पूर्वम्: १।२।३०
अनन्तरम्: १।२।३२
 
प्रथमावृत्तिः

सूत्रम्॥ समाहारः स्वरितः॥ १।२।३१

पदच्छेदः॥ समाहारः १।१ स्वरितः १।१ अच् १।१ २७

अर्थः॥

समाहारः इत्यत्र सम् आङ् पूर्वात् हृञ्-धातोः घञ्-प्रत्ययः, समाहरणं समाहारः, पश्चात् समाहारः अस्मिन् अस्ति इति समाहारः, {अर्श आदिभ्योऽच् (५।२।१२७)} इत्यनेन मत्वर्थीयोऽच् प्रत्ययः। उदात्तानुदात्तगुणयोः समाहारः यस्मिन् अचि सः अच् स्वरितसंज्ञकः भवति।

उदाहरणम्॥

क्वं, शि॒क्य॑म्, क॒न्या॑, सा॒म॒न्यः॑॥
काशिका-वृत्तिः
समाहारः स्वरितः १।२।३१

अचिति वर्तते। उदात्तनुदात्तस्वरसमाहारो यो ऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् च अत्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, ना ऽचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते। शिक्यम्। कन्या। सामन्यः। क्व। स्वरितप्रदेशाः तित् स्वरितम् ६।१।१६९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
समाहारः स्वरतिः ८, १।२।३१

स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥
न्यासः
समाहारः स्वरितः , १।२।३१

उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताः संज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह-- "सामथ्र्याच्च" इत्यादि। उच्यते चेदम्-- उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामथ्र्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्रेते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्यियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचि तयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। "समाह्यियेते यस्मिन्" इति ब्राउवताऽधिकरण साधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्यियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। "शिक्यम्" इति। "पूञो यण्णुग् ह्यस्वश्च" (द।उ।१६) इति यदिति वत्र्तमाने "श्रन्सेः शि कुट् किच्च" (द।उ।८१७) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। "कन्या" इति। "तिल्यशिक्यमत्र्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः" (फि।सू।४।७६) इत्यन्तः स्वरितम्। "सामान्यः" इति। सामनि साधुः। "तत्र साधुः" ४।४।९८ इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्"किमोऽत्" ५।३।१२ इत्यत्()प्रत्ययः। "क्वाति" ७।२।१०५ इति क्वादेशः॥