पूर्वम्: १।१।४६
अनन्तरम्: १।१।४८
 
प्रथमावृत्तिः

सूत्रम्॥ एच इग्घ्रस्वादेशे॥ १।१।४७

पदच्छेदः॥ एचः ६।१ एक् १।१ ह्रस्वादेशे ७।१

समासः॥

ह्रस्वस्य आदेशः ह्रस्वादेशः, षष्ठीतत्पुरूषः

अर्थः॥

एचः स्थाने ह्रस्वादेशे कर्त्तव्ये इक् एव भवति नान्यः।

उदाहरणम्॥

अतिरि कुलम्। अतिनु कुलम्। अपगु।
काशिका-वृत्तिः
एच इग्घ्रस्वाऽदेशे १।१।४८

एचो ह्रस्वाऽदेशे कर्तव्ये इकेव ह्रस्वो भवति, न अन्यः। रैअतिरि। नौअतिनु। गोउप गु। एचः इति किम्? अतिखट्वः। अतिमालः। ह्रस्वाऽदेशे इति किम्? दे३वदत्त। देवद३त्त।
लघु-सिद्धान्त-कौमुदी
एच इग्घ्रस्वादेशे २५१, १।१।४७

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। प्रद्यु। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ प्ररि। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ सुनु। सुनुनी। सुनूनि। सुनुनेत्यादि॥
लघु-सिद्धान्त-कौमुदी
इत्यजन्तनपुंसकलिङ्गाः। २५१, १।१।४७

लघु-सिद्धान्त-कौमुदी
अथ हलन्त पुंल्लिङ्गाः २५१, १।१।४७

न्यासः
एच इग्घ्रस्वादेशे। , १।१।४७

परिभाषेयमादेशनियमार्था "ह्यस्वो नपुंसके प्रातिपदिकस्य"१।२।४७ इत्यादावु-पतिष्ठते। इहेम् एचोऽवयवसमाहारवर्णाः। तत्र "ए ऐ" इत्येतयोः पूर्वो भागो वर्णसमा- नाकृतिर्मात्रात्मैव तालव्यः। अत एव "ए ऐ कण्ठ()तालव्यौ" (आ।शि। १७) इति शिक्षाकाराः पठन्ति; तदवयवोः कण्ठ()तालव्यत्वात्। "ओऔ" इत्येतयोः पूर्वो भागस्तादृश एव, यादृश एकारैकारयोः। उत्तरस्तूवर्णसमानाकृतिर्मात्रिक ओष्ठ्यः। अत एव "ओ औ कण्ठ()ओष्ठ्यौ" (आ।शि।१८) इति शिक्षाकाराः पठन्ति; तदवयवोः कण्ठ()ओष्ठ()त्वात्। तत्र समुदायात्मनामेचां समुदायान्तरतमो ह्यस्वो नास्तीति तदवयवस्य योऽन्तरतमः, तनैव युक्तं भवितुम्। स पुनरकारा इकार उकारो वा। तत्र एकारैकारयोह्र्यस्वो विधीयमानः कदाचिदकारः स्यात्,कदाचिदिकारः। ओकारौकारयोरपि कदाचिकारः स्यात्, कदाचिदुकारः। इकारोकारावेव यथायोगं यथा स्याताम्, कदाचिदप्यकारो मा भूदित्येवमर्थमिदमारभ्यते। अत्र यद्यप्येचामिकां साम्यम्, तथापि संख्यातानुदेशो न भवति, यस्मादन्नेदं विधायकम्, किं तर्हि? नियामकम्। प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमा इक एचो ह्यस्वास्तेषामनेन नियमः क्रियते। न च प्राप्तावृकारलृकाराविति कुतो यथासंख्य- त्वम्? यद्येवम्, इण्णित्येव वक्तव्यम्, न त्वगिति, सत्यमेतत्; किन्त्वेवमुच्यमाने सन्देहः स्यात्- किं पूर्वेण णकारेण प्रत्याहारः? उत परेण? इति; तस्मादसन्देहार्थमिगित्युक्तम्। "अतिरि, अतिनु" इति। रायमतिक्रान्तं, नावमतिक्रान्तं ब्राआहृणकुलम् "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" (वा।९१) इति "कुगति" २।२।१८ इत्या- दिना समासः, "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" २।४।२६ इति पुंल्लिङ्गे स्त्रीलिङ्गे च प्राप्ते "द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु तल्लिङ्गमेव भवति। "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वः। इक् कण्ठतालव्यस्यैकारस्य तालव्य इकारो भवति। कण्ठ()ओष्ठ()स्यौकारस्यौष्ठ() उकारः। "उपगु" इति। गोः समीपमिति। "अव्ययं विभक्ति" २।१।६ इत्यादिना सामीप्येऽव्ययीभावः। "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वः। कण्ठ()ओष्ठ()ओकार्सयौष्ठ() उकारः। एकारस्य तूदाहरणम्- हे इतीमं शब्दमतिक्रान्तं ब्राआहृणकुलमतिहि। "अततिखट्वः" इति। पूर्ववत् प्रादिसमासे कृते "गोस्त्रिरुपसर्जनस्क" १।२।४८ इत्येवमादिना ह्यस्वोऽकार एव भवत्यन्तरतमः। "दे३वदत्त" इति। अत्रामन्त्रित्सयादेरुदात्तादेशे कत्र्तव्ये "देवद३त्त" इत्यत्र च "गुरोरनृतोऽन्त्यस्य" ८।२।८६ इत्यादिना प्लुतादेशे कत्र्तव्य इङ न भवति॥
न्यासः
उपान्वध्याङ्वसः , १।१।४७

लुग्विकरणालुग्विकरणपरिभाषया (व्या।प।५०) "वस निवासे" (धा।पा।१००५) इत्यस्य भौवादिकस्य ग्रहणम्, न "वस आच्छादने" (धा।पा।१०२३) इत्यस्यादादिकस्य। "वसेरश्यर्थस्य" इत्यादि। "उपोष्य रजनीमेकाम्" इति, त्रिरात्रमुपवसतीत्यत्र च "कालाध्वनोः" २।३।५ इति द्वितीया। अथ वा "कालभावाध्वगन्तव्याः" (वा; म।भा।१।३३६) इति कर्मत्वे। अत्रार्थशब्दो निवृत्तिवचन इति भोजननिवृत्तिवाचिन इत्यर्थ-। "वक्तव्यम्" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इहाप्यन्यतरस्याग्रहणनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते; तेन वसेरश्यर्थस्य प्रतिषेधो भविष्यति॥
बाल-मनोरमा
एच इग्घ्रस्वादेशे ९४२, १।१।४७

अथ ओदन्ताः। प्रकृष्टा द्यौर्यस्येति बहुव्रीहौ प्रद्योशब्दस्य "ह्यस्वो नपुंसके" इति ह्यस्वः प्राप्नुवन्नेचो ह्यस्वाऽभावात्तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, लृ, इत्येतेषां ह्यस्वानामन्तरतमत्वाऽभावादन्तरस्थानसाम्याश्रयेण अवर्णादिषु यस्य कस्यचिदनियमेन पर्यायेण वा प्राप्ताविदमारभ्यते--एच इक्। आदिश्यते इत्यादेशः। कर्मणि घञ्। तस्य ह्यस्वपदेन सह कर्मधारयः विशेष्यस्यार्षः पूर्वनिपातः। आदेश इति निर्धारणसप्तमी। सौत्रमेकवचनम्। तदाह--आदिश्यमानेष्वित्यादिना। "मध्ये" इत्यपपाठः, तद्योगे षष्ठ()आ एवौचित्यात्। इगेवेति। तेन अकारव्यावृत्तिः फलतीति भावः। यद्यपीकश्चत्वारः, एचोऽप्येवं, तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति। न ह्रयमपूर्वविधिः, किन्तु नियमविधिः। यताप्राप्तमेव नियम्यते। एचां हि पूर्वभागोऽवर्णसदृशः। उत्तरभागस्तु इवर्णोवर्णसदृशः। तत्पर पूर्वभागसादृश्यमवर्णस्यास्ति। तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृस्यादोकारस्य औकारस्य च उवर्ण इति व्यवस्था न्यायप्राप्ता। यताप्राप्तमेव च नियम्यत इति न यतासङ्ख्यम्। ततश्च प्रद्योशब्दे ओकारस्य उकारो ह्यस्व इत्यभिप्रेत्योदाहरति--प्रद्यु इत्यादि। ननुं पुंनपुंसकयोः प्रकृष्टस्वर्गवत्त्वमेकमेव प्रवृत्तिनिमित्तमिति टादौ पुंवत्त्वविकल्पः कुतो नेत्यत आह--इह न पुंवदिति। कुत इत्यत आह--यदिगन्तमिति। प्रद्योशब्द ओदन्तः पुंसि। प्रद्युशब्दस्तु उदन्तो नपुंसके। तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाऽभावान्न पुंवत्वमित्यर्थः। केचित्तु पुंसि यः प्रद्योशब्द ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्यस्वान्तत्वेऽपि एकदेशविकृतस्याऽनन्यत्वात्, अतः पुंवत्वविकल्पोऽस्त्येवेत्याहुः। एवमग्रेऽपीति। प्ररि, सूवु इत्यादावपीत्यर्थः। इत्योदन्ताः। अथ ऐदन्ताः। एकारान्तस्योदाहरणं तु स्मृत इः कामो येन स स्मृतेः। सु=शोभनः स्मृतेर्यस्य तत् "सुस्मृति" इत्यादि बोध्यम्। प्ररीति। प्रकृष्टो रा=धनं यस्य इति बहुव्रीहौ प्ररैशब्दः। तस्य नपुंसकह्यस्वत्वेन इकारः। सुटि वारिवत्। सोर्लुप्तत्वात् "रायो हली"त्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रद्युशब्दवत्। भ्यामादौ हलि विशेषमाह--रायो हलीत्यात्वमिति। ननु रैशब्दस्य ऐदन्तस्य बिहितमात्वं कथमिदन्तस्येत्यत आह--एकदेशविकृकतस्यानन्यत्वादिति। आमि विशेषमाह--नुमचिरेति। नुटि "रायो हली"त्यात्वे प्रराणामित्यन्वयः। ननु प्ररि-आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वाद्धलादिविभक्त्यभावात्कथमात्वमित्यत आह--नुमचिरेति। पूर्वविप्रतिषेधान्नुमं बाधित्वा नुठ()आत्वं निर्बाधमिति भावः। संनिपातेति। ह्यस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वाऽसंभवादिति भावः। ननु तर्हि ह्यस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकं "नामी"ति दीर्घं प्रति कथं निमित्तत्वमित्यत आह--नामीति दीर्घस्त्विति। इत्युक्तमिति। "रामशब्दाधिकारे" इति शेषः। इत्यैदन्ताः। अथ औदन्ताः। सु=शोभना नौर्यस्येति विग्रहे बहुव्रीहौ "ह्यस्वो नपुंसके" इति ह्यस्व उकार इति मत्वाह--सुनु इति। इत्यौदन्ताः॥

*****इति बालमनोरमायामजन्ता नपुंसकलिङ्गाः*****

अथाऽलुक्समासप्रकरणम्।

------------------

तत्त्व-बोधिनी
एच इग्घ्रस्वादेशे ८१५, १।१।४७

एचः। आदिश्यत इत्यादेशः, ह्यस्वाश्चसावादेशश्च ह्यस्वादेशः। निर्धरणे सप्तमी, जातबेकवचनमतो व्यचष्टे-----आदिश्यमानेषु ह्यस्वेष्विति। एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशः, तत्रोभयान्तरतमस्य ह्यस्वस्याऽभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथाच मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह---इगेव स्यादिति। आन्तरतम्यादेकारोकारयोरिकारः। ओकारौकारयोस्तूकारः। एकान्तस्योदाहरणं तु हः स्मृतो येन स स्मृतेः। शोभनः स्मृतेर्यस्य तत् "सुस्मृती"त्यादि। एतच्च परिभाषासूत्रमपार्थकम्। तथाच वार्तिककृतोक्तं--"सिद्धमेडः सस्थानत्वात्," ऐचोश्चोत्तरभूयस्त्वा"दिति। अस्यार्थः--शब्दपरविप्रतिषेधेन एङौत्तरभादान्तरतमौ इउवर्णावेवेति सिद्धम्। "एचोश्चे"ति चकारो भिन्नक्रमः "उत्तरभूयस्त्वाच्चे"ति हेतोरन्तरं बोध्यः। अर्धमात्रा, अवर्णस्य, अध्यर्धमात्रा इवर्णोवर्णयोरित्युत्तरभागाधिक्यान्मल्लग्रामातदिवद्भूयसा व्यपदेशेनाऽपि इकारोकारौ भविष्यत इति। प्रद्युनेति। ननु प्रकृष्टस्वर्गवत्त्वादिकं यत्प्रवृत्तिनिमित्तं तत्पुंनपुंसकयोः समानमिति भाषितपुंस्कत्वात्पक्षे पुंवद्भावोऽत्र स्यादेवेत्याशङ्कायाम#आह----यदिगन्तमिति। एतच्च "रा दाने"इति धातौ "अत्र् ब्राआहृआणकुल"मिति प्रकम्यमाधवेन स्पष्टीकृतम्। कथं तर्हि प्राचा "प्रद्यवा""प्रराया""सुनावे"त्युदाह्मतमिति चेदत्राहुः--प्रकृष्टम्वर्गवत्त्वादिप्रवृत्तिनिमित्तैक्यात्सुद्योशब्दो भाषितपुंस्कः, स एवेदानीमिगन्तः। तथाच प्रद्युशब्दोऽपि भाषितपुंस्क एव, एकदेशविकृतस्यानन्यन्यत्वात्, अतः पुंवद्भावो भवतीति। इत्थं च पुंवद्भाव एजन्तेषु क्लीबेषु माधवमते नास्ति, मतान्तरे त्वस्तीति बोध्यम्। प्ररीति। प्रकृष्टो रा यस्य तत् "प्ररि"इति। शोभमा नौर्यस्य तत्--"सुनु"। इति तत्त्वबोधिन्याम् अजन्ता नपुंसकलिङ्गाः।