पूर्वम्: १।१।७
अनन्तरम्: १।१।९
 
प्रथमावृत्तिः

सूत्रम्॥ मुखनासिकावचनोऽनुनासिकः॥ १।१।८

पदच्छेदः॥ मुखनासिकावचनः १।१ अनुनासिकः १।१

समासः॥

मुखश्च नासिका च मुखनासिकम्, ईषद्वचनम् आवचनम्, मुखनासिकम् आवचनं यस्य, सः मुखनासिकावचनः, द्वन्द्वगर्भो बहुव्रीहिः॥

अर्थः॥

मुखनासिकम् आवचनं यस्य वर्णस्य सः अनुनासिकसंज्ञकः भवति॥

उदाहरणम्॥

अभ्र आँ अपः (ऋ॰ ५।५८।१॥ निरु॰ ५।५), चन आँ इन्द्रः। सुँ, पठँ, एधँ, ञिमिदाँ॥
काशिका-वृत्तिः
मुखनासिकावचनो ऽनुनासिकः १।१।८

मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सो ऽनुनासिकसंज्ञो भवति। आङो ऽनुनासिकश् छन्दसि ६।१।१२२। अभ्र आं अपः। गभीर आं उग्रपुत्रे। च न आं इन्द्रः। मुखग्रहनं किम्? अनुस्वारस्यैव हि स्यात्। नासिकाग्रहणं किम्? कचटतपानां मा भूत्। अनुनासिकप्रदेशाः आङो ऽनुनासिकश् छन्दसि ६।१।२६ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तुल्यास्यप्रयत्नं सवर्णम् १०, १।१।८

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
न्यासः
मुखनासिकावचनोऽनुनासिकः। , १।१।८

"मुखसहिता नासिका मुखनासिका" इत्यनेन मुखनासिकाशब्दोऽयं तत्पूरुषः, न द्वन्द्व इति दर्शयति। तत्()पुरुषस्तु मयूरव्यंसकादित्वाद्वेदितव्यः। यदि च मुखं च नासिका चेति द्वन्द्व स्यात्, प्राणितूर्यादिसूत्रेण २।४।२ एकवद्भावः स्यात्। ततश्च "स नपुंसकम्" २।४।१७ इति नपुंसकत्वं स्यात्। त()स्मश्च सति "ह्यस्वो नपुंसके प्रातिपदिकस्य"१।२।४७ इति ह्यस्वत्वं प्रसज्येतेति भावः। ननु चोच्यते- अनयेति करणे ल्युटि कृते, तदन्तात् "टिड्()ढाणञ्" ४।१।१५ इत्यादिना ङीपा भवितव्यम्, ततशच् तदन्तेन बहुव्रीहौ "मुखनासिकावचनः" इति निर्देशो नोपपद्यते? नैतदस्ति; वचनशब्दोऽयं "कृत्यल्युटो बहुलम्" ३।३।११३ इति बहुलवचनात् कर्मसाधनः- उच्यत इति वचनो वर्णे वर्तते, न नासिकायाम्। अत एवाह- "तया य उच्चार्यते" इति।" उच्चार्यते" इति कर्मणि लकारः। एवं कृत्वा "मुखनासिकावचनः" इति षष्ठीसमासोऽयं वेदितव्यः, न बहुव्रीहिः। "अनुस्वास्यैव" इति। अनुस्वारे ह्रुच्यमाने नासिकायाश्च व्यापारो न मुखस्य ; तेन तस्यैव स्यात्, न तु स्यात् ञमङणनानाम् ; नापि "अभ्र आँ अपः" (ऋ।५।४८।१) इत्यात्रार्धचन्द्राकृतेर्वर्णस्य; तदुच्चारणे मुखस्यापि व्यापारात्। ततश्च "यरोऽ नुनासिके " ८।४।४४ इत्येतस्मिन् कार्ये कत्र्तव्येऽनुस्वारस्यैव ग्रहणं स्यात्, न तु ङकारादीनामित्यभिप्रायः। ननु च प्रासादवासिन्यायेन तेषामपि भविष्यति? यथा "प्रासादवासिन आनीयन्ताम्" इत्युक्ते ये प्रासाद एव निवसन्ति, तेषामपि ग्रहणं भवति, येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि। यथा ह्रभय आनीयन्ते, तथेहापि "नासिकावचनः" इत्येतावत्युच्यमाने नासिकावचनस्यानुस्वारस्य मुखानसिकावचनानां च ङकारादीनां ग्रहणं भविष्यति,ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम्। एवं तु वक्तव्यम्- अनुस्वारस्यापि हि स्यादिति? नैतदस्ति; इह हि त्रीणि दर्शनानि सम्भवन्ति,-" समस्त एवानुनासिको वर्णओ नासिकावचनो मुखवचनश्च" इत्येकं दर्शनम्; " पूर्वभागस्त्वस्य मुखवचनः" इति तृतीयम्। उभयोरप्यनन्तरयोर्दर्शनयोर्नासिकामुखवचने भागे तथानुरागं करोति यथाऽसावपि नासिकावचनभाग इव लक्ष्यते। तत्र यदेतदनन्तरदर्शन- द्वयम्, तस्यान्यरत् पाणिनेरभिमतम्। न चास्मिन् प्रासादवासिन्याय एकत्राप्यवतरति। यदि हि ङकारादयो नासिकायोऽपि साकल्येनोच्चार्येरन्, मुखेनापि; ततः प्रासादवासि न्यायेन "नासिकावचनः" इत्येतावत्युक्ते तेषामपि ग्रहणं स्यात्। न चैवं भागस्यैव; तेषां नासिकया मुखेन चोच्चारणात्। तदसति मुखग्रहणे तेषां ग्रहणं न स्यात्, तदभावे च सञ्ज्ञा न स्यादिति युक्तमुक्तम्- अनुस्वनारस्यैव हि स्यात्" इति। "कचटतपानां मा भूत्" इति। एते हि ककारादयो मुखेनैवोच्चार्यन्ते, न नासिकया; ततश्चासति नासिका- ग्रहणे तेषामेव स्यात्। एवं च "शक्तः", "सुप्तम्" इत्यत्र "अनुदात्तोपदेशवनति" ६।४।३७ इत्यादिना लोपः प्रसज्येत, "ओदनपक्" इत्यत्र "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घत्वम्। अथ किमर्थं महती सञ्ज्ञा क्रियते? अनु पश्चान्नासिका व्याप्रियते यस्मिन्, अथ वा - अनु पश्चान्नासिकाया व्याप्रियते यस्मिन्, यद्वा- नासिकायाः पश्चात् व्याप्रियते? मुखस्य तु प्रकृतत्वात् तदेव गम्यते। तत्र ये ते द्वे दर्शने, ययोः पाणिनेरन्यतरदभीष्टम्, तयोः पूर्वस्मिन् नासिका मुखात् पश्चात् व्याप्रियते, उत्तरत्र मुखं नासिकायाः। अन्वर्थसञ्ज्ञाकरणं तु पूर्वोक्तयोर्दर्शनयोरन्यतराभ्युपगमसूचनार्थम्। तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुखग्रहणं ये प्रत्य- चक्षीरन्, तेषां निराकरणार्थम्।
बाल-मनोरमा
मुखनासिकावचनोऽनुनासिकः ११, १।१।८

तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽच इति स्थितम्। अथाऽनुनासिकसंज्ञामाह--मुखनासिका। मुखसहिता नासिका मुखनासिका। शाकपार्थिवादित्वात्सहितपदस्य लोपः। उच्यते उच्चार्यते इति वचनः। कर्मणि ल्युट्। मुखनासिकया वचन इति "कर्तृकरणे कृता बहुलम्" इति तृतीयासमासः। तदेतदाह--मुखसहितेत्यादिना। मुखं च नासिका चेति द्वन्द्वस्तु न। तथा सति "द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्" इति समाहारद्वन्द्वनियमात् "स नपुंसक"मिति नपुंसकत्वे "ह्यस्वो नपुंसके प्रातिपदिकस्य" इति ह्यस्वत्वे "मुखनासिकवचन" इत्यापत्तेः। ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः(), नेत्याह--तदित्थमिति। इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत्--इत्थं=वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः। अष्टादश भेदा इति। अष्टादश प्रकारा इत्यर्थः। दीर्घाभावादिति। तथा च उदात्तलृकारदीर्घः, अनुदात्तलृकारदीर्घः, स्वरितलृकारदीर्घः। ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्()भेदानामभावे सति ह्यस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः। लृकारस्य दीर्घाऽभावे होतृ लृकार इत्यत्र सवर्णदीर्घे कृते होतृ()कार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम्। ह्यस्वाभावादिति। यद्येचो ह्यस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ()एरन्, नतु दीर्घाः, गौरवात्। अत एचो ह्यस्वा न सन्तीति विज्ञायते। एवं च ह्यस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः।

तत्त्व-बोधिनी
मुखनासिकावचनोऽनुनासिकः ११, १।१।८

मुखनासिका। मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यादत आह-मुखसहितेति। नासिकयोच्चार्येति। फलितार्थकथनमिदम्। उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्यास्तीति विग्रहः॥