प्रथमावृत्तिः
सूत्रम्॥
वञ्चिलुञ्च्यृतश्च॥ १।२।२४
पदच्छेदः॥
वञ्चिलुञ्च्यृतः ५।१ च ० वा ० २३ क्त्वा १।१ २२ न ० १८ सेट् १।१ १८ कित् १।१ ५
समासः॥
वञ्चिश्च लुञ्चिश्च ऋत् च, वञ्चिलुञ्च्यृत्, तस्मात् वञ्चिलुञ्च्यृतः, समाहारो द्वन्द्वः।
अर्थः॥
{वञ्चु प्रलम्भने (चुरा॰ अ॰)}, {लुञ्च अपनयने (भ्वा॰ प॰)}, {ऋत् सौत्रो धातुः घृणायाम्}, इत्येतेभ्यः धातुभ्यः परः सेट् क्त्वा वा न कित् भवति।
उदाहरणम्॥
वचित्वा, वञ्चित्वा। लुचित्वा, लुञ्चित्वा। ऋतित्वा, अर्तित्वा।
काशिका-वृत्तिः
वञ्चिलुञ्च्यृतश् च १।२।२४
वञ्चि लुञ्चि ऋतित्येतेभ्यः परः क्त्वा प्रत्ययः सेड् वा न किद् भ्वति। वचित्वा, वञ्चित्व। लुचित्वा,। उञ्चित्वा। ऋतित्व, अर्तित्वा। ऋतेरीयङ्
३।१।२९ आर्धधातुके विकल्पितः
३।१।३१। स यत्र पक्षे न अस्ति तत्रैदम् उदाहरणम्। सेटित्येव। वक्त्वा।
न्यासः
वञ्चिलुञ्च्यृतश्च , १।२।२४
"वन्चु प्रलम्भने" (धा।पा।१७०३), "लुन्च अपनयने" (धा।पा।१८७), "ऋत" इति
सौत्रौ धातुः, यत्र "ऋतेरीयङ"
३।१।२९ इतीयङ विहितः। "ऋतेरीयङ" आर्धधातुके
विकल्प्यते" इति। "आदाय आर्धधातुके वा"
३।१।३१ इत्यनेन। "वचित्वा" इति। "अनिदिताम्।
६।४।२४ इति नलोपः।
"वक्तवा" इति। "उदितो वा"
७।२।५६ इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्य
विकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात।
तत्त्व-बोधिनी
वञ्चिलुञ्च्यृतश्च १५९३, १।२।२४
वचित्वेति। वञ्चु प्रलम्भने। लुचित्वेति। लुञ्च अपनयने। ऋतित्वेति। ऋतिः सौत्रो दातुर्घृणार्थकः, तस्याद्र्धधातुकविषये "ऋतेरीय"ङित्यस्य वैकल्पिकत्वात्तदभाव कित्तवमनेन विकल्प्यते।