पूर्वम्: १।२।४४
अनन्तरम्: १।२।४६
 
प्रथमावृत्तिः

सूत्रम्॥ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्॥ १।२।४५

पदच्छेदः॥ अर्थवत् १।१ अधातुः १।१ अप्रत्ययः १।१ प्रातिपदिकम् १।१

समासः॥

न धातुः, अधातुः, नञ्तत्पुरुषः।
न प्रत्ययः, अप्रत्ययः, नञ्तत्पुरुषः।

अर्थः॥

अर्थः अस्य अस्ति इति अर्थवत्, {तदस्यास्त्य्॰ (५।२।९४)} इति मतुप्प्रत्ययः।
अर्थवत्, शब्दरूपं प्रातिपदिकसंज्ञं भवति, धातुं प्रत्ययं च वर्जयित्वा।

उदाहरणम्॥

पुरुषः, डित्थः, कपित्थः, कुण्डम्, पीठम्
काशिका-वृत्तिः
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १।२।४५

अभिधेयवचनो ऽर्थशब्दः। अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा। डित्थः। कपित्थः। कुण्डम्। पीठम्। अर्थवतिति किम्? वनम्, धनम् इति न अन्तस्य अवधेर् मा भूत्। नलोपो हि स्यात्। अधातुः इति किम्? हन्तेर् लङ्। अहन्। अलोपः स्यत्। अप्रत्ययः इति किम्? काण्डे। कुड्ये। ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७ इति ह्रस्वः स्यात्। अनर्थकस्य अपि निपातस्य प्रातिपदिकसंज्ञा इष्यते। अध्यागच्छति। प्रलम्बते। प्रातिपदिकप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७ इत्येवम् आद्यः।
लघु-सिद्धान्त-कौमुदी
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ११६, १।२।४५

धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥
न्यासः
अर्थवदगधातुरप्रत्ययः प्रातिपदिकम्। , १।२।४५

"अभिधेयवचनोऽयमर्थशब्दः" इति। एतेन प्रयोजनादिवचनाद्वयवच्छिनत्ति। अर्थशब्दो हि प्रयोजनवचनोऽप्यस्ति, यथा-- अनेनार्थनागतः, अनेन प्रयोजनेनेति गम्यते। निवृत्तिवचनोऽप्यस्सि, यथा-- मशकारर्थो धूम इति, मशकनिवृत्त्यर्थ इति गम्यते। धनवचनोऽप्यस्ति,यथा--अर्थवान् देवदत्त इति, धनवानिति गम्यते। अभिधेयवचनोऽप्यस्ति, यथा-- अस्य वचनस्यायमर्थ इति, इदमस्याभिधेयमिति गम्यते। इह त्वभिधेयवचनस्यैव ग्रहणम्। तत् पुनरभिधेयं जातिगुणक्रियाद्रव्यभेदेन चतुर्विधम्।अत एव चतुष्टयी शब्दानां प्रवृत्तिर्भवति। तत्र जातिशब्दानां जातिरभिधेया-- गौरिति। यद्यर्थवतः प्रातिपदिकसंज्ञा विधीयते तदाऽभाववचनशशविषाणादिशब्दानां प्रातिपदिकसंज्ञा नोपपद्यते, अर्थाभावात्, नैतदस्ति; "अर्थशब्दोऽभिधेयवचनः" (का।१।२।४५) इत्युक्तम्, अभावोऽप्यभिधेयो भवत्येव। अन्यथा ह्रर्थाभावादितीदं वचनमनुच्चारणीयं स्यात्, अनर्थकत्वात्, न ह्रनर्थकं वचनं प्रयोगर्हति। तस्मादबाववचनानामपि प्रातिपदिकसंज्ञा भवत्येव। "नान्तस्याधेर्मा भूत्" इति। ननु चाधातुरिति प्रतिषेधो भविष्यति, तथा हि "वन सम्भ्कतौ" (धा।पा।४६३), "धन धान्ये" (धा।पा।११०४) इत्येतयोः धरात्वोरेते रूपे, नैतदस्ति; अव्युत्पन्नावपि वनधनशब्दौ स्तः, तयोरेवायं प्रयोगः। अत्र यदि नान्तस्यावधेः प्रातिपदिकसंज्ञा स्यात् तदा सुबुत्पत्तिः स्यात्, ततश्च पदसंज्ञायां सत्यां नलोपः स्यात्। ननु च "अधातुः" "अप्रत्ययः"-- नैतदस्ति; अनर्थकस्यापि धातोर्विद्यमानत्वात् यथा-- "इङ अध्ययने" (धा।पा।१०४६), "इक् स्मरणे" (धा।पा।१०४७) इति-- एतयोरधिपूर्वयोरेवार्थवत्त्वम्, न केवलयोः। यस्तु गणपाठेऽनयोरर्थनिर्देशः, स समुदायार्थमवयवेऽध्यारोप्य कृत इति वेदितव्यम्। अध्यारोपितार्थयोरपि तयोर्गणपाठसामथ्र्याद्धातुसंज्ञा भवत्येव। एवं प्रत्ययोऽप्यनर्थकोऽप्यस्ति। यथा-- "यावादिभ्यः कन्" ५।४।२९, याव एव यावक इति। न ह्रत्र प्रत्ययस्यान्वयव्यतिरेकाभ्यां शक्यतेऽर्थवत्त्वं प्रत्येतुम्। विनापि तेन कन्प्रत्ययेन यावशब्दादेव तदर्थः प्रतीययते। तस्मादर्थवदिति युक्तमुक्तम्। "अहन्" इति। अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिना ६।१।६६ लोपः, अट्। स च हन्तिग्रहणेन गृह्रत इति कृतेऽपि तस्मिन् हन्तिर्दातुरेव। अत्र विना धातुग्रहणेन प्रागेव प्रत्ययोत्पत्तेः प्रातिपदिकसंज्ञा स्यात्। नलोपस्तु प्रत्ययोत्पत्तौ पदत्वे सत्युत्तरकालम्। अथ वा-- प्रातिपदिकसंज्ञाऽपि प्रत्ययोत्पत्तेरुत्तरकालमेव स्यात्, तस्माद्धातुग्रहणं कर्तव्यम्। ननु चात्र प्रत्ययलक्षणेन "अप्रत्ययः" इति प्रतिषेधेन भवितव्यम्,तत् किमधातुग्रहणेन? नैतदस्ति; प्रातिपदिकसंज्ञायां नलोपः कार्यः, नलोपे च "न ङिसम्बुद्धयोः" ८।२।८ इति प्रतिषेधो ज्ञापकः- प्रत्ययलक्षणेन "अप्रत्ययः" इति प्रतिषेधो न प्रवर्तत इति। यदि ह्रप्रत्यय इति प्रत्ययलक्षणेन हे राजन्नित्येवमादिषु प्रातिपदिकसंज्ञायाः प्रतिषेधः स्यात्, "न ङिसम्बुद्धयोः" ८।२।८ इति प्रतिषेधो अनर्थकः स्यात्; प्राप्त्यभावात्। अथ भिद्-छिद्-लूः- पूरित्येवमादीनां कथं प्रातिपदिकसंज्ञा, यावता क्विबन्ता धातुत्वं न जहतीति धातव एवैत इति, अत्राधातुरिति प्रतिषेधेन भवितव्यम्? नैष दोषः; मा भूदनेन, कृदन्तत्वादुत्तर सूत्रेण भविष्यति। न चोत्तरस्याः प्राप्तेरयं बाधकः; वाक्यान्तरस्थत्वात्। "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" (व्या।प।१०) इति वा। "काण्डे, कुड()ए" इति। प्रथमाद्विवचनान्ते एते रूपे। "नपुंसकाच्च" ७।१।१९ इति शीभावः। अत्र च "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य" (भा।प।सू।७) इति तदन्तस्य प्रतिषेधो भविष्यति, न प्रत्ययमात्रस्य। ननु च "सुप्तिङन्तं पदम्" १।४।१४ इत्यत्रान्तग्रहणेन "अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" इति ज्ञापितत्वात् "अप्रत्ययः" इति प्रत्ययान्तस्य प्रतिषेधो न लभ्यते, नैष दोषः; संज्ञाविधौ स प्रतिषेधः, न चायं संज्ञाविधिः, किं तर्हि? प्रतिषेधविधिः। अथ किमर्थमप्रत्यय इत प्रतिषेध उच्यते, यावतोत्तरसूत्रे कृत्तद्धितग्रहणं नियमार्थं भविष्यति-- "कृत्तद्धितान्तस्यैव प्रातिपदिकसंज्ञा, नान्यप्रत्ययान्तस्य-- काण्डे,कुड()ए इत्येवमादेः"इति? नैतदस्ति, असत्यस्मिन् प्रतिषेधेऽन्यत्र"संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" इति कृत्तद्धितयोरेव प्रातिपदिकसंज्ञा स्यान्न तदन्तस्य; तदन्तस्य चैवेष्यते-- भिच्छिल्लूःपूरित्येवमादीनां प्रातिपदिकसंज्ञार्थम्। सत्यप्रत्यय इत्येतस्मिन् प्रतिषेधे प्राप्ते यथा कृत्तद्धितान्तस्य प्रातिपदिकसंज्ञा लभ्यते तथोत्तरसूत्रे प्रतिपादयिष्यामः। ननु च "काण्डे" "कुड्ये"-- इत्येतयोः पूर्वमेव प्रकृतेः प्रातिपदिकसंज्ञा प्रवृत्ता, विभक्त्या च सहैकादेशे कृतेऽन्तादिवद्भावादस्त्येव प्रातिपदिकत्वमिति सत्यप्यप्रत्ययग्रहणे ह्यस्वत्वं प्राप्नोत्येव, नैतदस्ति; अप्रत्ययग्रहणसामथ्र्यान्न भविष्यति,अन्यथा ह्रप्रत्ययग्रहणमनर्थकं स्यात्()। "अधातुरप्रत्ययः" इति द्विष्प्रतिषेधः षष्ठीतत्पुरुषाशङ्कानिरासार्थः "अधातुप्रत्ययः" इत्युच्यमाने षष्ठी तत्पुरुषोऽप्याशङ्क्येत-- धातोर्यः प्रत्ययस्य न भवतीति॥
बाल-मनोरमा
अर्थवदधातुप्रत्ययः प्रातिपदिकम् १७७, १।२।४५

अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति। तत्र ङ्याप्प्रातिपदिकादित्यधिकृतम्। किं तत्प्रातिपदिकमिति जिज्ञासायामाह--अर्थवदधातुः। अर्थोऽस्यास्तीत्यर्थवत्। नपुंसकलिङ्गनुसारात्-"शब्दस्वरूप"मिति विशेष्य मध्याहार्यम्। अधातुरिति, अप्रत्यय इति च तद्विशेषणम्। न धातुरधातुरिति नञ्()तत्पुरुषः। "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" इति पुंस्त्वम्। "अप्रत्यय" इत्यावर्तते। प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम्। पूर्ववत्पुंस्त्वम्। "संज्ञाविधा"विति निषेधस्तुं प्रत्ययस्य यत्र संज्ञा तद्विषय इति भावः। तदाह--धातु प्रत्ययमित्यादिना। अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि। अर्थवदिति किम्?। दनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत्। सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्णं सुवुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात्प्रथमाविभक्तेः कारकानपेक्षत्वात्तदेकवचनस्य सङ्ख्यानवगमे।ञपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च। नच हल्ङ्यादिना सुलोपात्प्रतिवर्णं सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वादकारात्सो रुत्वविसर्गापत्तेश्चेत्यलम्। अधातुरिति किम्?। हनधातोर्लङि, तिपि, शपि लुकि, इतश्चेतीकारलोपे, अडागमे, हल्ङ्यादिलोपेऽहन्निति रूपम्। अत्र धातोः प्रातिपदिकसंज्ञायां सुबपबादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमान्नलोपः स्यात्। नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम्। एवमपि प्राक्()प्रवृत्तप्रातिपदिकत्वस्यानपगमात्। नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्यलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम्। तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात्प्रातिपदिकत्वाभावे सति नलोपस्याऽप्रसक्तौ "न ङिसंबुद्ध्योः" इति तन्निषेधवैयथ्र्यप्रसङ्गात्। नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ "न ङिसंबुद्धयोः" इति निषेधो।ञर्थवानिति वाच्यम्, उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याऽप्रवृत्तेः। एवं चास्मादेव निषेधात्प्रत्ययलक्षणमाश्रित्याऽप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते। एवं च अह न्नित्यत्राप्यप्रत्ययान्तत्वात्प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम्। अप्रत्यय इति किम्?। हरिषु करोषीत्यत्र सुप्सिपोरर्थवत्त्वादप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्त्यर्थमप्रत्यय इति प्रत्ययपर्युदासः। नचात्र सुप्सिपोव्र्यपदेशिवद्भावेन प्रत्ययान्तत्वात्प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्वनिवृत्तिसंभवा()त्क प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासाऽलाभात्। अप्रत्ययान्त इति किम्?।हरिषु करोषि अत्र प्रक-तिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्वं मा भूत्।

तत्त्व-बोधिनी
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १४७, १।२।४५

अथाजन्तपुंलिङ्गप्रकरणम्। अर्थवदधातु। प्रत्ययं प्रत्ययान्तं चेति। सूत्रे तन्त्रादिनोभयं विवक्षितमिति भावः। अर्थव"दिति नपुंसकनिर्देशस्याऽनुगुणं विशेष्यमध्याहरति--शब्दस्वरूपमिति। "अधातुरप्रत्यय" इति पुंलिङ्गनिर्देशस्तु "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" इत्युत्तरपदलिङ्गवत्त्वाद्बोध्य इत्याहुः। यदि तु धातुभिन्नमित्यर्थं परित्यज्यारोपितो धातुरधातुरिति व्याख्यायते, तदा नपुंसकत्वप्राप्तेराशङ्कैव नास्तीति ज्ञेयम्। अर्थवदिति किम्?। "धनं" "वन"मित्यादौ प्रतिवर्णं संज्ञा मा भूत्। तस्यां च सत्यां स्वादयः स्युः। ननु सङ्ख्याकर्मादेरभावान्न भविष्यतीति चेन्न; "एकवचनमुत्सर्गतः करिष्यते" इति सिद्धान्ताद्धुंफडादिभ्य इव सोर्दुर्वारत्वात्। न चार्थवद्ग्रहणपरिभाषया अनर्थके न स्यादिति वाच्यं, तस्या विशिष्टरूपोपादानविषयत्वात्। "प्रादूहोढ"इत्यत्र तु "ऊढ" इति विशिष्टरूपमुपात्तमितिक्तवत्वन्तैकदेशस्यानर्थकस्योढशब्दस्य ग्रहणं नेत्युक्तम्। न ह्रत्र तथा विशेषरूपस्योपादानमस्ति। यद्यप्यधातुरित्यादिपर्युदासेनार्थवत्त्वं लभ्यते, तथाप्युत्तरार्थमर्थवह्ग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम्। न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नावयवानामित्यर्थवद्ग्रहणमिह व्यर्थमिति शङ्क्यं ; समुदाये द्विरुक्ते अवयवा अपि द्विरुक्ता भवन्ति। "वृक्षः प्रचलन्सहावयवैः प्रचलती"ति न्यायात्। इह तु समुदाये प्रवृत्तया प्रातिपदिकसंज्ञया नावयवानां तत्कार्यसिद्धिरिति वैषम्यात्। अतएव "यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बाहूनां चाऽविशेषेण संयोगसंज्ञे"ति सिद्धान्तः सङ्गच्छते। अन्यथा त्वदुपन्यस्तन्यायेन समुदाय एव संयोगसंज्ञा प्रवर्तेत। अत्र केचित्-"धनं" "वन"मित्यादौ प्रतिवर्णं सत्यामपि संज्ञायां सत्स्वपि स्वादिषु न क्षतिः। "हल्ङ्या"बित्यादिना सुलोपात्। न च नलोपो धस्य जश्त्वं च स्यादिति शङ्क्यम्, धातुपाठे "धन" "वने"त्युच्चारणसामथ्र्यात्तदप्रवृत्तेरित्याहुः। तदसत्।?कारात्सोरुत्पत्तौ रुत्वप्रवृत्तेः। यद्यपि समुदितप्रातिपदिकस्यावयवत्वेन सुपो लुकि रुत्वं न भवेत्तथापि "चिकीर्षति" "विद्म" इत्यादौ रेफदकारयोः पदान्तत्वे सति "खरवसानयो"रिति विसर्गस्य "यरोऽनुनासिके" इत्यनुनासिकस्य च प्रसङ्गादिति दिक्। अधातुः किम्?, अहन्। धातोः प्रातिपदिकसंज्ञायां सत्यां तिङां स्वाद्यपवादत्वादहन्नित्यत्र हन्तेस्तिपि सिप#इ वा कृते "इतश्चे"तीकारलोपे हल्ङ्यादिलोपे च प्राक्कृता प्रातिपदिकसंज्ञा नापगतेति "नलोपः प्रातिपदिकान्तस्ये"ति नलोपः स्यात्तन्मा भूत्। "अहन्" इति रुत्वं "रोऽसुपी"ति रत्वं चेह नाशङ्क्यम्, लाक्षणिकत्वात्। न च कार्यकालपक्षे प्रत्ययान्तत्वेन पर्युदासात्प्रातिपदिकसंज्ञाऽभावेन नलोपो न भवेदिति वाच्यं, प्रत्ययलक्षणेन उक्तपर्युदासाऽप्रवृत्तेः "न ङिसंबुध्द्यो"रिति निषेधेन ज्ञापितत्वात्। कथमन्यथा "राज"त्यादौ नलोपः स्यात्। यद्यपि व्युत्पत्तिपक्षे राजञ्शब्दस्य कनिन्प्रत्ययान्ततया "कृत्तद्धिते"ति प्रातिपदिकसंज्ञायां राजेत्यादौ नलोपःस्यात् , तथा च "न ङिसबनध्द्यो"रिति निषेधो न ज्ञापक इति कार्यकालपक्षेऽधातुग्रहणं व्यर्थं, तथाप्यव्युत्पत्तिपक्षे ज्ञापक एवेति कार्यकालेऽपि तत्स्वीकर्तव्यम्, न च "सुपो धा"त्विति सूत्रे प्रातिपदिकात्पृथग्धातुग्रहणाद्धातोर्नेयं संज्ञेति वाच्यम्, "पुत्रीयती"त्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात्। अप्रत्ययः किम्?, हरिषु, करोषि। अत्र सुप्सिपोर्मा भूत्। अप्रत्ययान्तः किम्?। तत्रैव विभक्तिविशिष्टयोर्मा भूत्। न चान्तवद्भावेन "काण्डे" "कुड()ए"इत्यादौ प्रातिपद#इकत्वं स्यादेव। तथा च "ह्यस्वो नपुंसके-" इति ह्यस्वः सोरुत्पत्तिश्च स्यादिति वाच्यम्, "सप्तम्यधिकरणे चे"त्यादिनिर्देशेन विभक्तयेकादेशस्यान्तवद्भावानभ्युपगमादिति दिक्। ननु प्रत्ययपर्युदासो न कर्तव्यः, प्रत्ययान्तपर्युदासेनैव गतार्थत्वात्। व्यपदेशिवद्भावेन तस्यापि प्रत्ययान्तत्वादिति चेन्मैवं, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेग्र्रहणात्, केवलस्य चाऽतथात्वात्। अन्यथा सुप्तिङोरपि तदन्तत्वात्पदत्वं स्यात्। तथा च "हरिषु" "करोषी"-त्यादौ षत्वं न स्यात्, "साप्तपदाद्यो"रिति निषेधात्। न च षत्वविधेर्निरवकाशाता, "सर्पिषे" "एष" इत्यादौ चरितार्थत्वात्। अन्ये तु व्याचक्षते-"कृत्तद्धिते"त्यत्र हि तदन्तविधिर्वक्ष्यते। तथा च "तद्धितग्रहणस्य तद्धितान्तानामेव नत्वन्यप्रत्ययान्तानां संज्ञे"ति नियमार्थतामाश्रित्य प्रत्ययान्तपर्युदासोऽत्र न कर्तव्यः। अथवा "सात्पदाद्यो"रिति सूत्रे सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे प्रत्ययग्रहणं सामथ्र्यात्तदन्तपरम्। उत्तरसूत्रे तद्धितग्रहणं तु विध्यर्थमेवाऽस्तु। यद्वा सातिग्रहणात्प्रत्ययस्य प्रातिपदिकत्वाऽभावे तद्धितग्रहणस्योक्तरीत्या नियमार्थत्वे च "अर्थवदधातुः प्रातिपदिक"मित्येव सुवचमिति, तेषाम् "इको यणची"ति सूत्रं व्यर्थं स्यात्। "तस्मादित्युत्तरस्य" "वाय्वृतुपित्रुषसः"-इत्यादिनिर्देशाज्ज्ञापकादिष्टसिद्धेः। "नाज्झलौ" इत्यत्राकारसहितोऽच् आजित्ययं मूलग्रन्थोऽपि विरुध्येत, "कालसमयवेलासु"-इत्यादिज्ञापकादेव ढत्वाऽभावसिद्धे। यदि ज्ञापकेन प्रत्याख्यानमयुक्तमिति, यदि चाऽ‌ऽकारप्रश्लेषे एव तल्लिङ्गमित्यभ्युपगमे सूत्राक्षरैरेवेष्टं सिध्यतीत्युच्येत, तर्हि "अप्रत्यय" इत्येतदभ्युपगम्य प्रत्ययपर्युदासे "साति"ग्रहणं लिङ्गं, प्रत्ययान्तपर्युदासे तु तद्धितग्रहणमित्यप्रत्ययग्रहणमेवावर्त्त्य व्याख्यायतां, किमनया कुसृष्टयेति दिक्। "अधातुप्रत्यया"विति सिद्धे नञ्द्वयोपादानमप्रत्यय इत्यस्यावृत्तिसोकर्यार्थम्। महासंज्ञाकरणं श्रुत्यनुरोधात्। तथा चाथर्वणे पट()ते--"को धातुः, किं प्रातिपदिकं, कः प्रत्ययः" इति। डित्थादीन्यव्युत्पन्नानीहोदाहरणम्। अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकमिति प्राञ्चः। वस्तुतस्तु व्युत्पत्तिपक्षे "बहुपटव" इत्याद्यर्थं सूत्रमिति नव्याः। न चैवं "बहुच्पूर्वः प्रातिपदिक"मित्येव सूत्र्यतामिति वाच्यम्, "मूलकेनोपदंश"मित्यादौ कृदन्तत्वेनातिप्रसङ्गात्, गतिकारकपूर्वस्यापि कृदन्तत्वात्। न च समासग्रहणं नियमार्थमिति निस्तारः, अर्थवत्सूत्रारम्भं विना समासग्रहणस्य नियमार्थत्वाऽयोगात्।