पूर्वम्: १।२।१८
अनन्तरम्: १।२।२०
 
प्रथमावृत्तिः

सूत्रम्॥ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः॥ १।२।१९

पदच्छेदः॥ निष्ठा १।१ २२ शीङ्स्विदिमिदिक्ष्विदिधृषः ५।१ १८ सेट् १।१ १८ कित् १।१

समासः॥

शीङ् च स्विदिश्च मिदिश्च क्ष्विदिश्च धृट् च, शीङ्॰धृट्, तस्मात् शीङ्॰धृषः, समाहारो द्वन्द्वः।

अर्थः॥

{शीङ् स्वप्ते (अदा॰ आ॰)}, {ञिष्विदा गात्रप्रक्षरणे (दिवा॰ प॰)}, {ञिमिदा स्नेहने (दिवा॰ प॰)}, {ञिक्ष्विदा स्नेहन-मोचनयोः (देवा॰ प॰)}, {ञिधृषा प्रागल्भ्ये (स्वा॰, प॰)}, इत्येतेभ्यः धातुभ्यः परः सेट् निष्ठाप्रत्ययः कित् न भवति।

उदाहरणम्॥

शयितः, शयितवान्, प्रस्वेदितः, प्रस्वेदितवान्, प्रमेदितः, प्रमेदितवान्, प्रक्ष्वेदितः, प्रक्ष्वेदितवान्, प्रधर्षितः, प्रधर्षितवान्।
काशिका-वृत्तिः
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः १।२।१९

न सेटिति वर्तते। शीङ् स्विदि मिदि क्ष्विदि धृषित्येतेभ्यः प्रो निष्ठाप्रत्ययः सेण् न किद् भवति। शयितह्, शयित्वान्। प्रस्वेदितः, प्रस्वेदितवान्। प्रमेदितः, प्रमेदितवान्। प्रक्ष्वेदितह्, प्रक्ष्वेदितवान्। प्रधर्षितः प्रधर्षितवान्। सेटित्येव स्विन्नः, स्विन्नवान्। स्विदादीनम् आदितश्च ७।२।१६ इति निष्ठायामिट् प्रतिषिध्यते। विभाषा भावाऽदिकर्मणोः ७।२।१७ इति पक्षे ऽभ्यनुज्ञायते स विषयः कित्त्वप्रतिषेधस्य।
न्यासः
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः। , १।२।१९

"शीङ स्वप्ने" (धा।पा।१०३२) , "ञिष्विदा गात्रप्रक्षरणे" (धा।पा।११८८), "ञिमिदा स्नेहने" (धा।पा।१२४३), "ञिक्ष्विदा स्नेहनमोचनयोः" (धा।पा।१२४४), "ञिधृषा प्रागल्भ्ये" (धा।पा।१२६९)। "शयिततवान्" इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "शयितः" इति। "गत्यथाकर्मक" ३।४।७२ इत्यादिना कर्तरि क्तः। "प्रस्वेदितः" इत्यादौ "आदिकर्मणि क्तः कर्तरि च" ३।४।७१ इत्यनेन प्रशब्द आदिकर्म = प्रारम्भं द्योतयति।"प्रधर्षितः" इति। वैयात्यादन्यत्रेदमुदाहरणम्। तत्र हि "धृषिशसीवैयात्ये" ७।२।१९ इतीट्प्रतिषेधेन भवितव्यम्। प्रकृतिग्रहणे यङलुको ग्रहणं स्मरति। अतो यङलुको "एरनेकाचः" ६।४।८२ इत्यादिना यणादेशः॥
बाल-मनोरमा
निष्ठा शीङ्?स्विदिमिदिक्ष्विदिधृषः ८५९, १।२।१९

निष्ठा शीङ्। "न क्त्वा से"डित्यतो न सेडित्यनुवर्तते। "असंयोगा"दित्यतः किदिति च। तदाह-- एभ्यः सेडिति। शीङिति ङकारस्य फलमाह-- अनुबन्धेति। यङ्? लुकि"श्तिपा शपे"ति निषेधार्थ इत्यर्थः। सेश्यितवानिति। अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः। आदिकर्मणि निष्ठा वक्तव्येति। दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म। तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः। तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः।

तत्त्व-बोधिनी
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ७०४, १।२।१९

शेश्यित इति। "एरनेकाचः" इति यण्।