पूर्वम्: १।२।४७
अनन्तरम्: १।२।४९
 
प्रथमावृत्तिः

सूत्रम्॥ गोस्त्रियोरुपसर्जनस्य॥ १।२।४८

पदच्छेदः॥ गोस्त्रियोः ६।२ ४९ उपसर्जनस्य ६।१ ४९ ह्रस्वः १।१ ४७ प्रातिपदिकस्य ६।१ ४७

समासः॥

गोश्च स्त्री च, गोस्त्रियौ, तयोः गोस्त्रियोः, इतरेतरद्वन्द्वः॥

अर्थः॥

उपसर्जनगोशब्दान्तस्य प्रातिपदिकस्य, उपसर्जनस्त्रीप्रत्ययान्तान्तस्य च प्रातिपदिकस्य ह्रस्वः भवति॥ स्त्रीशब्दः {स्त्रियां (४।१।३)} इत्यधिकारात् टाप्, डाप्, चाप्, ङीप्, ङीन् स्त्रीप्रत्ययाः, न तु स्त्रीशब्दः॥

उदाहरणम्॥

गोशब्दान्तस्य -- चित्रगुः, शबलगुः। स्त्रीप्रत्ययान्तस्य -- निष्कौशाम्बिः, निर्वाराणसिः, अतिखट्वः, अतिमालः॥
काशिका-वृत्तिः
गोस्त्रियोरुपसर्जनस्य १।२।४८

प्रातिपदिकस्य इति वर्तते। गो इति स्वरूपग्रहणं स्त्री इति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर् विशेषणम्। गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्य उपसर्जनस्य इति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्य इति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः। ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः। बहुश्रेयसी। विद्यमानश्रेयसेई।
लघु-सिद्धान्त-कौमुदी
गोस्त्रियोरुपसर्जनस्य ९५५, १।२।४८

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया)। अवक्रुष्टः कोकिलया - अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)। परिग्लानोऽध्ययनाय पर्यध्ययनः। (निरादयः क्रान्ताद्यर्थे पञ्चम्या)। निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥
न्यासः
गोस्त्रियोरुपसर्जनस्य। , १।२।४८

"स्त्रीति स्त्रीप्रत्ययग्रहणम्" इति। अत्र हेतुमाह-- "स्वरितत्वात्" इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन "स्त्रियाम्" ४।१।३ इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह-- "गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य" इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह--"उपसर्जनगोशब्दान्तस्य" इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्यस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्रत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः। "चित्रगुः" इति। "प्रथमानिर्दिष्टम्" १।२।४३ इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु "एकविभक्ति चापूर्व" १।२।४४ इत्यादिना। "अतितन्त्रीः" इत्यादि। "तत्रि कुटुम्बधारणे" (धा।पा।१६७८), "इदितो नुम्" ७।१।५८, "अवितृस्तृतन्त्रीभ्यः" (द।उ।१।८२) इतीः- तन्त्रीः। "लक्ष दर्शनाङ्कनयोः" (धा।पा।त१५३८), "लक्षेर्मुट् च" (द।उ।१।८४) इति मुट् ईप्रत्ययश्च-- लक्ष्मीः। "श्रिञ् सेवायाम्" (धा।पा। ८९७), "क्विब वचिप्रच्छि"(वा।२८८) इत्यादिना क्विप्, दीर्घः- श्रीः। "अत्यादयः क्रान्त्याद्यर्थे द्वितीयया" (वा।९१) इति प्रादिसमासः। यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्रन्ते ततश्च "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य" (भो।सू।७) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्यस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् "वयसि प्रथमे" ४।१।२० इति ङीप्प्रत्ययो विहितः,किं तर्हि? कुमारशब्दात्, नैष दोषः; एषा परिभाषा "यस्मात्प्रत्ययविधिस्तदादि" १।४।१३ इत्यत्र सूत्रे प्रतिपादिता। तत्र च "वाऽ‌ऽमि १।४।५ इत्यतः "वा" ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा-- "कृत्तद्धितसमासाश्च" १।२।४६ इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्यस्वत्वं भविष्यतीत्यदोषः। "ईयसो बहुव्रीहौ प्रतिषेधः" इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते? " विभाषा च्छन्दसि" १।२।३६ इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्। "बहुश्रेयसी" इति। अतिशयेन प्रशस्येति "द्विवचनविभज्योपपदे तरबीयसुननौ" ५।३।५७ इतीयसुन्प्रत्ययः। "प्रशस्यस्य" ५।३।६० इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, "प्रकृत्यैकाच्" ६।४।१६३ इति प्रकृतिवद्भावः, "आद्गुणः" ६।१।८४, "उगितश्च" ४।१।६ इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति "नद्युतश्च" ५।४।१५३ इति कप् न भवति; "ईयसश्च" ५।४।१५६ इति कपो निषेधात्।
बाल-मनोरमा
गोस्त्रियोरुपसर्जनस्य ६४८, १।२।४८

प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति। पूर्वनिपातस्तु न भवतीति स्थितम्। गोस्त्रियोः। "ह्यस्वो नपुंसके प्रातिपदिकस्ये"त्यतो "ह्यस्व" इति "प्रातिपदिकस्ये"ति चानुवर्तते। उपसर्जनस्येति गोस्त्रिर्विशेषणम्। प्रत्येकाभिप्रायमेकवचनम्। स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते। प्रत्ययग्रहणपरिभाषया तदन्तविधिः। उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते। तदुभयं प्रातिपदिकस्य विशेषणम्। तेन तदन्तविधिः। तदाह--उपसर्जनमित्यादिना। अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात्। अव्ययीभावश्चेत्यव्ययत्वमिति।

तत्त्व-बोधिनी
गोस्त्रियोरुपसर्जनस्य ५७३, १।२।४८

गोस्त्रियोः। उपसर्जनस्येति गोस्त्रियोर्विशेषणम्। एकवचनं तु प्रत्येकाभिप्रायेण। गोस्त्रीभ्यां तु प्रातिपदिकं विशेष्यते। विशेषणेन तदन्तविधिरित्याशयेनाह--उपसर्जनंय इति। उपसर्जनमिह शास्त्रियं गृह्रते, न त्वप्रधानलक्षणम्। तेन कुमारीवाऽ‌ऽचरन्ब्राआहृणः कुमारीत्यत्र न दोष इत्युक्तम्। स्त्रीप्रत्ययान्तमिति। रुयधिकारोक्तटाबाद्यन्तमित्यर्थः। तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः। नन्वेवमपि "राजकुमारीपुत्र"इत्यादावतिप्रसङ्ग इति चेत्। अत्राहुः--उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदिकस्य ह्यस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदैव ह्यस्वत्वमिति भाष्यादावुक्तत्वान्न दोषः। भाष्यदावपि उत्तरपदभूतयोरित्यर्थलाभस्तु "कृत्तद्धिते"त्यतः समासपदानुवर्तनादिति बोध्यमिति।