पूर्वम्: १।२।५९
अनन्तरम्: १।२।६१
 
प्रथमावृत्तिः

सूत्रम्॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे॥ १।२।६०

पदच्छेदः॥ फल्गुनीप्रोष्ठपदानाम् ६।३ नक्षत्रे ७।१ ६२ द्वयोः ७।२ ५९ बहुवचनम् १।१ ५८ अन्यतरस्याम् ७।१ ५८

काशिका-वृत्तिः
फल्गुनीप्रोष्ठपदानां च नक्षत्रे १।२।६०

चकारो द्वयोः इत्यनुकर्षणार्थः। फल्गुन्योर् द्वयोः प्रोष्ठपदयोश्च द्वयोर् नक्षत्रयोर् बहुवचनम् अन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्रे इति किम्? पल्गुन्यौ मणविके।
न्यासः
फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे। , १।२।६०

"चकारो द्वयोरनुकर्षनार्थः" इति। ननु च फल्गुन्यौ नक्षत्रे द्वे एव, तथा प्रोष्ठपदे अपि द्वे; अत्रानयोर्दित्वाद्वित्व एव बहुवचनं भविष्यति, तत् किं चकारेण द्वयोरित्यनुकर्षणार्थेन? एवं तह्र्रेतज्ज्ञापयति-- नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति। तेनैतदपि सिद्धं भवति-- उदिताः पूर्वाः फल्गुण्यः, उदिते पूर्वे फल्गुन्याविति। यदि नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति न ज्ञाप्यते, तदिह तु न स्यात्, यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योगे सति भवति, नान्यदा; अन्यदा तु ज्योतिष्ट्वमेव। न च नक्षत्राभिधायिनः "उदिताः पूर्वाः फल्गुन्यः" इत्यत्र फल्गुनीशब्दस्य प्रयोगः, किं तर्हि? ज्योतिर्मात्राभिधायिन इति। अत्र ज्योतिष्ट्वमेक्सयाप्यस्तीति तन्निवृत्यर्थं द्वयोरित्यनुकर्षणार्थं चकारकरणं युक्तम्। यदि पुनज्र्योतिष उपलक्षणार्थं नक्षत्रग्रहणं न स्यात्, तदा क्व स्यात्? तदेहैव स्यात्-- अद्य पूर्वाः फल्गुन्यः, अद्य पूर्वे फल्गुन्याविति। अस्ति ह्रत्र फल्गुन्योर्नक्षत्रता, चन्द्रमसा युक्तत्वात्। तथा ह-- "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण् भवति। श्रवणं तस्य न भवति; "लुबविशेषे" ४।२।४ इति लुप्तत्वात्। "फल्गुन्यौ माणविके" इति। फल्गुन्योर्जाते इति। "फल्गुन्याषाढाभ्यां टानौ" (वा।४५१) इत्युपसंख्यानाट्टप्रत्ययः। "टिड्()ढाणञ्" ४।१।१५ इति ङीप्॥
बाल-मनोरमा
फल्गुनीप्रोष्ठपदानां च नक्षत्रे ८०९, १।२।६०

फल्गुनी। "नक्षत्रे" इति प्रथमाद्विवचनम्। नक्षत्रे यद्यभिधीयते इत्यर्थः। चेन द्वयोरित्यनुकर्षः। तदाह--द्वित्वे इति। पूर्वं प्रोष्ठपदे इति। स्त्रीत्वादौङः शीभावः। "प्रोष्ठपदा भाद्रपदा स्त्रिया"मित्यमरः। फल्गुन्यौ माणविके इति। फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः। "नक्षत्रेण युक्तः" इत्यण्। "लुबविशेषे" इति लुप्। ततो जातार्थे "फल्गुन्यषाढाभ्यां टाऽनौ" इति टः। टित्त्वान्ङीप्।

तत्त्व-बोधिनी
फल्गुनीप्रोष्ठपदानां च नक्षत्रे ७१०, १।२।६०

फल्गुनीप्रोष्ठपदानां च। चकारेण द्वयोरनुकर्षणादाह--द्वित्व इति। फल्गुन्यौ माणविके इति। फल्गुनीशब्दात् "नक्षत्रेण युक्तः कालः " इत्यण्। तस्य "लुबविशेषे"इति लुप्। ततो जातार्थे "फल्गुन्यषाढाभ्यां टाऽनौ"इति टः। टित्त्वन्ङीप्। न चायं गौणः, यौगिकत्वात्। तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः।