पूर्वम्: १।२।२९
अनन्तरम्: १।२।३१
 
प्रथमावृत्तिः

सूत्रम्॥ नीचैरनुदात्तः॥ १।२।३०

पदच्छेदः॥ नीचैः अनुदात्तः १।१ अच् १।१ २७

अर्थः॥

समाने स्थाने नीचभाग=अधोभागनिष्पन्नः यः अच्, सः अनुदात्तसंज्ञकः भवति। अत्रापि महाभाष्यकारः आह -- अन्ववसर्गो मार्दवमुरुता स्वस्येति नीचैः कराणि शब्दस्य -- इति। अन्ववसर्गः = गात्राणां शिथिलता। मार्दवं = स्वरस्य मृदुता स्निग्धता। उरुता खस्य = महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य।

उदाहरणम्॥

नम॑स्ते॒ दे॒व॒द॒त्त॒, त्व॒, सम॒, सिम॥
काशिका-वृत्तिः
नीचैरनुदात्तः १।२।३०

अचिति वर्तते। नीचैरुपलभ्यमानो यो ऽच् सो ऽनुदात्तसंज्ञो भवति। समाने स्थाने नीचभागे निष्पन्नो ऽचनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणाम् अन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्य उरुता महत्ता। त्व सम सिम इत्यनुच्चानि। नमस्ते रुद्र नीलकण्ठ सहस्राक्ष। अनुदात्तप्रदेशाः अनुदात्तौ सुप्पितौ ३।१।४ इत्येवम् आद्यः।
लघु-सिद्धान्त-कौमुदी
नीचैरनुदात्तः ७, १।२।३०

न्यासः
नीचैरनुदात्तः। , १।२।३०

अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति। शैथिल्यमित्यर्थः। मृदुतेत्यस्य विवरणं स्निग्धतेति। उरुतेत्यस्यापि महत्तेति। महत्त्वादेव कण्ठविवरस्य पुनः शीघ्रं वायुर्निष्क्रामन् गलावयवान्न शोषयतीति। अतः स्वरस्य स्निग्धता भवति। त्व-सम-सिम-नेमेत्यनुच्चानीति सर्वादिष्वेव पठ()न्ते। अनुच्चानि अनुच्चानि अनुदात्तानीत्यर्थः। "नमस्ते रुद्र" इत्यादि। तेशब्दः "तेमयावेकवचने" ८।१।२२ इति "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यधिकारादनुदात्तः। रुद्रादयोऽपि "आमन्त्रितस्य च" ८।१।१९ इत्यनेनाष्टमिकेन सर्वेऽनुदात्ता भवन्तीति।
बाल-मनोरमा
नीचैरनुदात्तः ८, १।२।३०

अनुदात्तसंज्ञामाह-नीचैरनुदात्तः। स्पष्टमिति उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यादिति स्पष्टार्थकमित्यर्थः। अर्वाङ्? इति। "अर्वाङ् यज्ञस्संक्राम" इत्यृचि आद्योऽकारोऽनुदात्त इत्यर्थः।

तत्त्व-बोधिनी
नीचैरनुदात्तः ९, १।२।३०

अर्वाङिति। अर्वन्तमञ्चतीति अर्वाङ्। "ऋत्विक्-" आदिना अञ्चतेः सुप्युपपदे क्विन्। "ऋ गतौ" इत्यस्मात् "स्नामद्रिपद्यर्ति" इत्यादिना वनिपि गुणे च निष्पन्नोऽर्वञ्छब्दो धातुस्वरेणाद्युदात्तः। वनिपः पित्त्वेनाऽनुदात्तत्वातच्। अञ्चतेरकारोऽपि धातुस्वरेण नित्स्वरेण वा उदात्तः। "उपपदमतिङ्" इति समासे कृते "समासस्य" इति स्वरेण तदपवादभूतेन "गतिकारकोपपदात्कृत्" इति कृदुत्तरपदप्रकृतिस्वरेण वा अञ्चतेरकार उदात्तः। वनो नलोपे सवर्णदीर्घे च कृते "एकादेश उदात्तेन" इत्याकार उदात्त इति "अनुदात्तं पदमेकवर्जम्" इति शेषनिघातादाद्योऽकारोऽत्रानुदात्तः। एतच्च संभवाभिप्रायेणोक्तम्। वेदभाष्ये तु "अर्वाङ्-अभिमुखः" इति स्थितम्।