पूर्वम्: १।२।३४
अनन्तरम्: १।२।३६
 
प्रथमावृत्तिः

सूत्रम्॥ उच्चैस्तरां वा वषट्कारः॥ १।२।३५

पदच्छेदः॥ उच्चैस्तराम् १।१ वा वषट्कारः १।१ यज्ञकर्मणि ७।१ ? एकश्रुति १।१ ३३

अर्थः॥

उच्चैः इत्यनेन उदात्तः गृह्यते, अयम् उदात्तः अयम् उदातः अयम् अनयोः अतितराम् उदात्तः, उच्चैस्तराम्, {द्विवचनविभ॰ (५।३।४७)} इत्यनेन तरप्प्रत्ययः॥ यज्ञकर्मणि वषट्कारः मन्त्रः, उच्चैस्तराम् = उदात्ततरः विकल्पेन भवति, पक्षे एकश्रुतिः भवति। वषट्कारशब्देन अत्र वौषट्-शब्दः गृह्यते। यदि एवं वौषड्ग्रहणम् एव, कस्मात् न कृतम्? वैचित्र्यार्थम्। विचित्रा हि सूत्रस्य कृतिः पाणिनेः॥

उदाहरणम्॥

सोमस्याने वीही३ वौ३षट्। पक्षे एकश्रुतिः -- सोमस्याने वीही३ वौ३षट्॥
काशिका-वृत्तिः
उच्चैस्तरां वा वषट्कारः १।२।३५

यज्ञकर्मणि इति वर्तते। यज्ञकर्मणि वषट्कारः उच्चैस्तरां वा भवति एकश्रुतिर् वा। वषट्शब्देन अत्र वौषट् शब्दो लक्षयते। वौषटित्यस्यैवैदं स्वरविधानम्। यद्येवं वौषड्ग्रहणम् एव कस्मान् न कृतम्? वैचित्र्यार्थम्। विचित्र हि सूत्रस्य कृतिः पाणिनेः। सोमस्य अग्ने वीही३षट्। सोमस्य अग्ने वीही३ वौ३षट्।
न्यासः
उच्चैस्तरां वा वषट्कारः। , १।२।३५

"वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते"इति। समानाथ्र्वादित्यभिप्रायः। द्वावपि तौ देवानां दानवचनौ। यथा "वषट्" शब्देन देवानां दानं दीयते तथा वौषट्शब्देनापि। तस्मात् समानार्थत्वात् "वषट्" शब्दो "वौषट्" शब्दं लक्षयति। कारशब्दग्रहणमर्थपदार्थकत्वं विहाय शब्दपदार्थकत्वेन दानक्रियायामुपयुज्यमानस्य तस्योदात्ततरत्वं यथा स्यादित्येवमर्थम्। कारग्रहणे शब्दपदार्थतया दृष्टा, यथा एवकार इति। अन्ये कारग्रहणमन्यस्यापि यथा स्यादिति वर्णयन्ति। तेन "अस्तु श्रौषट्" इत्यत्रायमुदात्ततरो भवति। उच्चैस्तरामिति प्रकर्षप्रत्ययो वौषट्()शब्दे "ब्राऊहिप्रेष्यश्रौषडावहानामादेः" ८।२।९१ इति यः प्लुतो विहितस्तदपेक्षया वेदितव्यः; स ह्रुदात्तः, "याज्यान्तः" ८।२।९० इत्यनेन य उदात्तः प्लुतो विहितस्तदपेक्षया प्रकर्षस्य सत्त्वात्। अथ वा-- प्रकर्षप्रत्यान्तः स्वरूपशब्दान्तरमेवैतदिति। अपरे त्वाहु-- "अनुदात्तं पदमेकवर्जम्" ६।१।१५२ इति वचनेन प्लुतश्चोदात्तः। अन्यस्त्वनुदात्ततर इति।