पूर्वम्: १।२।१
अनन्तरम्: १।२।३
 
प्रथमावृत्तिः

सूत्रम्॥ विज इट्॥ १।२।२

पदच्छेदः॥ विजः ५।१ इट् १।१ ङित् १।१

अर्थः॥

{ओविजी भयसञ्चलनयोः (तुदा॰ आ॰)} इत्येतस्मात् परः इडादिः प्रत्ययः ङिद्वत् भवति।

उदाहरणम्॥

अद्विजिता, उद्विजितुम्, उद्विजितव्यम्
काशिका-वृत्तिः
विज इट् १।२।२

ओविजी भयचलनयोः, अस्मात् परः इडादिः प्रत्ययो ङिद्वद् भवति। उद्विजिता। उद्विजितुम्। उद्विजितव्यम्। इटिति किम्? उद्वेजनम्। उद्वेजनीयम्।
लघु-सिद्धान्त-कौमुदी
विज इट् ६६८, १।२।२

विजेः पर इडादिप्रत्ययो ङिद्वत्। उद्विजिता॥
लघु-सिद्धान्त-कौमुदी
इति तुदादयः ६ ६६८, १।२।२

लघु-सिद्धान्त-कौमुदी
अथ रुधादयः ६६८, १।२।२

लघु-सिद्धान्त-कौमुदी
रुधिर् आवरणे १ ६६८, १।२।२

न्यासः
विज इट्। , १।२।२

"इडादिप्रत्ययः" इति। इट आदिर्यस्य तृजादेः स तथोक्तः।अथोत्त्मपुरुषस्यैकवचनस्येटो ग्रहणं कस्मान्न भवति, "सार्वधातुकमपित्" १।२।४ इत्यनेनैव तस्य कित्त्वस्य सिद्धत्वात्?नैतदस्ति,यत्र हि तेन न सिद्ध्यति तत्रोत्तमपुरुषस्यैककवचनस्य ङित्त्वविधानार्थमिड्()ग्रहणं स्यात्। क्व च तेन न सिद्ध्यति? आर्धुधातुक आशिषि लिङि-- "उद्विजिषीय" इत्यत्र। अतो युक्तं चोत्तमपुरुषस्यैकवचनस्य ग्रहणम् नागमस्य;"अर्थवद्()ग्रहणे नानर्थकस्य" (व्या।प।९), "प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्" (व्या।प।७२) इति परिभाषाद्वयात्। अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात्? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते, न तु तदादेः प्रत्ययस्य, तत्किमित्याह-- "इडादिप्रत्ययो ङिद्भवति " इति? एवं मन्यते--- "वद्धिर्यस्याचामादिः" १।१।७२ इत्यत आदिग्रहणमनुवत्र्तते, तेन चेड् विशिष्यते। न चोत्तमपुरुषस्यैकवचनस्यादित्वमस्ति, किं तर्हि? आगमस्यैव; तस्मात् स एव गृह्रते। तस्य च केवलस्यादिभूतस्य ङित्वे प्रयोजनं नास्तीति सामथ्र्यादिडादेः प्रत्ययस्य ङित्त्वं विज्ञायत इति। "उद्विजिता" इति। ङित्त्वात् "पुगन्तलघुपधस्य" ७।३।८६ इति गुणो न भवति।
बाल-मनोरमा
विज इट् ३६६, १।२।२

विज इट्। "गाङ्कुटादिभ्यः" इत्यतो ङिदित्यनुवर्तते। तदाह - विजेः पर इत्यादि। उद्विजिता। उद्विजिषीष्ट।उदविजिष्ट। व्रश्चधातुरूदित्त्वाद्वेट्। ग्रहिज्येति। लटि व्रश्च् अति इति स्थिते शस्याऽपित्त्वेन ङित्त्वात् "ग्रहिज्ये"ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः।तदाह - वृश्चतीति। वृश्चतः वृश्चन्तीत्यादि। वव्रश्चेति। णलि रूपमिदम्। थलि च प्रक्रिया अनुपदं वक्ष्यते। अतुसादौ संयोगात्परत्वेन कित्त्वाऽभावात् "ग्रहिज्ये"ति न संप्रसारणम्। तदाह -- वव्रश्चतुरिति। ऊदित्त्वात्थलि वेट्। तदाह -- वव्रश्चिथ वव्रष्ठेति। धातुपाठे "व्रश्चू" इत्यत्र व्रस् च् इति?सथिते सस्य श्चुत्वेन शकारनिर्देशः। तता च वव्रश्च् थ इति स्थिते श्चुत्वनस्याऽसिद्धत्वात् "स्कोः" इति सकारलोपे, चस्य "व्रश्चे"ति षत्वे, ष्टुत्वेन थस्यठत्वे, वव्रष्ठेतिरूपम्। वव्रश्चिव। ननु णलि थलि च अकितिद्वित्वे कृते "लिट()ब्यासस्ये"त्यब्यासावयवयोर्वकाररेफयोद्र्वयोरपि संप्रसारणं स्यात्। न च "न संप्रसारणे संप्रसारण"मिति वकारस्य संप्रसारणनिषेधः शङ्क्यः, पूर्वं वकारस्य संप्रसारणसंभवादित्यत आह-- लिट()भ्यासेति। "न संप्रसारणे" इति निषेधादेव ज्ञापक#आत्प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः। तस्यसंप्रसारणसंपन्नस्य ऋकारस्य अकारविधं स्मारयति - उरदिति। ननु ऋकारस्य अकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्ववविरहेण "न संप्रसारणे" इति निषेधाऽप्रवृत्तेरित्यत आह-- तस्य चेति। अकारस्येत्यर्थ-। न च उरदत्त्वस्य परिनिमित्तक्तवाऽश्रवणात्कथं स्थानिवत्त्वमिति वाच्यम्, "अपादपरिसमाप्तेरङ्गाधिकार" इत्यभ्युपगम्य अह्गाक्षिप्रत्ययनिमित्तकत्वाभ्युपगमात्। "लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति"रितिन्यायस्तु "न संप्रसारणे" इति निषेधादेव न स्थानिबेदे प्रवर्तत इति ज्ञायते। अत एव "सुद्ध्युपास्य" इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत्। आशीर्लिङ्याग - वृश्च्यादिति। कित्त्वात्संप्रसारणमिति भावः। अव्राक्षीदिति। अव्रश्च् सीत् इति स्थिते हलन्तलक्षणावृद्धिः। श्चुत्वस्याऽसिद्धत्वात् "स्कोः" इति सलोपः। "व्रश्चे"ति चस्य षः, तस्य "षढो"रिति कऋः, सस्य ष इति भावः। "नकारजावनुस्वरपञ्चमौ झलिधातुषु। सकारजः शकारः श्चे, र्षाट्टवर्गस्तवर्गजः। इत्याहुः। व्यच। सेट्। शे "ग्रहिज्ये"ति संप्रसारणं मत्वाह - विचतीति। वव्याचेति। "लिट()भ्यासस्ये"त्यभ्यासयकारस्य संप्रसारणम्। "न संप्रसारणे" इति न वकारस्य। विविचतुरिति। कित्त्वात् "ग्रहिज्ये"ति संप्रसारणे कृते द्वितवादीति भावः। विव्यचिथ। विविचिव। विच्यादिति। आशीर्लिङि कित्त्वाद्यकारस्य संप्रसारणम्। "अतो हलादे"रिति वृद्धिविकल्पं मत्वाह - अव्याचीत् अव्यचीदिति। ननु "व्यचेः कुटादित्वमनसी"ति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यतीत्यादावपि "गाङ्कुटादिभ्यः" इति ङित्त्वात् संप्रसारणं स्यादित्यत आह- व्यचेरिति। कृन्मात्रेति। अवधारणे मात्रशब्दः। "उछि उञ्छे" "उछी विवासे" इति भ्वादौ पठितौ। इह तयोः पाठस्तु शविकरणार्थः। तेन उञ्छती उञ्छन्ती, उच्छती उच्छन्ती इति "आच्छीनद्यो"रिति नुम्विकल्पः सिध्यति। भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः। ऋच्छ गतीति। "छे चे"ति तुकि तस्य शचुत्वेन चकानिर्देशः। ऋच्छति। णलि लघूपधत्वाऽभावाद्गुणे अप्राप्ते आह - ऋच्छत्यृ()तामिति। द्वित्वे उरदत्त्वे हलादिशेषे "अत आदे"रिति दीर्घे आ अच्र्छ इति स्थिते बहुहल्त्वाद्विहल्त्वाऽभावान्नुटि अप्राप्ते आह - द्विहल्ग्रहणस्येति। आनच्र्छेति।"इजादे"रित्यत्र "अनृच्छः" इति पर्युदासादाम्न। ऋच्छतेति। "ऋच्छत्यृ()ता"मित्यत्र लिटीत्यनुवृत्तेर्न गुण इति बावः। लुभधातुः सेट्। "तीषसहे"ति वेडिति मत्वाह- लोभिता लोब्धेति। शिशुं नेति। "नशब्द इवार्थे। विप्राः शिशुमिव मतिभिः रिहन्ति = हिंसन्तीत्यर्थः। तृपधातुः श्यन्विकरण एवाऽनिट्। अङपवादत्वादिति। अपवादस्य उत्सर्गसमानदेशत्वादिति भावः। चृती हिंसाश्रन्थनयोरिति। श्रन्थनं विरुआंसनम्। चृततीत्यादि सुगमम्। "अथास्य योकं विचृते"दित्या()आलायनः। विरुआंसयेदित्यर्थः , उपसर्गवशात्। "यजमानो मेखलं विचृतते" इत्यापस्तम्बसूत्रे तु तङ् आर्षः। षुरधातुः षोपदेशः। कुर शब्दे। करोतेरेवेति। व्याख्यानमेवाऽत्र शरणम्। वृहूधातुः ऋदुपधः। ऊदित्त्वाद्वेट्कः। पवर्गादिरिति। पवर्गतृतीयादिरित्यर्थः। तृहू स्तृहू तृंहू इति। त्रयोऽपि ऋकारवन्तः। तृतीयोऽनुस्वारवान्। उदित्त्वाद्वेट्। तर्ढेति। तृहेस्तासि ढत्वध्तवष्टुत्वढलोपाः। एवं स्तर्ढा। तृण्ढा। अतर्हीत् अतार्क्षीत्, अस्तर्हीत् अस्तार्क्षीदिति सिद्धवत्कृत्याह - अतृंहीत् - अतार्ङ्क्षीदिति। तृंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम्। हस्य ढः, ढस्य कः, षत्वम्। अनुस्वारस्य परसवर्णो ङकार इति भावः। अतार्ढामिति। तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढञलोपा इति भावः। एव [स्तृहेः-] अस्तार्ढाम् [तृंहः] अतार्ण्ढाम्। स्फुर स्फुरणे।

तत्त्व-बोधिनी
विज इट् ३२०, १।२।२

विज इट्। इह "वृद्धिर्यस्ये"ति सूत्रान्मण्डूकप्लुत्या यस्यादिरिति अनुवर्तते, तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम्। नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्रते, तथाच सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ। ततश्चेष्टसिद्ध्यर्थमिडागमो गृह्रते।तस्य तु ङित्त्वं व्यर्थम्, तन्निमित्तगुणस्याऽप्राप्तेः, अतो लक्षणया इड्वान् गृह्रते। इट् प्रत्ययस्यादिरिति। फलितार्थकथनम्--इडादिप्रत्ययो ङिद्वदिति। एंच इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः। इह ओविजीति तुदादी रुधादिश्च गृह्रते न तु "विजिर्पृथग्भावे" इति जुहोत्यादिः, व्याख्यानात्। यस्त्वत्र हरदत्तेन जुहोत्यादेरग्रहणे हेतुरुक्तः "तस्यानिट्कत्वा"दिति , तदयुक्तम्। क्रादिनियमनेन लिटि इट्संभवात्। न च तत्र कित्त्वेन गतार्थत्वादिटो ङित्त्वं व्यर्थमिति वाच्यम्, अपिल्लिटः कित्त्वेऽपि विवेजिथेत्यत्र पित्त्वेन ङित्त्वाऽभावात्। वव्रश्चेति। अत्र नव्याः-- "वव्रश्चे"त्यादौ "लिट()भ्यासस्ये" त्यभ्यासावयवयोद्र्वयोरपि यणोः संप्रसारणप्रसक्तौ पूर्वस्य यणो निषेधाय "न संप्रसारणे"इति सूत्रं स्वीक्रियते। ततश्च "अत एव ज्ञापकात्परस्य प्रथमं संप्रसारण"मिति परिकल्प्य "आ पादपरिसमाप्तेरङ्गाधिकार" इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकारात् "अचः परस्मि"न्निति स्थानिवद्भावप्रवृत्या संप्रसारणपरत्वामाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते। "परस्य संप्रसारणं", "परस्य यणः संप्रसारण" मिति वा सूत्रिते तु परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभादुक्तक्लेशं विनैव वव्रञ्च यून इत्यादि सर्वं सिध्यति। नचैवं "लिटि वयो यः" "वेञः" इत्यत्र संप्रसारणनिषेधाय नञोऽनुवृत्तिर्न लभ्येतेति वाच्यं, "न लिटि वयो यः" इति सूत्रकरणे बाधकाऽभावात्, "न संप्रसारणे"इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च। एवं च लघूपायेनेष्टसिद्धौ "न संप्रसारणे" इति सूत्रारम्भो ज्ञापयति "निमित्तभेदाऽभावेऽपि स्थानिभेदे पुनरपि कार्यं प्रवर्तते" इति। तथा च "सुद्ध्युपास्य" इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यानं सूत्रकाराभिप्रेतमेव। यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याऽप्रवृत्तिः क्वचिद्दृश्यते तत्र तु "ज्ञापकसिद्धं न सर्वत्रे"ति स दोषः परिह्यियतामित्याहुः। अव्रश्चीदिति। ऊदित्त्वात्पक्षे इट्। "वदव्रजे"ति वृद्धेः "नेटी"ति निषेधः। अब्राआक्षीदिति। "स्को" रिति सलोपः। "व्रश्चे"ति षः। "षढो"रिति कः। ततः सस्य षत्वम्। न चाऽत्र सकारस्य कथं लोप इति वाच्यं , धातुपाठे सकारस्य पाठात्। तदाहुः-- "नकारजावनुस्वारपञ्चौ झलि धातुषु। सकारजः शकारश्चे, र्षाट्टवर्गस्तवर्गजः"। इति। व्यच। व्याजीकरणं छद्मकरणम्। पर्युदासेनेति। प्रसज्यप्रतिषेधे हि वाक्यभेदोऽसमर्थसमासश्च प्रसज्येतेति भावः। कृन्मात्रविषयत्वादिति। तेन उद्विचिता उद्विचितुमित्यत्र संप्रसारणं भवति। व्यचिता व्यचिष्यतीत्यादौ तु तिङ्विषये न भवति। विव्याचेत्यत्र कुटादित्वे जातेऽपि न क्षतिः, गाङ्कुटादिभ्यः" इति सूत्रे "अञ्णितः प्रत्यया ङितः स्यु" रित्युक्तत्वात्। उत्तमे णलि तु णित्त्वाऽभावपक्षे ङित्त्वात्संप्रसारणे "विव्यचे"ति न सिध्येदिति-- "अनसी"ति पर्युदास आवश्यक इति बोद्ध्यम्। "उझछी उञ्छे उछी विवासे"। इमौ भ्वादिगणे व्याख्यातौ।इह पाठस्तु उञ्छनती, [उञ्छती,उच्छन्ती, उच्छती इ]त्यत्र "आच्छीनद्यो"रिति नुम्विकल्पार्थः। पूर्वं पाठस्तु स्वरार्थः। तथाहि उञ्छति उच्छतीत्यादौ पिद्वचने शप्तिबादीनां पित्त्वादनुदात्तत्व#ए धातुस्वरेणाद्युदात्तं पदम्। शे तु प्रत्ययस्वरेण मध्योदात्तमिति। न च "सति शिष्टस्वरेबलीयस्त्वमन्यत्र विकरणेभ्यः" इति वक्ष्यमाण्वात्कथमिह मध्योदात्ततेति वाच्यं, कुरुत इत्यादौ तसादेर्विकरणात्परत्वेन तत्स्वरस्योदात्तस्य विकरणस्वरापेक्षया प्रबलत्वेऽपि शस्य धातोः परत्वेन धातुस्वरापेक्षया शस्वरस्योदात्तस्य प्रबलत्वात्। उपलक्षणत्वादिति। अत एव "अदुपधस्य चेदश्नोतेरेवे"ति नियममाश्रित्य द्विहल्ग्रहणं भाष्यकारैः प्रत्याख्यातम्। अन्यथा तन्न सङ्गच्छेतेति भावः। आनच्र्छेति। "अनृच्छ" इति पर्युदासान्नाऽ‌ऽम्। नव्यास्तु "ऋच्छत्यृ()ता"मिति लिटिपरे गुणविधानसामथ्र्यादामभावः सिद्ध इति सर्वैरेव व्याख्यातत्वाद्गणान्तरेऽपि ऋच्छिरस्तीत्यनुमीयते। तद्धातोस्तु लिट()आम्निवारणाय "अनृच्छ" इत्येतदावश्यकमित्याहुः। मिच्छ। उत्कटः क्लेश उत्क्लेशः। ऋच स्तुतौ। ऋच्यते स्तूयते देवतादिकमनयेति ऋक्। बाहुलकादिह करणे क्विप्। लोभिता। लोब्धा। "तीषसहे"ति वेट्। शिशुं न विप्रा इति। न शब्द इवार्थे। विप्राः = ब्राआहृणाः शिशुमिव मतिभी रिहन्ति = हिंसन्ति। न्यूनीकुर्वनतीत्यर्थः। वृती हिंसाग्रन्थनयोः। ईदित्करणं "()आईदितो निष्ठाया"मितीण्निष#एधार्थम्। यद्यप्यस्य वेट्कत्वान्निष्टायामिण्निषेधः सिध्यति, तथापि "यस्य विभाषे"त्यस्याऽनित्यतां ज्ञापयितुमीदित्करणम्। तेन "धावितमिभराजधिये"त्यादि सिद्धमित्याहुः।

*शे तृम्फादीनां नुम्वाच्यः। कुर शब्दे। करोतेरेवेति। सुप्रसिद्धत्वात्। "कुर्यादित्युक्तं हि लोकानां कृञ एवोपस्थितिर्भवति न त्वस्येति भावः। मुर संवेष्टने। इगुपधलक्षणः कः। मुरो दैत्यः। मुरारिर्विष्णुः। क्षुर विलेखने। विलेखनं-- छेदनम्। "केशान् क्षुरति"। "इगुपधे"ति कः। क्षुरः शस्त्रम्। तिल स्नेहने। तिलति। "इगुपधे"ति कप्रत्यये तिलः। "तिल गतौ" तेलतीति शपि [गतम्] लिख अक्षरविन्यासे। "लिखितुं "लिखिष्यती"ति प्रयोगः प्रामादिकः। यत्तु कैश्चित्---कुटस्यादिः कुटादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्च कुटादयश्च कुटादय इत्येकशेषं स्वीकृत्य "लिखितु"मित्यादि समर्थितम्। तदसत्। "लेखिता" "लेखिष्यती"त्यादौ गुणनिषेधापत्तेः। न चेष्टापत्तिः, वृत्तिकारहरदत्तादिग्रन्थविरोधात्। "गाङ्()लिखादिभ्यः" इत्येव सूत्रितव्ये "कुटादिभ्य"इति पठनस्य स्वारस्यभङ्गापत्तेश्च। किं च "शकुनिष्वालेखने" इतिसौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत्। "लिखापयती"ति प्रयोगस्तु मनोरमायामित्थं समर्थितः--, आपनम् आपः = प्राप्तिः, लिखस्यापो लिखापः,तं करोतीति। स्फुट विकसने। स्फुट विकसने। स्फुटत्यर्थोऽस्मादिति स्फोटः। स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः। कड मदे। कुटादिकार्याऽभावेऽपि डान्तानुरोधेनाऽयं कुटादौ पठितः। भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुम्विकल्पार्थः। पूर्वंपाठस्तु उच्छतीत्यादाविव कडतीत्यादौ आद्युदात्तार्थः।