पूर्वम्: १।२।६१
अनन्तरम्: १।२।६३
 
प्रथमावृत्तिः

सूत्रम्॥ विशाखयोश्च॥ १।२।६२

पदच्छेदः॥ विशाखयोः ६।२ छन्दसि ७।१ ६१ एकवचनम् १।१ ६१ नक्षत्रे ७।१ ६० अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
विशाखयोश् च १।२।६२

छन्दसि इति वर्तते। द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनम् अन्यतरस्यां भवति। विशाखं नक्षत्रम् इन्द्राग्नीं देवता। विशाखे नक्षत्रम् इन्द्राग्नी देवता।
लघु-सिद्धान्त-कौमुदी
पूर्ववत्सनः ७४५, १।२।६२

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥
न्यासः
विशाखयोश्च। , १।२।६२