पूर्वम्: १।२।५
अनन्तरम्: १।२।७
 
प्रथमावृत्तिः

सूत्रम्॥ इन्धिभवतिभ्यां च॥ १।२।६

पदच्छेदः॥ इन्धिभवतिभ्याम् ५।२ लिट् १।१ कित् १।१

समासः॥

इन्धिश्च, भवतिश्च इन्धिभवती, ताभ्यां इन्धिभवतिभ्याम्, इतरेतरद्वन्द्वः।

अर्थः॥

इन्धि, भवति इत्येताभ्यां परः लिट्-प्रत्ययः किद्वत् भवति।

उदाहरणम्॥

पुत्र ईधे अथर्वणः (ऋ॰ ६।१६।१४)। समीधे दस्युहन्तमम् (ऋ ६।१६।१५), बभूव, बभूविथ।
काशिका-वृत्तिः
इन्धिभवतिभ्यां च १।२।६

इन्धि भवति इत्येताभ्यां परो लिट् प्रत्ययः किड् भवति। समीधे दस्यु हन्तमम्। पुत्र ईधे अथर्वणः। भवतेः खल्वपि बभूव। बभूविथ। इन्धेः संयोगर्थं ग्रहणम्। भवतेः पिदर्थम्। अत्रैष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्। श्रेथतुः, श्रेथुः। ग्रेथतुः, ग्रेथुः। देभतुः, देभुः। परिषस्वजे, परिषस्वजाते।
न्यासः
इन्धिभवतिभ्यां च। , १।२।६

"समीघे" इति। "ञीन्धी दीप्तौ", (धा।पा। १४४८) पूर्ववदात्मनेपदम्, एशादेशः, कित्त्वात् "अनिदिताम्" ६।४।२४ इत्यादिनानुनासिकलोपः, द्विर्वचनम्, अकः सवर्णे दीर्घत्वं च ६।१।९७। अथ "इजादेश्च गुरुमतोऽनृच्छः" (३।१।३६) इत्याम् कस्मान्न भवति? मन्त्रविषयत्वादस्य; तत्र च "अमन्त्रे" इत्यधिकारात। एवं तर्हि मन्त्रश्छन्द एवेति "च्छन्दस्युभयथा" ३।४।११७ इति सार्वधातुकत्वम्, ततश्च सार्वधाकुमपित्" १।२।४ इति ङित्त्वम्, अत एव ङित्त्वादनुनासिकलोपो भविष्यतीति तत् किमर्थमिन्धेःपरस्य लिटऋ कित्त्वं विधीयते? ज्ञापनार्थम्। एतदनेन ज्ञाप्यते- अनित्योऽयमामिति। नित्ये ह्रामि तेन व्यवधानादेवेन्धेः परो लिण्न सम्भवतीति कित्त्वविधानं नोपपद्यते; तस्मादनित्योऽयमामिति। तेन भाषायामपि "समीधे" इति प्रयोग उपपन्नो भवति। "बभूव, बभूविथ" इति। कित्त्वाद् यथाक्रमं वृद्धिगुणौ न भवतः।"भुवो वुग् लुङलिटोः" ६।४।८८ इति वुक्। "भवतेरः" ७।४।७३ इत्यभ्यासस्यात्त्वम्। ननु च कृतयोरपि गुणवृद्ध्योर्वुका भवितव्यम्, अकृतयोरपीति नित्यो वुक्; कृताकृतप्रसङ्गित्वात्, तत्र नित्यत्वाद् वुकि कृते गुणवद्धयोः प्राप्तिरेव नास्ति, भवतेरलघूपधत्वात्, अनजन्तत्वाच्चेति भवतिग्रहणमनर्थकम्? नैतदस्ति; "शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति" (व्या।प।१००) इति वुगप्यनित्यः। ततश्च परत्वात् गुणवृद्ध्योः कृतयोर्वङ न स्यात्। तस्माद् भवतिग्रहणं कत्र्तव्यम्। अथ कृतयोरपि गुणवृद्ध्योरेकदेशविकृतमनन्यवद्भवतीति नास्ति शब्दान्तरत्वम्? एवं सति शक्यं भवतिग्रहणमकर्तुम्। तत् क्रियते विस्पष्टार्थम्। अथ "बभूव" इत्यत्र "अचो ञ्णिति" ७।२।१५ इति वृद्धेः कथं प्रतिषेधः, यावतेक इत्यनुवत्र्तते? क्ङिति च" १।१।५ इत्यनेनेग्लक्षणा वृद्धिः प्रतिषिध्यते, न चेयमिग्लक्षणा वृद्धिः, निर्दिष्टस्थानिकत्वात्। अत्र कित्त्वविधानसामथ्र्यादनिग्लक्ष णा अपि वृद्धेर्भविष्यति प्रतिषेधः; अन्यथा कित्त्वविधानमनर्थकं स्यादिति चेत्, न; तस्य थल्युत्तमणलि च गुणुप्रतिषेधार्थत्वात्। एवं तर्हि ङिद्ग्रहणमप्यनुवत्र्तते, तदनुवत्र्तमाने न विद्यमानमन्यत् प्रयोजनम्, तेनानिग्लक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति। "इन्धेः संयोगार्थं (ग्रहणम्-- काशिका) वचनम्" इति। तस्य संयोगान्तत्वात् पूर्वेणासिद्धेः। "भवतेः पिदर्थम्" इति। नापिदर्थम्; तस्यासंयोगान्तत्वादपिदिति पूर्वेण सिद्धेः। भवतेरिह श्तिपा निर्देशो यङलुग्()निवृत्त्यर्थः-- यङलुगन्तल्लिटः कित्त्वं मा भूदिति। "बोभाव" इति। तथा चोक्तम्---- श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च। यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि॥ (पु।प।९४) इति। "अन्थिग्रन्थि" इत्यादि। "श्रन्थ ग्रन्थ सन्दर्भे" (धा।पा।१५१२,१५१३), "दम्भ,द्म्भे" (धा।पा। १२९०) "ष्वन्ज परिष्वङ्गे" (धा।पा।९७३) एषामपि श्रन्थिग्रन्थिप्रभृतीनां लिटः कित्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन श्रन्थिप्रभृतीनामपि संयोगान्तानां लि टः कित्त्वं भविष्यतीति। "श्रेथतुः" इत्यादि। कित्त्वात् "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः। "तृ()फलभजत्रपश्च" ६।४।१२२ इति चकारस्यानुक्तसमुच्चयार्थत्वादनेकहल्मध्यस्याप्येत्वाभ्यासलोपौ। "परिषस्वजे" इति। अनुदात्तेत्त्वादात्मनेपदम्। पूर्वस्य सकारस्य "स्थादिष्वभ्यासेन चाभ्यासस्य" ८।३।६४ इति वत्र्तमाने, "उपसर्गात् सुनोति" ८।२।६५ इत्यादिना षत्वम्। परस्य तु सकारस्य "सदिस्वञ्जयोः परस्य लिटि" इति षत्वप्रतिषेधः।