पूर्वम्: १।१।७४
अनन्तरम्: १।२।२
 
प्रथमावृत्तिः

सूत्रम्॥ गाङ्कुटादिभ्योऽञ्णिन्ङित्॥ १।२।१

पदच्छेदः॥ गाङ्कुटादिभ्यः ५।३ अञ्णित् १।१ ङित् १।१

समासः॥

कुटः आदिः येषां ते कुटादयः। गाङ् च कुटादयः च गाङ्कुटादयः, तेभ्यः ॰, बहुव्रीहिगर्भेतरद्वन्द्वः।
ञश्च णश्च ञ्णौ, इन्तरेतरद्वन्द्वः। ञ्णौ इतौ यस्य सः ञ्णित्, न ञ्णित् अञ्णित्, बहुव्रीहिगर्भः नञ्तत्पुरुषः।

अर्थः॥

गाङ्धातोः कुटादिभ्यश्च धातुभ्यः परे, ये ञित्-णित्-भिन्न-प्रत्ययाः, ते ङिद्वत् भवन्ति। गाङ् इत्यनेन इङादेशः गाङ् गृह्यते, यः {विभाषा लुङ्लृङोः (२।४।५०)} इत्यनेन सम्पद्यन्ते। कुटादयोऽपि (तुदा॰) कुट कौटिल्य इत्यारभ्य कुङ् शब्दे इति यावत् गृह्यन्ते।

उदाहरणम्॥

कुटिता, कुटितुम्, कुटितव्यम्। उत्पुटिता, उत्पुटितुम्, उत्पुटितव्यम्।
काशिका-वृत्तिः
गाङ्कुटादिभ्यो ऽञ्णिन्ङित् १।२।१

अतिदेशो ऽयम्। गाङिति इङादेशो र्ह्यते, न गाङ् गतौ इति, ङकारस्य अनन्यार्थत्वात्। कुटादयो ऽपि कुट कौटिल्ये इत्येत दारभ्य यावत् कुङ् शब्दे इति। एग्यो गाङ्कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद् भवन्ति इत्यर्थः। गाङः अध्यगीष्ट। अध्यगीषाताम्। अध्यगीषत। कुटादिभ्यःकुटिता। कुटितुम्। कुटितव्यम्। उत्पुटिता उत्पुटितुम्। उत्पुटितव्यम्। अञ्णितिति किम्? उत्कोटयति। उच्चुकोट। उत्कोटकः। उत्कोटो वतते। व्यचेः कुटादित्वमनसीति वक्तव्यम्। विचिता। विचितुम्। विचितव्यम्। अनसि इति किम्? उरुव्यचाः।
लघु-सिद्धान्त-कौमुदी
गाङ्कुटादिभ्योऽञ्णिन्ङित् ५९०, १।२।१

गाङादेशात्कृटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः॥
न्यासः
गाङ्कुटादिभ्योऽञ्णिन्ङित्। , १।२।१

अत्र पक्षत्रयं सम्भाव्यते-- इत्संज्ञको वा ङकारोऽनेन भाव्यते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, इत्संज्ञको ङकार एषां सम्बन्धी भवतीति यावत्; एवं हि ते ङितो भवन्ति यदि हि तेषां ङकारोऽनुबन्धो विधीयते, नान्यथा; न हि विना चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति। ङिदितीयं वा संज्ञाऽनेन क्रियते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङित्संज्ञका भवन्तीति यावत्। अतिदेशोऽयं वा स्यात्, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङिद्वद्()भवन्तीत्यर्थः। तत्राद्ये पक्षे "गाङकुटादिभ्यः" इत्यनया पञ्चम्याऽञ्णिदित्यस्याः प्रथमायाः षष्ठ()आं परिकल्पितायां सत्याम्। "आदेः परस्य" १।१।५३ इति वचनादादेरलः स्थान आदेश एव ङकारः प्राप्नोति। द्वितीये तु पक्षे "अनिदितां हल उपधायः क्ङिति " इत्यत्र संज्ञिनः संप्रत्ययो न स्यात्; शब्दभेदात्। अन्योहि ङिच्छब्दः, अन्यो हि क्ङिशब्दः। किञ्च, "ङिद्()ग्रहणे ग्रह्रादौ" ६।१।१६ सूत्र एषामेव संज्ञिनां ग्रहणं प्राप्नोति, न यङादीनाम् "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः" (व्या।प।६) इति वचनात्। अथापि कथञ्चिदेते दोषाः परिहर्तुं शक्येरन्, आद्ययोः पक्षयोर्यस्तु तत्परिहारद्वारेण प्रवृत्तौ साध्यायां प्रतिपत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। तृतीये तु पक्षे न कश्चिद् दोष इति मत्वा तमेवाश्रित्याह-- "अतिदेशोऽयम्िति। यद्येवम्, वतिना निर्देशः कत्र्तव्यः, अन्यथा तदर्थो नावगम्येत; नैतदेवम्, परपदार्थेषुहि प्रयुज्यमानाः शब्दावतिमन्तरेणापि वत्यर्थ गमयन्ति, यथा-- सिंहो माणवकः,गौर्वाहीकः। गाङितीङादेशो गृह्रते-- "इङश्च" २।४।४८, "गाङ लिटि" २।४।४९, विभाषा लुङ लृङो" २।४।५० इति। गाङादेशो य इङः स्थाने वक्ष्यते तस्येदं ग्रहणम्, न "गाङ गतौ" (धा।पा।९५०) इत्यस्य। अथ "गाङ गतौ" (धा।प।९५०) इत्यस्य धातोग्र्रहणं कस्मान्न भवतीत्याह--"ङकारस्य" इत्यादि।इङादेशस्य यो ङकारस्तस्येदं प्रयोजनम्--इह सूत्रे तस्यैव ग्रहणं यथा स्यान्नान्यत् किञ्चिदात्नेपदार्थ स्यादिति चेत्? न; आत्मनेपदस्य स्थानमिवद्भावेनैव सिद्धत्वात्। तस्मादिङादेश एव गृह्रते; अन्यथा ङकारस्य वैयथ्र्यं स्यात्। ननु चोभयोरपि सामान्यग्रहणार्थो ङकारः स्यात्, तत् कुतो वैयथ्र्यम्()नैतदस्त; यदि हि तौ समानौ स्यातां तदा सामान्यग्रहणार्थता तस्य, न च तौ समानौ; गत्यर्थस्य गाङो ङकारस्यात्मनेपदविधौ चिरार्थत्वात्। इतरस्य तु न क्विच्चरितार्थता। तस्मादसमानार्थत्वादयुक्तं सामान्यग्रहणमिति गाङादेश गृह्रते। किमर्थं पुनरिह उच्चार्यते, न गा इत्येवोच्येत? चैवं शक्यम्; एवं हि सति निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति "कै गै शब्दे" (धा।पा। ९१६-९१७) इत्यस्यैव ग्रहणं स्यात्। कुटादयो हि "कुट कौटिल्ये" (धा।पा।१३६६) इत्यत आरभ्य "कुङ शब्दे" (धा।पा।१४०१) इति यावदिति। तदनन्तरं वृत्करणात् ततोऽधिकानां कुटादित्वानुपपत्तेः। "अध्यगीष्ट" इति। सिचो ङित्त्वे घुमास्थागादि ६।४।६६ सूत्रेणेत्त्वम्। अत्र हि "दीङो युडचि क्ङिति" ६।४।६५ इत्यतः क्ङितीत्यनुवत्र्तते, "ईद् यति" ६।४।५ इत्यत ईदिति च। "अध्यगीषत" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। अथ लिटि यो गाङादेशस्तस्य कस्मादुदाहरणं न प्रदर्शितम्? एवं मन्यते-- लुङ एवायम्, नासाविह लिड्()ग्रहणं प्रयोजयति; "अंसयोगाल्लिट् कित्" १।२।५ इति वक्ष्यमाणेनैव सिद्धत्वात्। "उत्कुटिता" इति। "कुट कौटिल्ये" (धा।पा।१३६६)। "उत्पुटिता" इति। "पुट संश्लेषणे"(धा।पा।१३६७)। अथेहोच्चुकुटितषतीति सनो ङित्त्वादात्मनेपदं कस्मान्न भवति? उपदेशाधिकारात्। तत्र हि "उपदेशेऽजनुनासिकः" १।३।२ इत्यत उपदेशग्रहणमनुवत्र्तते। न चात्रौपदेशिकं ङित्त्वम्, किं तर्हि? आतिदेशिकम्। "व्यचेः" इत्यादि। "व्यच व्याजीकरणे"(धा।पा।१२९३) इति तुदादौ कुटादिभ्यः प्राक् पठ()ते। "विचिता" इति। ङित्त्वादिह ग्रह्रादिसूत्रेण ६।१।६ संप्रासरणम्। "उरुव्यचाः" इति। "सर्वधातुभ्योऽसुन्" (द।उ।९।४९) इत्यसुन्प्रत्ययः। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः।
बाल-मनोरमा
गाङ्कुटादिभ्योऽञ्णिन्ङित् २९२, १।२।१

गाङ्कुटादिभ्यो। ञ् च ण्च ञ्णौ,तौ इतौ यस्य स ञ्णित्,स न भवतीत्यञ्णित्। गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी। गाङिति ङकारानुबन्धात् "इणो गा लुङी"त्यस्य न ग्रहणमित्युक्तम्। नापि "गाङ्गतौ" इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात्। इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः। तदाह--गाङादेशादिति। एवं च सिचो ङित्त्वे आह--

तत्त्व-बोधिनी
गाङ्गुटादिभ्योऽञ्णिन्ङित् २५२, १।२।१

गाङ्कुटादिभ्यो। इह गाङ्गतावित्यस्य न ग्रहणम्, तङर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात्। आदेशङकारस्तु अचरितार्थः। स्थानिवद्भावेनैव तङः सिद्धत्वादत आह---- गाङादेशादिति। कुटादिस्तुदाद्यन्तर्गणः। केचित्तु कुट आदिर्येषां ते कुटादयः। कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहमाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः। तच्च "रलो व्युपधा"दिति सूत्रस्थेन "लिखित्वा, लखित्वा लिलिखिषति लिलेखिषती"ति वृत्तिग्रन्थेन, "शकुनिष्वालेखने" इति सौत्र प्रयोगेण च विरुध्यते। अञ्णिदिति किम्?। घञि-- कोटः। पोटः। णलि चुकोट। पुपोट।