पूर्वम्: १।१।६४
अनन्तरम्: १।१।६६
 
प्रथमावृत्तिः

सूत्रम्॥ तस्मिन्निति निर्दिष्टे पूर्वस्य॥ १।१।६५

पदच्छेदः॥ तस्मिन् ७।१ इति निर्दिष्टे ७।१ ६६ पूर्वस्य ६।१

अर्थः॥

तस्मिन् इति सप्तम्या विभक्त्या निर्दिष्टे सति पूर्वस्य कार्यं भवति, अर्थात् सप्तम्यर्थ-निर्देशात् यः पूर्वः वर्णः तस्य कार्यं भवति। इहापि इतिकरणः अर्थनिर्देशार्थः, तेन तस्मिन्-इति पदेन सप्तम्यर्थः गृह्यते, न तु तस्मिन् इति शब्दः।

उदाहरणम्॥

दध्युदकम्, मध्विदम्, पचत्योदनम्।
काशिका-वृत्तिः
तस्मिन्निति निर्दिष्टे पूर्वस्य १।१।६६

तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नौत्तरस्य। इको यणचि ६।१।७४दध्युदकम्। मध्विदम्। पचत्योदनम्। निर्दिष्टग्रहणम् आनन्तर्यार्थम्। अग्निचिदत्र इति व्यवहितस्य मा भूत्।
लघु-सिद्धान्त-कौमुदी
तस्मिन्निति निर्दिष्टे पूर्वस्य १६, १।१।६५

सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥
न्यासः
तस्मिन्नित निर्दिष्टे पूर्वस्य। , १।१।६५

किमर्थमिदम्? "इको यणचि" ६।१।७४ इत्येवमादावचीत्येवमादेराधाराधेयभावः प्रत्यासत्तिनिबन्धनः, यथा -- गङ्गायां घोषः प्रतिवसतीति। अत्र गङ्गायाः सा च प्रत्यासत्तिर्यथा पूर्वमपेक्ष्य भवति, तथा परमपि। ततदश्च दध्युदकादिषु न ज्ञायते-- किं पूर्वस्येकः प्रत्यासत्तिभाजो यणादेशः, उत परस्येति। तत्र सन्देहेसति नियमार्थेयं परिभाषाऽ‌ऽरभ्यते। यद्येवं सन्देहविषय इयमारभ्यत इति यत्र सन्देहस्तत्रोपतिष्ठते, ततश्च दध्युदकमिति सिद्धं स्यात्; इदं तु न सिध्यति-- दध्यत्रेति। ननु च विनैव परि- भाषैतत् सिद्धम्, न ह्रत्र सन्देहोऽस्ति। इदं तर्हि न सिध्यति-- समिदत्रेति, अग्निचिदत्रेति। यदि हि यत्र सन्देहो नास्ति, तत्रैषा परिभाषा न स्यादिहानुपस्थानात्, व्यवधानेऽपि यणादेशः स्यादेव। तस्मादसन्देहविषयेऽप्येषा परिभाषा यथा भवति स यत्नःकत्र्तव्यः। एष क्रियते-- इह (तस्मिन्निति) "सप्तमीनिर्दिष्टे पूर्वस्य" १।१।६५ तावत् सूत्रं कत्र्तव्यम्; इयतैवाभिलषितार्थसिद्धेः। तत्राप्ययमर्थः-- स्वरूपग्रहणशङ्कां निराकर्तुमितिकरणो न कत्र्तव्यो भवति। न हि क्वचिच्छास्त्रं सप्तमीनिर्दिष्टः शब्दः श्रूयते, येन स्वरूपग्रहणमाशङ्क्येत। सोऽयमल्पेन सूत्रेण सिद्धे यन्महत् सूत्रं करोति तन्महाविषयेयं परिभाषेति। सूचनार्थम्। एवं च महाविषयेयं भवति यदि सर्वत्र-- सन्देहविषये, अन्यत्र च प्रवत्र्तते। स्यादेतत्-- "सप्तमीनिर्दिष्ट" इत्युच्यमाने सप्तम्या यद्यप्यधिकरणं निर्दि-श्यते, तथापि तस्याधेयप्रधानत्वात् "इको यणचि" ६।१।७४ इत्यत्राचि योल्व्यवस्थित-स्तस्मिन् यणादेशो विज्ञायते, ततश्चेहैव स्यात् दधि भुङ्क्त इति, इह तु न स्यात्-- दध्यत्रेति; यथान्यासे त्वेष दोषो नास्ति, तस्मात् महत् सूत्रं प्रणीतम्" इति, नैतदस्ति; यदयं "दाधाघ्वदाप्" १।२।२० इति निर्देशं करोति, तज्ज्ञापयति-- अधिकरण एव यणादेशादिकार्यं भवति, न त्वाधेय इति। अपि च-यथान्यासेऽप्यधिकरणस्यादेयप्रधानत्वादाधेय एव यणादेशादिकार्यं तेन सर्वत्रैषा परिभाषोपतिष्ठत इति सर्वमिष्टं सिद्धं भवति। इह "स्वं रूपं शब्दस्याशब्दसंज्ञा"१।१।६७ इति स्वरूपस्यैव ग्रहणेन भवितव्यम्। ततश्च यत्रैव तस्मिन्नित्येतत् पदमुच्चार्यते तत्रैवेयं परिभाषा स्यात् "तस्मिन्नणि च यष्माकास्माकौ" ४।३।२ इति। अस्ति ह्रत्र तस्याः परिभाषायाः परनिवृत्तिः प्रयोजनम्-- यौष्माकीणं युष्मभ्यं देहि, आस्माकीनमस्मभ्यं देहीति। युष्मभ्यं देहि यौष्माकीणम्, अस्मभ्यं देह्रास्माकीनमिति। "इको यणचि" ६।१।७४ इत्येवमादौ त्वेषा नोपतिष्ठते,इत्यत आह-- "तस्मिन्" इति। "सप्तम्यर्थनिर्देशे" इति। एवं मन्यते-- इतिकरणो ह्रत्र कृतः, स च स्वरूप- पदार्थकत्वं निरस्यार्थपदार्थकत्वं तस्मिन्नित्यस्य सम्पादयति, तेनार्थस्यैव ग्रहणं भवति। स त्वर्थोऽवश्यं येन केनचिचछब्देन निर्देष्टव्य इति नानार्थकत्वात् सामान्यवाचिना तस्मिन्नित्यनेन पदेन निर्दिष्ट इति। ननु च शब्दस्यार्थेन पौर्वापर्यं न सम्भवतीत्यर्थेनासम्भवात् तद्वाचिना शब्देन विज्ञास्यत इत्यदोषः। अत्रेदं चोद्यते-- अर्थस्य ग्रहणं यथा स्यात् स्वरूपस्य च ग्रहणं मा भूदित्येवमर्थमितिकरणः क्रियते, तच्च स्वरूपग्रहणम् "तस्मिन्नणि च युष्माकास्माकौ" ४।३।२ इति सूत्रेण सम्भाव्यते; यदि च स्वरूपग्रहणं स्यात्, तत्रैव पूर्वग्रहणं कुर्यात्, न च कृतम्; तसमादवगम्यते-- अन्तरेणापीतिकरणमर्थस्यैव ग्रहणं भविष्यति, न स्वरूपस्येति नार्थस्तेन?। स्तयमेतत्; ये तु मन्दवुद्ध्य एव प्रतिपत्तुमसमर्थास्तान् प्रति सुखावबधनार्थमितिकरणः क-तः। निर्दिष्टग्रहणमिदर्थस्य विशेषणम्। इह च शास्त्रे "इको यणचि" ६।१।७४ इत्यादिषु वाक्येषु यत्र सप्तम्यर्थोऽस्ति तत्रासौ निर्दिष्ट एव सर्वत्र। तदपार्थकं निर्दिष्टग्रहणविशेषणं व्यभिचाराभावादित्यत आह-- "निर्दिष्टग्रहणम्" इत्यादि। आनन्तर्यमव्यवधानमर्थो यस्य तत् तथोक्तम्। कथं पुनस्त-दानन्तर्यार्थं भवति? ततस्तत्प्रतीतेः। तथा हि दिशिरयमुच्चारणक्रियः, निःशब्दोऽ- प्ययमिह नैरन्तर्यं द्योतयति। तत्र निरन्तरं दिष्टः= निर्दिष्ट इति प्रादिसमासे कृते स्फुटमेनानन्तरमुच्चारितमिति प्रतीयते। किमर्थं पुनरानन्तर्यमाश्रितमित्यत आह-- अग्निचिदत्रेत्यादि। पूर्वशब्दोऽ-यं व्यवहितेऽपि वत्र्तते। तत्र यद्यानन्तर्य नाश्रीयते ततो व्यवहितेऽपि स्यादित्यभिप्रायः। ननु च "अचि" इत्यौपश्लेषिकमधिकरणं विज्ञायते, न च व्यवहितमुपश्लिष्टं भवति, तत् किमानन्तर्यार्थेन निर्दिष्टग्रहणेन? असदेतत्; असति हि निर्दिष्ट्()ग्रहणाउपश्लेषिकमधिकरणमेव न शक्यं विज्ञातुम्। यस्मात् पूर्वशब्दो व्यवहितेऽपि वत्र्तमानः परस्यैव निवृतिं()त करोति, न व्यवहितपूर्वस्यापि। निर्दिष्टग्रहणे तु सति, सप्तम्या औपश्लेषिकाधिकरणाभिधायिन्याः प्रत्यासत्तिरुपादीयते। सा च पूर्वग्रहणेन न निवर्त्त्यते, परनिवृत्तिरेव क्रियत इत्येषोऽर्थो लभ्यते। तेन व्यवहितस्य कार्यंन भवति। उत्तरार्थं च निर्दिष्टग्रहणं कत्र्तव्यमेव॥
बाल-मनोरमा
तस्मिन्निति निर्दिष्टे पूर्वस्य ४२, १।१।६५

तस्मिन्निति निर्दिष्टे। "इको यणची"त्यत्र अचि इको यण् स्यादित्यवगतम्। तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति। तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः। ततश्च "समिध"मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात्। तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः। ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात्। तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते। तस्मिन्निति न तच्छब्दः स्वरूपपरः। तथा सति "तस्मिन्नणि च युष्माकास्माकौ" इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ। किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्य "तस्मिन्नि"त्यनुकरणम्। "इती"त्यनन्तरं "गम्येऽर्थे" इति शेषः। निरिति नैरन्तर्ये। दिशिरुच्चारणे। एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः। व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम्। "इको यणची"त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयथ्र्यापातात्। एवं च ये संहिताधिकारबहिर्भूताः "आनङृतो द्वन्द्वे" "देवताद्वन्द्वे च" इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति। एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह--सप्तमीनिर्देशेनेत्यादिना।--इति सूत्राक्षरानुयायी पन्थाः। "अतिशयने तम"बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात्। नचैवमपि "कर्तृकर्मणोः कृती"त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु "कृतिः कृष्णस्य" "कर्ता जगत" इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति "श्नान्नलोप" इति सूत्रे भाष्ये प्रपञ्चितत्वात्। वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते।

तत्त्व-बोधिनी
तस्मिन्निति निर्दिष्टे पूर्वस्य ३६, १।१।६५

तस्मिन्निति। सप्तम्यन्तानुकरणमिदम्। "निःशब्दो नैरन्तर्यपरः। दिशिरुच्चारणक्रियः। "अचि य"णित्युक्ते व्यवहितेऽव्यवहिते च सति प्राप्तमव्यवहिते एवेति, पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति त नियम्यते। अव्यवहितस्येति तु फलितार्थकथनम्। पूर्वस्यैवेति किं?, दध्युदकम्। अत्रोकारस्य मा भूत्। अव्यवहितस्यैवेति किम्?, अग्निचिदत्र सोमसुदत्र। व्यवधानं चात्र वर्णकृतमेव निषिध्यते, नतु कालकृतम्। संहिताधिकाराज्ज्ञापकात्। अन्यथा निर्दिष्टग्रहणादेवाऽसंहितायां यणाद्यप्रसङ्गा()त्क तेन संहिताधिकारेण?। अतो व्याचष्टे-वर्णान्तरेणेति। एवं च संहिताधिकारबहिर्भूतविधयः कालव्यवायेपि संभवन्ति। तेनाग्नाविष्णू इत्यादाववग्रहेऽपि "अनाङृतो द्वन्द्वे" "देवताद्वन्द्वे चे"त्यादिना उत्तरपदे परतो विहिता आनङादयो भवन्तीति दिक्।