पूर्वम्: १।१।५३
अनन्तरम्: १।१।५५
 
प्रथमावृत्तिः

सूत्रम्॥ अनेकाल्शित्सर्वस्य॥ १।१।५४

पदच्छेदः॥ अनेकाल्-शित् १।१ सर्वस्य ६।१ षष्ठी १।१ ४८

समासः॥

एकः च असौ अल् च एकाल्, कर्मधारयतत्पुरुषः। न एकाल् अनेकाल्, नञ्तत्पुरुषः। श् इत् यस्य सः शित्, अनेकाल् च शित् च अनेकाल्-शित्, बहुव्रीहिगर्भः समाहार्द्वन्द्वः।

अर्थः॥

अनेकाल् शित् च यः आदेशः सः सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। {अलोऽन्त्यस्य (१।१।५१)} इति सूत्रस्य अपवादसूत्रम् इदम्।

उदाहरणम्॥

अनेकाल् - भविता्, भवितुम्, भवितव्यम्। पुरुषैः। शित् - कुण्डानि, वनानि।
काशिका-वृत्तिः
अनेकाल् शित् सर्वस्य १।१।५५

अनेकाल् य आदेशः शित् च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। अस्तेर् भूः २।४।५२भविता। भवितुम्। भवितव्यम्। शित् खल्वपि जश्शसोः शिः ७।१।२० कुण्डानि तिष्ठन्ति। कुण्डानि पस्य।
लघु-सिद्धान्त-कौमुदी
अनेकाल् शित्सर्वस्य ४५, १।१।५४

इति प्राप्ते॥
न्यासः
अनेकाल्शित्सर्वस्य। , १।१।५४

शितः शकारानुबन्धेनानेकाल्त्वेऽपि शिदिति पृथक्करणं "नानुबन्धकृतमनेकाल्त्वम्"(व्या।प।१४) इति ज्ञापनार्थम्। तस्य तु प्रयोजनम्-- "दिव उत्" ६।१।१२७ इत्या-दिषु सर्वादेशाभावः॥
बाल-मनोरमा
अनेकाल्शित्सर्वस्य ४७, १।१।५४

अनेकाल्शित्सर्वस्य। न एकोऽनेकः, अनेकोऽल् यस्य सोऽनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शिच्चेति समाहारद्वन्द्वः। स्पष्टमिति। अनुवर्तनीयपदान्तराऽभावादिति भावः। अस्तेर्भूरित्याद्युदाहरणम्। नन्वस्धातोर्भूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह-अलोऽन्त्यसूत्रापवाद इति। "अलोन्त्येति"ति सूत्रैकदेशानुकरणम्। अनुकरणत्वादेव नापशब्दः, अधिरी()आर इति सूत्रैकदेशस्य प्राग्री()आरान्निपाता इति ग्रहणाल्लिङ्गात्। स्यादेतत्। अष्टन्()शब्दाज्जसि शसि च "अष्टन आ विभक्ता"विति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारादष्टनः परयोर्जश्शसोर्विधीयमान औशादेशोऽलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः। अनेकाल्त्वाच्च सर्वादेशः प्राप्तः। एवम् "अतो भिस ऐ"सित्यादावपि। तत्र कतरच्छास्त्रं बाध्यं कतरच्च प्रवर्तत इत्यत्र किं विनिगमकम्रित्यत आह-अष्टाभ्य औशित्यादाविति। आदिना "अतो भिस ऐ"सित्यादिसंग्रहः। अष्टाभ्य औ" शित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यत इत्यन्वयः। अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथाऽलोऽन्त्यस्येति बाध्यते तथ#आऽष्टाभ्या औशित्यादावादेः परस्येत्येतदपि बाध्यत इत्यर्थः। नन्वस्तेर्भूरित्यादावलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शित्सर्वस्येति नापवादः। अस्तेर्भूरित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह-परत्वादिति। "विप्रतिषेधे परं कार्य"मिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भावः। "आदेः परस्ये"त्यस्यावकाशो "द्व्यन्तरुपसर्गेभ्योऽप ई"दित्यादिः। "अनेकाल्शित्सर्वस्ये"त्यस्यावकाशः-"अस्तेर्भूः""इदम इ"शित्यादिः। अतस्तुल्यबलत्वमुभयोः।

तत्त्व-बोधिनी
अनेकाल्शित्सर्वस्य ४०, १।१।५४

अनेकाल्। "अस्तेर्भूः"। बभूव। ननु "निर्दिश्यमानस्यादेशा भवन्ती"त्यनेकालादेशस्य सर्वादेशत्वं सिध्यति, तत्किमनेनाऽल्ग्रहणेन?। न च "अलोऽन्त्यस्येट"त्यन्त्यस्य स्यादिति शङ्कयम्, "ङिच्चे"त्यस्य नियमार्थत्वाभ्युपगमात्। उच्यते-अनेकाल्ग्रहणाऽभावे "रामै"रित्यादावैसादेशः "आदेः परस्ये"ति भकारस्यैव स्थाने स्यान्नतु सर्वस्य स्थाने इति दिक्। शित उदाहरणम्-"इदम इश्"-इतः। इत्यादाविति। आदिशब्देन "अतो भिस ऐ"सित्यादि गृह्रते। परत्वादिति। अत एव "आदेः परस्ये"ति पृथक्रियत इत्युक्तम्। ननु "अनेकाल्शित्सर्वस्ये"त्यतः प्रागेव "तस्मादित्युत्तरस्यादे"रिति पठ()तां किमनेन पृथक्()सूत्रकरणेन?। न चैवं "तस्मिन्निति निर्दिष्टे-" इत्यतो निदष्टग्रहणं नात्रानुवर्तेतेति वाच्यम्, तस्यापि सूत्रस्य प्राक् पठने बाधकाभावेन निर्दिष्टग्रहणाऽनुवृत्तिसिद्धेः। मैवम् "ब्राआहृणा अष्टौ" इत्यत्र अष्टाभ्यः पूर्वयोरपि जश्शसोरौश्प्रसङ्गात्। यथाश्रुतसूत्राभ्युपगमे तु "उत्तरस्ये"त्यंशः प्रवर्तत एवेति नायं दोषः प्रसज्यत इति। अत्र केचिन्निष्कर्षमाहुः-अनेकाल्शित्सूत्रात्प्रागेव वर्णलाघवाय "तस्मादित्युत्तरस्यादे"रिति सूत्रिते परत्वात्सर्वादेशेन आदेरित्यंशवदविशेषादुत्तरस्येत्यंशस्यापि बाधितत्वाद्वाक्यसंस्कारपक्षे ब्राआहृण अस् अष्टन् अस् इति स्थिते "अष्टाभ्य[औश्"] इत्यस्य दिग्योगे पञ्चमीत्वाव्द्याप्तिन्यायेनाऽष्टनोऽङ्गात्पूर्वयोरपि जश्शसोरौश्स्यात्। व्याप्तिन्यायस्तु "प्राग्वी()आरान्निपाता" इति पठितेऽपि प्रत्यासत्तिन्यायेन "अधिरी()आरे" इति सूत्रावधिकत्वसिद्धौ "ई()आरे तोसुन्कसुनौ" इति सूत्रावधिकत्वनिराकरणाय रेफविशिष्टग्रहणं कुर्वता सूत्रकृतैव ज्ञापितः। ततश्च सर्वादेशेन "उत्तरस्ये"त्यंशस्याऽबाधनार्थं, निर्दिष्टग्रहणानुवृत्त्यर्थं च "तस्मिन्निति-" इति सूत्रात्परस्य कृते तु "आदे"रित्यस्य सर्वादेशबाधकत्वं स्यात्। तथा च "अतो भिस ऐस्" इत्याद्यादेश आदेरेव स्यात्, अनेकाल्सूत्रस्य "अस्तेर्भू"रित्यादौ चरितार्थत्वात्। यथान्यासे तु "उत्तरस्ये"त्यंशः प्रवर्तत एवेत्यष्टाभ्यः परयोरेव जश्शसोरौश्स्यात्, न तु पूर्वयोः। तथा "तस्मादित्युत्तरस्यादे"रिति न सूत्रितमित्यादिमनोरमाग्रन्थस्याप्ययमेवाशय इति। अन्ये तु यथाश्रुतसूत्रनिराकरणपरतयैव मनोरमां योजयन्ति। तद्यथा-"न सूतिं()रत"मित्यस्य "अनेकाल्शित्सूत्रात्प्राङ् सूत्रित"मित#इ नार्थः। "आदे"रित्यंशस्य सर्वादेशबाधकत्वापत्तेरित्याद्यग्रिमग्रन्थविरोधात्, किंतु तद्ग्रन्थानुकूल्याय "स्वं रूप"मिति सूत्रात्प्राङ् सूत्रितमित्यर्थोऽभ्युपेयः। एवं च अनेकाल्सूत्रात्प्राक्सूत्रिते तु नास्त्येव दोष इति मनोरमाग्रन्थाशयः। एवं स्थिते निर्दिष्टग्रहणानुवृत्तिलाभाय "तस्मिन्निति निर्दिष्टे" इति सूत्रं "तस्मादित्युत्तकस्यादेः परस्ये"त्यस्मात्प्रागेव पठनीयम्। "अष्टनोऽङ्गात्पूर्वयोरप्यौश् स्या"दित्युक्तदोषस्तु इत्थं परिहरणीयः, "तस्मादित्युत्तरस्यादेः परस्ये"त्यत्र आदे"रिति पृथग्वाक्यम्। तत्र "उत्तरस्ये"त्यनुवर्तते। सा च स्थानषष्टी, "षष्ठी स्थाने" इत्यस्य प्राप्तेः। तत्र चायमर्थः-"पञ्चमीनिर्देशेन यत्कार्यं तदुत्तरसम्बन्धि" "उत्तरस्य स्थाने यद्विधीयते तदादेर्भवती"ति। इत्थं वाक्यभेदेन व्याख्यानाश्रयणादनन्तरस्येति न्यायेन "आदे"रित्यंश एव सर्वादेशेन बाध्यते, न तूत्तरस्येत्यंशोऽपीति नास्त्येव पूर्वोक्तदोषः। वाक्यभेदेन व्याख्यानं तु "उत्तरस्यादे"रित्यसमस्तन्यासकरणेन ज्ञाप्यते। अन्यथा "उत्तरादे"रिति न सूत्रित"मिति वदेत्। किंच "अष्

#आभ्य औ"शित्यस्य दिग्योगे पञ्मीत्वेन पूर्वपरसाधारणतया अष्टनोऽङ्गाज्जश्शसोरित्युक्तेऽप्यनोऽङ्गसंज्ञानिमित्तभूतौ यौ जश्शसौ तावेव शीघ्रपस्थितिकावित्यष्टञ्शब्दादुत्तरयोरेव औश् स्यात्, न तु पूर्वयोरिति दिक्॥