पूर्वम्: १।१।२७
अनन्तरम्: १।१।२९
 
प्रथमावृत्तिः

सूत्रम्॥ न बहुव्रीहौ॥ १।१।२८

पदच्छेदः॥ ३१ बहुव्रीहौ ७।१ सर्वादीनि १।३ २६ सर्वनामानि १।३ २६

अर्थः॥

बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति।

उदाहरणम्॥

प्रियविश्वाय, प्रियोभयाय, द्व्यन्याय, त्र्यन्याय।
काशिका-वृत्तिः
न बहुव्रीहौ १।१।२९

सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद् बहुव्रीहेरपि सर्वाऽद्यन्तसय् संज्ञा स्यातिति प्रतिषेध आरभ्यते। बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। प्रियविश्वाय। प्रियोभ्याय। द्व्यन्याय। त्र्यन्याय। इह च, त्वत्कपितृकः, मत्कपितृकः इत्यकज् न भवति। बहुव्रीहौ इति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रे ऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तरवसनान्तराः इति।
न्यासः
न बहुव्रीहौ। , १।१।२८

"सर्वनामसंज्ञायाम्" इत्यादि। कथं पुरेतदवगतम्- अभ्युपगतस्तदन्तविधिरिति? अत एव प्रतिषेधात्, अन्यथा हि निष्फलः प्रतिषेधः स्यात्। तदन्तविध्यभ्युपगमे हि "परमसर्वस्मै उत्तमसर्वस्मै" इत्यत्रापि संज्ञा यथा स्यात्। "इह च" इत्यादि। अस्य "प्रतिषेध आरभ्यते" इत्यनेन सम्बन्धः। "त्वं पिताऽस्य, अहं पिताऽस्य" इति विगृह्र बहुव्रीहौ कृतेऽज्ञाताद्यर्थविवक्षायाम् असति प्रतिषेधे। "अव्ययसर्वनाम्नामकच् प्राक् टेः" ५।३।७१ इत्यत्राकच् प्रसज्येत। ततश्च "त्वकत्पित-कः, मकत्पितृकः" इत्यनिष्टं रूपं स्यात्। तस्मादकज् मा भूदिति प्रतिषेद आरभ्यते। तेन "प्रागिवात् कः" ५।३।७० इति क एव भवति। तत्र परतः "प्रत्ययोत्तरपदयोश्च" ७।२।९८ इति मपर्यन्त-र्योर्युष्मदस्मदोस्त्वमयोः कृतयोः "नद्यृतश्च" ५।४।१५३ इति समासान्ते कपि च "त्वत्कपितृकः, मत्कपितृकः" इति सिद्ध्यति। ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकज् न भविष्यति-न ह्रत्र सर्वार्थता सम्भवति, विशेषविषयत्वात्, नैतदस्ति; समुदायो हि विशेषे वत्र्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवत्वनयोरनन्तरयो-रुदाहरणयोरेतत्सूत्रविषयता, "प्रियि()आआय" इत्यादिस्तु नपपद्यते; न हि प्रियवि()आआदयः शब्दाः सर्वेषां नामानि नापि तदवयवभूतानां वि()आआदिशब्दानां किञ्चित् सर्वनामका- र्यममुपपद्यते; स्मैप्रभृतीनामङ्गकार्यत्वात्, वि()आआदिशब्दानां चानङ्गत्वात्? एवं मन्यते- "त्वत्कपितृकः, कत्कपितृकः" इत्यत्राकज् मा भूदिति, एतदर्थं तावदेतदार- ब्धव्यम्, "प्रियवि()आआय" इत्येवमादावपि विस्पष्टार्थं भविष्यतीति। अथ "बहुव्रीहौ" इति वत्र्तमाने किमर्थं पुनर्बहुव्रीहग्रहणमित्याह- "बहुव्रीहौ" इत्यादि। "वस्त्रान्तरवसनान्तराः" इति। वस्त्रमन्तरं येषामिति बहुव्रीहि कृत्वा वस्त्रान्तराश्च वसनान्तराश्चेति द्वन्द्वः कृतऋ। अत्र वत्र्तमा- नत्वाद् द्वन्द्वस्य "द्वन्द्वे च" १।१।६०, "विभाषा जसि" १।१।३१ इति द्वन्द्वा- श्रितो विभाषाप्रतिषेधः स्यात्, न नित्यो बहुव्रीह्राश्रितः। पुनर्बहुव्रीहिग्रहणा-त्तु भूतपूर्वस्यापि बहुव्रीहेराश्रयमात् तदाश्रयो नित्यः प्रतिषेधो भवति। वसनशब्द- श्चात्र वसत्यस्मिन्नित्यधिकरणसाधनो गृहे वत्र्तते, न वस्त्रे; अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पर्यायत्वाद् द्वन्द्वो न स्यात्, "तुल्यार्थाञ्च विरुपाणामेकशेषः" इत्येकशेषविधानात्।
बाल-मनोरमा
न बहुव्रीहौ २२०, १।१।२८

तत्रेदमारभ्यते--"न बहुव्रीहौ"। "सर्वादीनि सर्वनामानी"त्यनुवर्तते। बहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते। एवं सति सूत्रमिदं व्यर्थं, "प्रियसर्वाये"त्यादीनां बहुव्रीहिवर्तिनां सर्वादीनां स्वार्थोपसङ्क्रान्तार्थान्तप्रधानकतयोपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः, "संज्ञोपसर्जनीभूतास्तु न सर्वादयः" इति वक्ष्यटमाणत्वात्। अतो व्याचष्टे -- चिकीर्षित इति। बहुव्रीहाविति विषयसप्तम्याश्रयणादयमर्थो लभ्यते। तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोर्थवान्। एकार्थीभावात्मकसामथ्र्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याऽभावादिति भावः। अथ लौकिकविग्रहवाक्यं दर्शयल्लँक्ष्यभूतं बहुव्रीहिं दर्शयति--त्वकं पितेत्यादिना। सर्वनामत्वाऽभावात्कप्रत्यये "प्रत्ययोत्तरपदयोश्चे"ति त्वमादेशे त्वत्को मत्क इति च रूपम्। ननु बहुव्रीहिप्रवृत्तेः प्रागलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात्त्वं पितेति कथं लोकिकविग्रहवाक्यप्रदर्शनमित्यत आह--इहेति। "न बहुव्रीहा"वित्यस्मिन्सूत्र इत्यर्थः। प्रक्रियावाक्य इति। युष्मद् स्-पितृ स्, अस्मद् स्-पित#ऋ स्--इत्यलौकिकविग्रहवाक्य एवेत्यर्थः। लोकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वार्थे परिनिष्ठितत्वेन स्वतन्त्रप्रयोगाह्र्मतया बहुव्रीहेस्तत्र चिकीर्षितत्वाऽभावादलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात्। यथा चैतत्तथा समासनिरूपणे वक्ष्यते नन्वलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः()। तत्राह-अन्यथेति। न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाऽभावे सतीत्यर्थः। तत्रापीति। अलौकिकविग्रहवाक्येऽपीत्यर्थः।

नन्वलौकिकविग्रहवाक्ये भवत्कच्। सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाऽभावादित्यत आह--स चेति अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः। उभयत्रापि तन्नियमे दृष्टान्तद्वयमाह--अतिक्रान्तो भवकन्तमित्यादि। भवच्छबन्दस्य सर्वादिगणे पाठात्सर्वनामत्वादलौकिकविग्रहदशायामकच्। ततश्च भवकत् अम् अति इत्यलौकिकविग्रहवाक्यं संपद्यते। तत्र "अत्यादयः क्रान्ताद्यर्थे द्वितीयये"ति समासे सति "सुपो धातुप्रातिपदिकयो"रिति सुब्लुकि अतिभवकच्छब्दात्प्रथमैकवचने।ञतिभवकानिति रूपम्। समासाऽभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिकविग्रहवाक्यं भवति। तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्कान्तार्थान्तरप्रधानतयोपसर्जनत्वे।ञप्यलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात्सर्वनामत्वे सति प्रवृत्तोऽकच् अतिक्रान्तो भवकन्तमिति लौकिकविग्रहवाक्येऽभवकानिति समासे चानुवर्तते, लौकिकविग्रहदसायां भवच्छब्दस्योक्तरीत्याऽनुपसर्जनत्वात्। समासे तस्योपसर्जनत्वेऽपि योनिभूताऽलौकिकविग्रहदशायां प्रवृत्तस्याऽकचो निवर्तकाऽभावात्।

नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वादकृतव्यूहपरिभाषयाऽलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावादकज्दुर्लभः। ततश्चाऽतिक्रान्तो भवकन्तमिति लोकिकविग्रहवाक्येऽतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तऽसिद्धिरिति वाच्यम्। एवञ्जातीयकाऽलौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तावकृतव्यूहपरिभाषाया अनित्यत्वेनाऽनाप्रवृत्तेः। तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम्। तथा हि--यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृस् इत्याद्यलौकिकविग्रहवाक्येऽनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याऽप्रसक्तत्वात् "न बहुव्रीहा"विति नारभ्येत। अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेर्भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याऽप्रसक्तत्वान्न तन्निषेधाय न बहुव्रीहावित्यर्थवत्। नचोदाह्मतबहुव्रीहिविषयाऽसोकिकविग्रवाक्येऽकृतव्यूहपरिभाषामाश्रित्यैव सर्वनामत्वाऽभाव आश्रीयतां, किं न बहुव्रीहाविति सूत्रेणेति वाच्यम्। एवं सत्यतिक्रान्तो भवकन्तमतिभवकनित्यादि न सिध्येत्। अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादिलौकिकविग्रहवाक्येऽतिभवकानिति समासेऽपि च श्रवणं न स्यात्। एवञ्च बहुव्रीहिविषयेऽलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्यसिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्या सर्वनामत्वं विज्ञायते। एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः। प्रत्याचख्याविति। निराकृतवानित्यर्थः। सूत्रभाष्ययोरुभयोरपि स्मृतित्वाऽविशेषाद्विकल्पमाशङ्कयाह--यथोत्तरमिति। सूत्रकाराद्वार्तिककारस्य, उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं, पूर्वपूर्वस्याऽप्रामाण्यमिति वैयाकरणसमय इति भावः। न चाऽकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम्, अकृतव्यूहपरिभाषाया निमूर्लत्वस्य निष्फलत्वस्य च हलन्तादिकारे सेदिवस्शब्दनिरूपणे, "समर्थानां प्रथमाद्रे"त्यत्र च वक्ष्यमाणत्वात्। संज्ञोपसर्जनीभूता इति। आधुनिकसङ्केतः संज्ञा। अन्यविशेषणत्वेन स्वार्थोपस्थापकम्--उपसर्जनम्। न सर्वादय इति। सर्वादिगणे पठिता न भवन्तीत्यर्थः।

महासंज्ञेति। टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः। "प्राधान्येनोपस्थिते"त्यनेन उपसर्जनव्यावृत्तिः। "प्राधान्येनोपस्थितसर्वार्थवाचकत्व"मित्युक्ते पूर्वादिशब्देष्वव्याप्तिरतः-"स्वीये"ति। सर्वार्थे"त्यनेन संज्ञाशब्दव्यावृत्तिः, संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात्। संज्ञाकार्यमिति। सर्वनामसंज्ञाकार्यं शीस्मायादिकमित्यर्थः। अन्तर्गणेति। सर्वादिगणेऽन्तर्गतो गणः-अन्तर्गणः। तदीयं कार्यम् ="अद्ड्डतरादिभ्यः" त्यदादीनामः" इत्यादिकमित्यर्थः। सर्वाय देहीति। संज्ञाशब्दत्वात्समायादेशो न।

अतिकतरमिति। कतरमतिक्रान्तं कुलम् अतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाऽद्डादेशः। अतितदिति। तमतिक्रान्तो ब्राआहृणोऽतितदित्यत्र त्यदाद्यत्वं, "तदोः सः सौ" इति च न भवति।

तत्त्व-बोधिनी
न बहुव्रीहौ १८५, १।१।२८

न बहुव्रीहौ। कृते बहुव्रीहौ निषेधो व्यर्थः, "उपसर्जनीभूतास्तु न सर्वादयः" इति वक्ष्यमाणत्वात्। अत आहचिकीर्षित इति। "बहुव्रीहा"वित्यत्र विषयसप्तम्याश्रयणादयमर्थो लभ्यते। त्वकमिति। अज्ञाते कुत्सिते वा "अव्ययसर्वनाम्ना"मित्यकच्। एवमहकमित्यत्रापि। प्रक्रियावाक्ये इति। अलोकिकविग्रहवाक्ये इत्यर्थः। तच्च "युष्मद् सु पितृ सु" इत्याद्याकारकम्। ननु तत्राऽकच् प्रवर्ततां को दोष इत्यत आह--स चेति। न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वादकृतव्यूहपरिभाषया समासात्प्रागपि सर्वनामता न भविष्यतीति वाच्यं, तस्या अनित्यत्वात्। तत्र चूतत्सूत्रस्यैव ज्ञापकत्वात्। अतिभवकानिति। इदमेव ज्ञापनफलमिति भावः। "अत्यादयः क्रान्ताद्यर्थे द्वितीयये"ति प्रादिसमासः। प्रत्याचख्याविति। "छ्वोः शू"डिति सतुग्ग्रहणं, प्रकृतिप्रत्यापत्तिवचनं वा अनित्यत्वे ज्ञापकं, लक्ष्यानुरोधाच्च व्यवस्थेति भावः। यथोत्तरमिति। तथाच सम्प्रति भाष्यकारोतयैव व्यवस्थेति भावः। गणेसंनिवेशादिति। एतेन "पूर्वपरावरे"ति गणसूत्रे "असंज्ञाया"मिति ग्रहणं मन्दप्रयोजनमिति ध्वनितम्। संज्ञायां यानि पूर्वादीनि तेषां गणे संनिवेशाऽभावात्। एवमष्टाध्यायीस्थे "पूर्वपरावरे"ति सूत्रेऽपि "असंज्ञाया"मित्येतत्त्युक्तुं शक्यम्। न च तदभावे जसि परतः संज्ञायाम् "उत्तराः कुरव" इत्यत्राऽप्राप्तविकल्पः स्यांदिति वाच्यं, सर्वनामसंज्ञाया अन्वर्थत्वेन संज्ञायामप्राप्तविधेरसंभवादसंज्ञायामेव पूर्वेण प्राप्ता संज्ञा जसि वा स्यादिति वक्तुमुचितत्वात्। संज्ञाकार्यमिति। सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः। अन्तर्गणकार्यमिति। "अद्ड्डतरादिभ्यः,""त्यादादीनामः", "तदोः सः सौ" इत्यादिकमित्यर्थः। अतिकतरमिति। अत्राऽद्डादेशो न। "अतित"दित्यत्र तु त्यदाद्यत्वं, "तदो सः सौ" इति सत्वं च नेति भावः।