पूर्वम्: १।१।५७
अनन्तरम्: १।१।५९
 
प्रथमावृत्तिः

सूत्रम्॥ द्विर्वचनेऽचि॥ १।१।५८

पदच्छेदः॥ द्विर्वचने ७।१ अचि ७।१ अचः ६।१ ५६ स्थानिवत् ५५ आदेशः १।१ ५५

समासः॥

द्विर्वचनं च द्विर्वचनं च इति द्विर्वचनं, तस्मिन् द्विर्वचने। {सरूपाणाम् (१।२।६४)} इति एकशेषः।

अर्थः॥

द्विर्वचन-निमित्ते अचि परतः अजादेशः स्थानिरूपः भवति, द्विर्वचने एव कर्त्तव्ये। रूपातिदेशः अयम्।

उदाहरणम्॥

पपतुः, पपुः। जग्मतुः, जग्मुः। चक्रतुः, चक्रुः। निनय निनाय। लुलव लुलाव। आटिटत्।
काशिका-वृत्तिः
द्विर्वचने ऽचि १।१।५९

द्विर्वचननिमित्ते ऽचि अजादेशः स्थानिवद् भवति , द्विर्वचन एव कर्तव्ये। रूपातिदेशश्च अयं नियतकालः। तेन कृते द्विर्वचने पुनरादेश रूपम् एव अवतिष्ठते। आल्लोपौपधालोपणिलोपयणयवायावादेशाः प्रयोजनम्। आल्लोपःपपतुः। पपुः। आतो लोप इटि च ६।४।६४ इति आकारलोपे कृते तस्य स्थानिवद्भावातेकाचो द्वे प्रथमस्य ६।१।१ इति द्विर्वचनं भवति। उपधालोपःजघ्नतुः। जघ्नुः। गमहनजनखनघसां लोपः क्ङित्यनङि ६।४।९८ इत्यौपधालोपे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति। णिलोपः आटिटत्। अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वादजादेर् द्वितीयस्य ६।१।२ इति टिशब्दस्य द्विर्वचनम् भवति। यण् चक्रतुः। चक्रुः। करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति। अयवायावादेशाः निनय, निनाय। लुलव, लुलाव। नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान् ने नै लो लौ इति द्विर्वचनं भवति। द्विर्वचने कऋतव्य इति किम्? जग्ले, मम्ले। श्रवणम् आकारस्य न भवति। द्विर्वचननिमित्ते इति किम्? दुद्यूषति। ऊठि यणादेशो न स्थानिवद् भवति। अचि इति किम्? जेघ्रीयते, देध्मीयते। ई घ्राध्मोः ७।४।३१ यङि च ७।४।३० इति ईकाराऽदेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान् न भवति।
लघु-सिद्धान्त-कौमुदी
द्विर्वचनेऽचि ४७६, १।१।५८

द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥
न्यासः
द्वर्वचनेऽचि। , १।१।५८

पूर्वं कार्यातिदेशः कृतः, इदानीं तु रूपातिदेशार्थमिदमारभ्यते। अथ वा निमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण द्विर्वचनविधिं प्रति प्रतिषेधः प्राप्तः इत्यस्यारम्भो वेदितव्यः। "द्विर्वचनेऽचि" १।१।५८ इति समानाधिकरणे सप्तम्यौ। तत्राज् विशेष्यः, द्विर्वचनं विशेषणम्। विशेषणविशेष्यभावस्य च प्रयोजनं "दुद्यूषति" इति प्रत्युदाहरण दर्शयिष्यते। कथं पुनरज् द्विर्वचनशब्देनोच्यते? द्वर्वचननिमित्तत्वात्। अत एव वृत्तावाह-- "द्विर्वचननिमित्तेऽचि" इति। भवति हि तन्निमित्तत्वात् ताच्छब्द्यम, यथा -- "आर्युर्घुतम्" इति। परसप्तमी चेयमपीति "यस्मिनन् विधिस्तदादावल्ग्रहणम्" (व्या।प।१२७) इति अजादाविति द्रष्टव्यम्। परस्मिन्निति च प्रकृत्वात् परस्मिन्नजादाविति गम्यते। अथ वा - द्वर्वचनस्य प्रत्ययविशेषनिमित्त्वाद् द्विर्वचनग्रहणेन प्रत्ययः सन्निधापितः, तेनाजादौ प्रत्यय इति प्रतीयते। यदि तह्र्रजादावजादेशः स्थानिवद्भवति, "पपौ" इति न सिध्यति, न ह्रजादावादेशः, किं तर्हि? अच्येव; इहापि व्यपदेशिवद्भावेना-जादित्वमस्तीत्यदोषः। इह तर्हि न सिध्यति-- "चक्रतुः" इति; अच्येव तु यणादेशो विधीयते, न त्वजादौ? नैष दोषः; यो ह्रत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव। यदि द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद्भवति सर्वस्यामवस्थायां द्विर्वचनादुत्तरकालमपि स्यादित्यत आह--"द्विर्वचन एव कत्र्तव्ये" इति। एवकारेण द्विर्वचन क्रिया- कालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति। कथं पुनरेतल्लभ्यते, यावतैकं द्विर्वचनग्रहणम्, तेन चाज् विशेषितः? एवं मन्यते-- द्वितीयमपि द्विर्वचनग्रहणमन- न्तरसूत्रादिहानुवत्र्तते। अथ वा- द्विर्वचनञ्चेत्येकशेषं कृत्वा "द्विर्वचने" इति निर्देशः कृतः। तत्रैकेन द्विर्वचनग्रहणेन "द्वर्वचननिमित्तेऽचि" इत्थेषोऽर्थो लभ्यते। द्वितीयेन तु "द्विर्वचन एव कत्र्तव्ये" इति। इह द्विर्वचने कत्र्तव्ये स्थानिवद्भावो विधीयते इत द्विर्वचनकार्यार्थं एवैष प्रतीयते। साच्कस्य द्विर्वचनं विधीयमानमनच्क- स्य न प्राप्नोति युज्यते द्विर्वचनकार्यार्थत्वमस्य। "द्वर्वचनकार्यार्थत्वमस्य। "द्विर्वचनकार्यार्थे त्वस्मिन् --"चक्रतुः,चक्रुः" इत्यत्रास्यानच्कस्य द्विर्वचने कृते सतीष्टमभ्यासरूपं न सिध्यति" इतिव्यामोहाद् यो मन्यते, तं प्रत्याह-- "रूपातिदेशश्चायम्" इति। "च" शब्दोऽवधारणे, रूपातिदेश एव, न कार्यातिदेश इत्यर्थः। कुतः पुनरेष निश्चयः-स "रूपातिधेशश्चायम्" इति? अज्ग्रहणात्। तस्य ह्रेतत् प्रयोजनम्-- "जेघ्रीयते देध्मीयते" इत्यत्र मा भूदिति। यदि चायं द्विर्वचनकार्यातिदेशः स्यान्न रूपातिदेशः; अज्ग्रहणमनर्थकं स्यात्। भवत्वत्र स्थानिवद्भावः, तथापि न कश्चि-द्विशेषः। तथा हि-- यद्यप्यत्र स्थानिवद्भावः, एवमपि द्विर्वचनकार्येण भवितव्यम्; अथापि न स्थानिवद्भावः, एवमपि भवितव्यम्--उभयत्रापि साच्कत्वात्, ततश्च कथमेतत् प्रत्युदाहरणम्? तदेतदज्ग्रहणं कथमर्थवद् भवति? यद्येष रुपादेशः ररूपेऽस्यातिदि- श्यमाने यद्यज्ग्रहणं न क्रियते तदिहापि रूपातिदेशे सति ध्रा इति, ध्मा इति च द्वि-र्वचनं स्यात्, तथाऽनिष्टमभ्यासरूपं प्रसज्येत। तस्मादज्ग्रहणाद् रूपातिदेशोऽय- मिति निश्चीयते। यद्येवम्, भेदनिबन्धनो वतिर्नं प्राप्नोति; स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः? आतिदेशिकानामतिदेशिकत्वेन रूपभेदस्य विवक्षितत्वाददोषः। "द्विर्वचन एव कत्र्तव्ये" इति यदुक्तं तस्यार्थं विस्पष्टीकर्तुमाह--"नियतकालः" इति। कृते द्विर्वचने इत्यादिना तदेव नियकालत्वं दर्शयति। "जघ्नतुः" इति। "अभ्यासाच्च" ७।३।५५ इति हकारस्य कुत्वम्। "आटिटत्" इति। अटतेर्हेतुमति णिच्; लुङ्, चङ, "चङि" ६।१।११ इति "अजादे- र्द्वितीयस्य" ६।१।२ इति द्विर्वचनम्। "आडजादीनाम्"६।४।७२ इत्याड् भवति। "निनय" इत्यादि। "णलुत्तमो वा" ७।१।९१ इति यदा णित्त्वं नास्ति तदा गुणः, यदा णित्वं तदा वृद्धिः। "जग्ले,मग्ले" इति। "ग्लै हर्षक्षये" (धा।पा। ९०४), "म्लै गात्रविनामे" (धा।पा।९०४) "आदेश उपदेशेऽशिति" ६।१।४४ इत्यात्त्वम्। भावे आत्मनेपदम्, "लिटस्तझयो-रेशिरेच्" ३।४।८१इत्येश्। "श्रवणमाकारस्य न भवति" इति। यदा कालावधिपरिग्रहार्थं द्विर्वचनग्रहणं न क्रियते, तदोत्तरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणमेव स्यात्। आतो लोपस्य तु गोद इत्येवमाद्यवकाशः। श्रूयमाणे चाकारे परेण सह वृद्धिः स्यात्। "दुद्युषति" इति। दिवेः "सनीवन्तर्ध" ७।२।४९ इत्यादिना यदा पक्ष इडागमो न क्रियते तदा "इको झल्" १।२।९ "हलन्ताच्च" १।२।१० इति कित्त्वम्, ततः "च्छ्वोः शूडनुनासिके च" ३।४।१९ इत्यूठ्। स च द्विर्वचननिमित्तं न भवति। तत्र यदि द्विर्वचननिमित्तत्वेन नाज् विशेष्यते, ऊठि परतो यो यणादेशस्तस्यापि स्थानिवद्भावः स्यात्। एवं चाभ्यासरूपमिवर्णान्तं श्रूयेत। द्विर्वचननिमित्तच्परिग्रहे तु "द्यु" इत्यस्य द्विर्वचनं भवति। तत्र हलादिशेषह्यस्वत्वयोर्दुद्यूषतीत्यभ्यासरूपमुकारा- न्तं सिध्यति॥
बाल-मनोरमा
द्विर्वचनेऽचि ८९, १।१।५८

द्विर्वचनेऽचि। द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं। द्वित्वनिमित्तमिति यावत्। अचीत्यस्य विशेषणमिदम्। "अचः परस्मिन्नित्यतोऽच इति, "स्थानिवदादेश" इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते। द्विर्वचन इत्यावर्तते। एवं च "द्वित्वे कर्तव्ये सती" त्यपि लभ्यते। तदाह--द्वित्वनिमित्तेऽचीत्यादिना। "द्वित्वे कर्तव्ये सती"त्युक्तेः कृते द्वित्वे "चक्रे" इत्यादौ यणादयो भवन्ति। अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात्। द्वित्वनिमित्त इति किम्?। दुद्यूषति। दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव। तथा च "द्यू" इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति। द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत। न तूकारः। "द्वित्वनिमित्ते" इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात्। अचीति किम्? । जेघ्रीयते। अत्र घ्राधातोर्यङि द्वित्वात्प्राक "ई घ्राध्मो"रितीकारादेशो न निषिध्यते। ईत्वस्य द्वित्वनिमित्त यङ्()निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात्। अचः किम्?। असूषुपत्। इह स्वापेश्चङि द्वित्वात्प्राक् "स्वापेश्चङी"तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात्। ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति। संप्रसारणे निषिद्दे तु "स्वप्" इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत। एवं च प्रकृते यणादेशात्प्राग् "लिटि धातो"रिति द्वित्वे कृ कृ ए इति स्थिते--।

तत्त्व-बोधिनी
द्विर्वचनेऽचि ७०, १।१।५८

अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते। यद्वा-- उच्यत इति वचनं, द्विः-- वचनं यस्मिन्नचि तद्द्विर्वचनम्। अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्। तदेतदाह-- द्वित्वनिमित्तेऽचीति। इह "अचः परस्मि"न्नित्यतोऽच इति, "स्थानिवदादेशः" इत्यस्मादादेश इति, "न पदान्ते"त्यतो नेति चानुवर्तते। तदाह-- अच आदेशो न स्यादिति। यद्यपीहि वृत्त्यादौ-- "अजादेशः स्थानिवत्स्या"दिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु। "प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वर"मिति न्यायात्। "न पदान्ते"ति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः।

इष्टानुरोदेन द्विर्वचन इत्यावर्त्त्य कालावधारणपरतयापि व्याचष्टे-- द्वित्वे कर्तव्ये इति। कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः। द्वित्वनिमित्ते किम्?। दुद्यूषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात्तदा दिद्यूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम्। नह्रूठ् द्वित्वनिमित्तम्। अचीति किम्?। जेघ्रीयते। देध्मीयते। शाशय्यते। इह "ई घ्राघ्मो"रिति ईकारः, "अयङ् यि क्ङिती"त्ययहादेशस्च निषिध्येत, स माभूदिति प्राञ्चः। अन्ये त्वाहुः-- अचीति व्यर्थं, घ्रीय्-ध्मीय्-शय्य् इति द्वितीयाऽजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमितत्वाऽभावादिति। अचः किम्?। असूषुपत्। इह "स्वापेश्चङी"ति यत्संप्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रूयेत्। न च द्वित्वे कृते "यून" इत्यत्रेव "न संप्रसारणे" इति पूर्वस्य यणः संप्रसारणनिषेधात्। स्यादेतत्--- चक्रतुरित्यत्र अच आदेशस्य निषेधाऽप्रवृत्त्या यण् स्यादेव। अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्याऽतथात्वात्। न च "द्विर्वचनेऽची"त्यस्य वैयथ्र्यं, चक्रे इत्यादौ सावकाशत्वात्। तथा चैकाच्त्वाऽभावात् "लिटि धातो"रितीह द्वित्वं न स्यादिति चेत्। मैवम्। इह द्वित्वनिमित्तशब्देनसाक्षाद्वा, समुदायघटकतया वा यद्द्वित्वप्रयोजकं, लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात्। एतच्च "ठस्येकः" इति सूत्रे कैयटे स्पष्टम्। तथा च ऊर्णोतेः सनि "सनीवन्ते"तीट् पक्षे "विभाषोर्णो"रिति ङित्त्वविरहे ऊर्णुनविषतीति सिद्धम्। सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन्परे प्राप्तयोर्गुणाऽवादेशयोर्द्वित्वे कर्तव्ये निषेधात्। अत एवाहुः--- "तद्भावबावितामात्रेणेह निमित्तत्व"मिति। एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुस अकारश्च द्वित्वनिमित्तमिति स्थितम्। नन्वेवम्, ऋदातोः सनि "स्मिपूङ्रञ्ज्वशां सनी"तीटि कृते इस्शब्दनिमित्तकस्य गुणस्य "द्विर्वचनेऽची"ति निषेधे "अजादेर्द्वितीयस्ये"ति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत्। रिस्()शब्दनिमित्तकस्य दित्वे तु यद्यपि सिध्यति तथापि गुणनिषेधे रिस्()शब्द एव दुर्लभ इति चेत्। अत्राहुः-- गुणे रपरे कृते निमित्ततयाऽ‌ऽश्रीयते, "स्थण्डिलाच्छयितरिव्रते" इति ज्ञापकात्। अन्यथा शीङो ङित्वेन "क्ङिति चे"ति गुणनिषेधाच्छयितरीति रूपस्याऽसिद्ध्यापत्तेः। न च "किति ङिति परे गुणवृद्धी ने"ति व्याख्यायमुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यं, तद्व्याख्यायां छिन्नं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्य "क्ङिति चे"ति सूत्र एवोपपादितत्वात्। न चैवं कार्यिणो निमित्तत्वाऽनाश्रयणे सन्नन्तस्य कार्यित्वातत्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादूर्णुनविषतीत्यपि न स्यादिति वाच्यं, मत्वर्थीयेनेनिना कार्यमनुभवत एवं कार्यित्वाऽलाभात्। ऊर्णोतेर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन्। अरिरिषतीत्यत्र तु रिस्()शब्दः कार्यभागिति वैषम्यादिति।