पूर्वम्: १।२।४५
अनन्तरम्: १।२।४७
 
प्रथमावृत्तिः

सूत्रम्॥ कृत्तद्धितसमासाश्च॥ १।२।४६

पदच्छेदः॥ कृत्-तद्धित-समासाः १।३ प्रातिपदिकम् १।१ ४५

समासः॥

कृत् च तद्धितश्च समासश्च कृत्तद्धितसमासाः, इतरेतरद्वन्द्वः

अर्थः॥

कृत्प्रत्ययान्ताः तद्दितप्रत्ययान्ताः समासाश्च प्रातिपदिकसंज्ञकाः भवन्ति

उदाहरणम्॥

कृत् - कारकः, हारकः, कर्त्ता, हर्त्ता॥ तद्दितः - शालीयः, औपगवः, ऐतिकायनः॥ समासः - राजपुरुषः, कष्टश्रितः
काशिका-वृत्तिः
कृत्तद्धितसमासाश् च १।२।४६

कृतस् तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्ययः इति पूर्वत्र पर्युदासत् कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदयानां समासग्रहणं नियमार्थम्। कृत् कारकः। हारकः। कर्ता। हर्त। तद्धितः औपगवः। कापटवः। समासः राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्य अर्थवतः संज्ञा न भवति।
लघु-सिद्धान्त-कौमुदी
कृत्तद्धितसमासाश्च ११७, १।२।४६

कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
न्यासः
कृत्तद्धितसमासाश्च। , १।२।४६

अत्र "अन्यत्र संज्ञाविधौ प्रत्ययग्रणे तदन्तविधिर्नास्ति" इत्यतन्नोपतिष्ठते, यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम्। "अप्रत्ययः" इति प्रत्ययान्तस्य प्रतिषेधः उक्तः। तेन यत्र संज्ञायाः प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाऽ‌ऽह-- "अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य" इत्यादि। अथ समासग्रहणं किमर्थम्? यावता समासस्यार्थवत्त्वात् पूर्वेणैव संज्ञा सिद्धेत्यत आह-- "अर्थवत्समुदायानाम्" इत्यादि। निर्धारणषष्ठीयम्-- अर्थवन्तो ये समुदायास्तेषां मध्ये समासस्यार्थवतः समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमार्थं समासग्रहणम्। यद्येवम्, प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात्-- बहुपटव उच्चकैरिति? कोऽत्र दोषः? "चितः" ६।१।१५७ इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजर्थमिति वचनादेतद्वयवस्थाप्यते-- प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयत इति। बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात्,तदा प्रातिपदिकत्वाभावात् यथा सुबुत्पत्तिर्न स्यात् तथोत्पन्नाया अपि विभक्तेः "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति लुका न भवितव्यम्। ततश्च बहुपटव इत्यत्र जस्विभक्तेरकारस्य स्वरः स्यात्; उकारस्य चेष्यते। प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेर्लुकि कृते याऽन्या विभक्तिरुत्पद्यते, सा बहुजुत्पत्तेरुत्तरकालभाविनीत्वात् प्रकृतौ नान्तर्भवति। तेन तामुत्सृज्य पूर्वो भागः स्वरभाग भवति। अत उकारस्य स्वरः सिध्यति। उच्चकैरित्यत्र प्रातिपदिक्तवाभावाकज्वतः समुदायाद्विभक्तिर्न स्यात्, तस्याञ्चासत्यां पदत्वं न स्यात्। ततश्चोच्चकैः पठतीति "तिङङतिङः" ८।१।२८ इति निघातो न स्यात्। तस्मात् प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या? न वक्तव्या, यस्मात् तुल्यजातीयानां नियमः, तेन तुल्यजातीयो नियमेन व्यवच्छ#इद्यते। तुल्यजातीयश्चच समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव, न तु प्रकृतिप्रत्ययसमुदायः। तेनायं तस् नियमेन व्यवच्छेदो न करिष्यते, नैतदस्ति; सुबन्तासुबन्तसमुदायोऽपि समासोऽस्ति, यथा-- प्रकत्र्ता, प्रकारक इति। अत्र हि "गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्()सुबुत्पत्तेः" (व्या।,प।वृ १३८) इति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समस्यते, तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियमे विज्ञायमाने बहुपटवः, उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात्। एवं तह्र्राचार्यप्रवृत्तिज्र्ञापयति-- भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति; यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति॥
बाल-मनोरमा
कृत्तद्धितसमासाश्च १७८, १।२।४६

कृत्तद्धित। कृच्च तद्धितश्च समासश्चेति विग्रहः। पूर्वसूत्रात् "प्रातिपदिक"मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते। प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम्। तदाह--कृत्तद्धितान्ताविति। कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा।ञप्राप्तौ कृत्तद्धितग्रहणम्। केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति। अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः। केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामथ्र्यात्तदन्तविधिमाहुः। कृदन्ते यथा--"कर्ता" "भर्ता" इत्यादि। तद्धिते यथा--"औपगव" इत्यादि। समासे यथा--"राजपुरुष" इत्यादि। ननु समासग्रहणं व्यर्थं, समासे "राजपुरुष" इत्यादि। ननु समासग्रहं व्यर्थं, समासे "राजपुरुष" इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात्। न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति "न ङिसम्बुद्धयोः" इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह--पूर्वसूत्रेणेत्यादिना। नियमशरीरं दर्शयति-यत्रेति। "पूर्वो भागः पद"मित्युपलक्षणम्। "उत्तरभागस्तु प्रत्ययो ने"त्यपि द्रष्टव्यम्। अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात्। नचात्र कृत्तद्धितेति तद्धितग्रहणसामथ्र्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात्। तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात्। "पूर्वो भागः पद"मित्यनुक्तौ "बहुपटव" इत्यत्र प्रातिपदिकसंज्ञा न स्यात्। ईषदसमाप्तावित्यनुवृत्तौ "विभाषा सुपो बहुच्पुरस्तात्तु" इति सूत्रेण "पटव" इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकि "चितः सप्रकृतेर्बह्वजर्थ"मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि "बहुपटव" इति रूपम्। अत्र टकारादकार उदात्त इति स्थितिः। जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा।ञभावे तु ततो जसन्तरं नोत्पद्येत। नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा।ञभावेन"सुपो धातुप्रातिपदिकयो"रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात्। इष्यते तु टकारादुत्तरस्य। "बहुपटव" इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः। नियमस्य फलमाह--तेनेति। उक्तनियमेनेत्यर्थः। अन्यथा "देवदत्त गामभ्याज शुक्लां दण्डेने"त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात्। न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः। कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः। तेन "निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये"ति वार्तिकं गतार्थम्

तत्त्व-बोधिनी
कृत्तद्धितसमासाश्च १४८, १।२।४६

कृत्तद्धितसमासाश्च। "अर्थव"दित्यनुवर्तते, तत्सामथ्र्यात्तदन्तविधिः। ननु यद्यर्थवत्ता पारमार्थिकीं विवक्ष्यते, सा पदस्य वाक्यस्य वाऽस्ति, न तु कृत्तद्धितान्तस्य, यदि तु प्रक्रियादशायां या कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्धितयोरपि साऽस्तीति कथमर्थवद्ग्रहणानुवृत्त्या तदन्तग्रहणमिति चेदत्राहुः,-अतएवार्थवद्ग्रहणसामथ्र्यमुक्तम्। प्रत्ययान्तेन ह्रोकार्थीभूतेन प्रतीयमानोऽर्थ इह गृह्रते। तस्य लोकिकार्थं प्रति प्रत्यासन्नतरत्वान्मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात्। अतएव च तदुपादानं सार्थकं, पूर्वसूत्रे "अधातु"रिति "कर्ता " "औपगव" इत्यादौ "अप्रत्ययान्त" इति च पर्युदासे प्राप्ते "कृत्तद्धिते"त्यारम्भः। नियमार्थमिति। न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम् ; वाक्यस्याऽप्रत्ययान्तत्वात्। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। न चैवमप्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावाद्राजकुमारीत्यादौ ङीबन्ते विध्यर्थमस्त्विति वाच्यम्, "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते" इति लुग्विषये हल्ङ्यादिलोपाऽप्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः। तत्र च कुमारीशब्दस्य सुबन्तत्वेऽपि राजशब्दसहित[कुमारी]शब्दस्याऽतथात्वादप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात्। अतएव "गोमत्प्रिय"इत्यादौ नुमादयो न, लुकः प्रागन्तरङ्गस्य हस्ङ्यादिलोपस्य प्रवृत्तौ तु स्युरेवेति दिक्। नियमशरीरमाह-यत्र सङ्घात इति। नियमश्चात्र सजातीयापेक्ष इत्याह-पूर्वो भागः पदमिति। षड्विधेऽपि समासे पूर्वभागस्य पदत्वाऽव्यभिचाराद्भवत्ययं सजातीयः। "पूर्वो भाग" इत्युपलक्षणम्, "उत्तरस्तु प्रत्ययो ने"त्यपि बोध्यम्। अन्यथा "जन्मवा"नित्यादौ संज्ञा न स्यात्, "स्वादिष्वि"त्यनेन पूर्वभागस्य पदत्वात्। न च तद्धितग्रहणसामथ्र्यात्तत्र स्यादेवेति वाच्यं, तद्धितग्रहणस्य "भानव" इत्यादौ कृतार्थत्वात्। तत्र हि पूर्वभागस्य भत्वं, न तु पदत्वम्। न चैवमयमियानित्यादिसमुदायस्य प्रातिपदिकत्वं स्यादेव, पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादनेन नियमेन वारयितुमशक्यत्वादिति वाच्यम् ; "उत्तरस्तु प्रत्ययो ने"त्यत्र "तद्विहितप्रत्ययो ने"ति व्याख्यानात्। पूर्वो भागः पदमिति किम्?, बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात्। तेन "बहुपटव" इत्यत्र उपोत्तमोदात्तत्वं सिध्यति। प्रथमजसो लुकि "चितः सप्रकृतेर्बह्वकजर्थ"मिति चित्स्वरे कृते पुनर्जस उत्पत्तेः। प्रातिपदिकसंज्ञायामसत्यां तु जसेवोदात्तः स्यात्। यद्वा "प्रकृतिप्रत्ययभावानापन्नसङ्घातस्य चेद्भवति तर्हि समासस्यैवे"ति नियमार्थं "समास"ग्रहणम्। तेन गवित्ययमाहे"त्यादौ नातिप्रसङ्ग इति दिक्। नियमफलमाह-तेन वाक्यस्य नेति। "गांमभ्याज शुक्ला"मित्यादिवाक्यस्य न भवतीत्यर्थः। सत्यां हि संज्ञायां सुब्लुक्स्यात्। नन्वेवमपि "मूलकेनोपदंशं भुङ्क्ते" इत्यादिवाक्यस्य संज्ञा दुर्वारा, "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणा"दिति चेन्मैवम्। समासग्रहणरृतनियमेन परत्वाद्बाधात्। एवंच "कृत्तद्धिते"ति सूत्रे कृद्ग्रहणपरिभाषा निष्फलत्वान्नोपतिष्ठते। तस्याश्च परिभाषायाः "व्यावक्रोशी" "व्यावहासी"त्यत्रावकाशः। तत्र हि "कर्मव्यतिहारे णच्स्त्रिया"मिति धातोर्णचि कृते गतिपूर्वस्य णजन्तत्वात् "णचः स्त्रिया"मित्यञिसत्युपसर्गाकारस्यादिवृद्धिस्वरौ भवतः। कृद्ग्रहणे कारकपूर्वस्याप्युदाहरणम्-अवतप्ते नकुलस्थितमित्यादि स्फुटीभविष्यति। चकारोऽनुक्तसमुच्चयार्थः। तेन "निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये"ति वार्तिकं गतार्थम्। येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्,-अवद्यति। अनुकरणेषु तु अनुकार्येण सहाऽभेदविवक्षायामर्थवत्त्वाऽभावादेव न प्रातिपदिकत्वम्। "भू सत्ताया"मिति यथा। भेदविवक्षायां तु संज्ञा स्यादेव-"भुवो वु"गिति यथा।