पूर्वम्: १।२।४
अनन्तरम्: १।२।६
 
प्रथमावृत्तिः

सूत्रम्॥ असंयोगाल्लिट् कित्॥ १।२।५

पदच्छेदः॥ असंयोगात् ५।१ लिट् १।१ कित् १।१ २६ अपित् १।१

अर्थः॥

असंयोगान्तात् धातोः परः अपित् लिट् प्रत्ययः किद्वत् भवति।

उदाहरणम्॥

विभिदतुः, बिभिदुः। चिच्छिदतुः, चिच्छिदुः। ईजतुः, ईजुः।
काशिका-वृत्तिः
असंयोगाल् लिट् कित् १।२।५

अपितिति वर्तते। असंयोगान्ताद् धातोः परो लिट् प्रत्ययः अपित् किद् भवति। बिधिदतुः। बिभिदुः। चिच्छिदतुः। चिच्छिदुः। ईजतुः। ईजुः। असंयोगातिति किम्? संस्रसे। दध्वंसे। अपितित्येव। बिभेद।
लघु-सिद्धान्त-कौमुदी
असंयोगाल्लिट् कित् ४५४, १।२।५

असंयोगात्परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ ४॥ शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति॥
न्यासः
असंयोगाल्लिट् कित्। , १।२।५

धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामथ्र्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह-- "असंयोगान्ताद्धातोः" इति। यदि तह्र्रसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा "ववृते, ववृधे" इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः -- "ईजतुरीजुः" इति, गुणस्यावकाशः-- "वर्त्तित्वा, वर्धित्वा इति; "ववृते,ववृधे" इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः। अत्र च यदि "असंयोगात्" इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्रमाणे नञिवयुक्तन्यायेन (व्या।प।६५) सदृशस्यैव ग्रहणं स्यात्-- संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः "चक्रश्चक्रुः" इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः-- न चेत् संयोगात् यजादीनां किति" ६।१।१५ इति किति विधीयते, न ङिति। "बिभिदतुः, बिभिदुः" इति। कित्त्वात् "पुगन्तलघूपधस्य" ७।२।८६ इति गुणाभावः। "सस्त्रंसे, दध्वंसे" इति। कित्त्वाभावात् "अनिदिताम्" ६।४।२४ इत्यरनुनासिकल्लोपो न भवति। "स्त्रन्सु ध्वन्सु अधः पतने" (धा।पा। ७५४-७५५), अनुदात्तेत्वादात्मनेपदम्, "लिटस्तझयोरेशिरेच्" ३।४।८१ इत्येशादेशः। "बिभेदिथ" इति। सिप्,थल्, क्रादिनियमादिट्।
बाल-मनोरमा
असंयोगाल्लिट्कित् ८८, १।२।५

असंयोगाल्लिट्। अपिदिति। "सार्वधातुकमपि" दित्यस्तदनुवृत्तेरिति भावः। "सार्वधातुकमपि" दिति ङितत्वं तु नात्र प्रवर्तते, लिडादेशनामाद्र्धदातुकत्वादिति बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः।

तत्त्व-बोधिनी
असंयोगाल्लिट्कित् ६९, १।२।५

असंयोगादिति किम्?। ममन्थे। अत्र नलोपो न।