "तत्र वचनसामथ्र्याल्लुप्तायामपि तस्यां भविष्यति"? नैतदस्ति; यथो वचनाद् यत्र दीर्घत्वम्, तत्र भविष्यति; यथा- "दृतिं न शुष्कं सरसी शयानम्" (ऋ।७।१०३।२) इति। अत्र सरः शब्दात् परस्याः सप्तम्या "इयाडियाजीकाराणाम्" (का।वा।८२०) इत्यस्मादुप- सङ्ख्यानात् "व्यत्ययो बहुलम्" ३।१।८५ इत्यतो वा दीर्घ ईकारे कृते सप्तमी श्रयूते; ततश्चात्र वचनस्य सावकाशत्वात् "सोमो गौरी अधिश्रितः"(ऋ।९।१२।३) इत्यत्र न स्यात्। "तत्रापि सरसी यदि" इति। यदि सरसीशब्दोऽस्ति तदात्रापि नैवावकाशः। अस्ति च सरसीशब्दः। तथा हि- गौरादिषु४।१।४१ "पिप्पल्यादयश्च" (ग।सू।४७) इति पाठात् पिप्पल्याद्यन्तःपातिनः सरः शब्दादीकारे कृते सरसीति रूपं सम्पद्यते तथा च दक्षिणापथे महान्ति सरांसि "सरस्य" इत्युच्यन्ते। सरसीशब्दस्य प्रगृह्रसञ्ज्ञायां प्रयोजनम्-तत उत्पनायायः सप्तम्या लुकि कृते इतिशब्दे चाध्याह्मते "सरसी" इत्यत्र स्वरसन्ध्य- भावः। तदेवं सरसीशब्दो विद्यत एवेति। "दृतिं न शुष्कं सरसी शयानम्" (ऋ।७।१०३।२) इत्यत्रापि सरसीशब्दो लुप्तसप्तमीक एव प्रयुक्तः तथा च तदेवावस्थितम्। वचनाद् भवि- ष्यतीति प्रत्याख्यातमर्थग्रहणम्। एवं तर्हि - ज्ञापकं स्यात्तदन्तत्वे "ईदूदेद्()- द्विवचनम्" १।१।११ इत्यत्र चत्वारः पक्षा आश्रीयन्ते। इदादयो हि द्विवचनेन विशिष्यन्ते-ईदादियद् द्विवचनमिति; ईदादिभिर्वा द्विवचनम् इति, ईदाद्यन्तं यद् द्विवचनमिति; द्विवचनप्रकृतिर्वोभाभ्याम्-द्विवचनान्तमीदाद्यन्तं यच् शब्दरूपमिति। इदादीभिर्वा द्विवचनं विशिष्य पश्चात् तेनेदन्तेन द्विवचनेन प्रकृतिः, ईदाद्यन्तं यद् द्विवचनमं शब्दरूपमितीदाद्यन्तं द्विवचनान्तमित्यर्थः। तत्र तृतीये पक्षे दोष उक्तः-"कुमार्योरगारं कुमार्यगारम्, व्दवोरगारं वध्वगारमम्" इत्यत्र प्रगृह्र- सञ्ज्ञा प्राप्नोति; एतदीदाद्यन्तं द्विवचनान्तं च भवति प्रत्ययलक्षणेनेति चतुर्थे पक्षेऽपि दोष उक्तः। अशुक्ले वस्त्रे शुक्ले सम्पद्येतां शुक्ल्यास्तां वस्त्रे इत्यत्र प्राप्नोति। शुक्लशब्दाच्()च्विप्रत्()ययान्तत् "नपुंसकाच्च्" ७।१।१९ इत्यौङः शीभावे कृते "अध्ययादाप्सुपः" २।४।८२ इति लुक्। एतद्धीदाद्यन्तं द्विवचननान्तं भवति प्रत्ययलक्षणेनेति। "तदन्तत्वे" इति अनेन तृतीयचतुर्थपक्षावुपलक्षयति। तदन्तत्वे तदन्तपक्षे तृतीये चतुर्थे च ज्ञापकं भवेदेतदर्थग्रहणम् इति। इह प्रगृह्रप्रकरणे प्रत्ययलोपलक्षणेन प्रगृह्रसञ्ज्ञा न भवतीति। यदि हि स्यादर्थग्रहणमनर्थकं स्यात्।एतावद् वक्तव्यम्- "ईदूतौ च सप्तमी" इति। सप्तम्या लुकि कृते प्रत्ययलक्षणेन सप्तमीसहचरितौ यावीदूतौ सप्तम्यां परतो वा यावीदूतौ तयोः प्रगृह्रसञ्ज्ञा भवेत्ये- तेति नार्थोऽर्थग्रहणेन। अर्थग्रहणाद्विज्ञायते- "प्रत्ययलक्षणेन प्रगृह्रसञ्ज्ञा न भवति" इति। तेन तदन्तपक्षद्वये यो दोषः उक्तः स न भवति। "मा वा पूर्वपदस्य भूत्" इति। पूर्वपदग्रहणे समास उपलक्ष्यते। यस्मात् समासे सत्येतद्भवति पूर्वपदमुत्तरपदमिति। तदेतदुक्तं भवति- वाप्य()आओ नद्यातिरित्यादौ समासे प्रगृह्रसञ्ज्ञा मा भूदित्येवमर्थमर्थग्रहणमिति। यथा च तस्मिन् सति समासे प्रगृह्रसञ्ज्ञा भवति, तथा पूर्वमेव प्रतिपादितम्।
बाल-मनोरमा
उञः १०७, १।१।१७

उञः। एकपदं सूत्रम्। शाकल्यस्य इतौ प्रगृह्रमिति चानुवर्तते। उ इति। ञिदुकारो निपातः। तस्येतिशब्दे परे शाकल्यमते प्रगृह्रसंज्ञा स्यादित्यर्थः। तदाह उञ इतौ वैति। पूर्वोक्तं=प्रगृह्रत्वमित्यर्थः। उ इति। वितीति। "निपात एका"जिति नित्यं प्राप्ते विकल्पोऽयम्। प्रगृह्रत्वपक्षे प्रकृतिभावे प्रथमं रूपम्। तदभावपक्षे यणादेशे द्वितीयं रूपम्।

बाल-मनोरमा
ऊँ १०८, १।१।१७

ऊँ। इदमप्येकपदं सूत्रम्। ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः। उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च। तदाह--उञ इताविति। ऊँ ईतीति। उक्तविधे ऊँकारादेशे रूपम्। प्रगृह्रत्वात्प्रकृतिभावः। एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सति "उ इती"ति रूपम्। प्रगृह्रत्वस्याप्यभावे सति यणादेशे "विती"ति रूपमिति त्रीणि रूपाणि फलितानि। तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ परे "ऊँ" इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात्। तदभावपक्षे तु "निपात एका"जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत। ततश्च "ऊँ इति " "उ इती"ति रूपद्वयमेव स्यात्, "विती"ति रूपं न लभ्येत। अतो विभज्य व्याख्यातम्।

तत्त्व-बोधिनी
उञः ८७, १।१।१७

उञः। "निपात एका"जिति नित्यं प्राप्ते विभाषेयम्। साक्स्यस्येतौ प्रगृह्रमिति चात्रानुवरत्ते, इत्यत आह--इतौ वा प्रागुक्तमिति। इह "उञ ऊँ" इत्येकमेव सूत्रं योगविभागेन व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ ऊँ शाक्लयस्येत्यर्थात् "ऊँइति " इत्येव रूपं शाकल्यमते सिध्यति। अन्येषां तु मते नित्यं प्रगृह्र इति उ-इतीत्येव रूपं सिध्यति, "विती"ति रूपं तु न सिध्यत्येवेति ज्ञेयम्।

तत्त्व-बोधिनी
ऊँ ८८, १।१।१७

ऊँ। अनुनासिक इति। तेनास्मिन् परे "यरोऽनुनासिके-" इति विकल्पः "यदेतनूँ इति पठसि" "यदेतदूँ" इति वा। एतदर्थमेवात्रानुनासिकग्रहणम्। अन्यथा "यरोञम्यनुनासिको वे"त्येवावक्ष्यत्। "यरो ञमि ञम्वे"त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्या "अम्मयं" "तन्ने"त्यादिसिद्धावपि "चिन्मयं" "एतन्मुरारि"रिति न सिध्येत्। "कृन्मेजन्तः" "ङमुण्नित्य"मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम्। वस्तुस्तु "यरोऽनुनासिके ञम्वे"त्येव सूत्रयितुं युक्तमित्याहुः।