पूर्वम्: १।२।७३
अनन्तरम्: १।३।२
 
प्रथमावृत्तिः

सूत्रम्॥ भूवादयो धातवः॥ १।३।१

पदच्छेदः॥ भूवादयः १।३ धातवः १।३

समासः॥

भूश्च वाश्च भूवौ, भूवौ आदी येषां ते भूवादयः, द्वन्द्वगर्भो बहुव्रीहिः॥

अर्थः॥

भू इत्येवम् आदयः वा इति एवं प्रकारकाः क्रियावचनाः शब्दाः धातुसंज्ञकाः भवन्ति॥

उदाहरणम्॥

भवति, पठति, वाति॥
काशिका-वृत्तिः
भूवादयो धातवः १।३।१

भू इत्येवम् आदयः शब्दाः क्रियावचना धातुसंज्ञा भवन्ति। भू भवति। एध एधते। स्पर्ध स्पर्धते। धातुशब्दः पूर्वाचार्यसंज्ञा। ते च क्रियावचनानां संज्ञां कृतवन्तः। तदिह अपि पूर्वाचर्यसंज्ञाश्रयणात् क्रियावाचिनाम् एव भूवादीनां धातुसंज्ञा विधीयते। भूवादीनां वकारो ऽयं मङ्गलार्थः प्रयुज्यते। भूवो वार्थं वदन्ति इति भ्वर्था वा वादयः स्मऋताः। धातुप्रदेशाः धातोः ३।१।९१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
भूवादयो धातवः ३६, १।३।१

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥
न्यासः
भूवादयो धातवः। , १।३।१

भूरादिर्येषां ते भूवादयः। भूवादयो दशगणीपरिपठिता गृह्रन्ते। "भवति" इत्यादि। अत्र धातुसंज्ञायां सत्याम् "धातोः" ३।१।९१ इत्यनुवत्र्तमाने "वत्र्तमाने लट्" ३।२।१२३ इति लट्()प्रत्ययः। "भू इत्येवमादयः शब्दा धातुसंज्ञका भवन्ति" इत्यनेन गणपाठेनैवेयं धातुसंज्ञा विधीयत इति दर्शयति। तेन अणपयति, कड्ड्पयति इत्येवमादीनां धातुसंज्ञा न भवतीत्युक्तं भवति। यद्यवम्, या-वा- दिव-इत्येवमादीनां सर्वनाम--विकल्प-स्वर्गाभिधायिनां धातुसमानशब्दानामक्रियावचनानामपि धातुसंज्ञा प्राप्नोतीति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- "धातुशब्दः" इत्यादि। लघ्वर्थं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येकाक्षरायां संज्ञायां कत्र्तव्यायां महत्याः पूर्वाचार्यसंज्ञाया यदाश्रयणं तस्यैतत्प्रयोजनम्--यथाविधानां ते धातुसंज्ञां कृतवन्तः, तथाविधानमेवैषा संज्ञा यथा स्यादिति। ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञा विधीयते। तेन या-वा-दिव इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान्न भवतीति भावः। ननु च भूरादिर्येषामिति बहुव्रीहौ कृते, आदिशब्दे परतो यदि संहितया निर्देशः, तदा "इको यणचि" ६।१।७४ इति यणादेशे कृते "भ्वादयः" इति भवितव्यम्, अथासंहितया निर्देशस्तदा भू आदय इति, तत्कुतोऽयं वकारो यस्मिन् सति भूवादय इति निर्देशो भवतीत्यत आह-- "भवादीनाम्" इत्यादि। भूवादीनां संज्ञिनां निर्देशेऽयं वकारो मङ्गलार्थः प्रयुज्यते। मङ्गलमर्थः प्रयोजनं यस्य स तथोक्तः। स मङ्गलशब्दो धर्मपर्यायः, धर्मार्थ इति यावत्। यथा वेदे "त्रियम्बकं यजामहे" इत्यत्र यकारस्य दृष्टप्रयोजनं नास्त्रीत्यदृष्टार्थो धर्मार्थ एव पाठस्तस्य, तथेहापि वकास्य। अथ वा-- अपूर्वस्य वस्तुनो लाभो लोके मङ्गलं सम्मतम्, यथा प्रातर्दध्यादीनाम्; तथेहापि वकारस्यापूर्वस्यलाभो मङ्गलं प्रशस्तम्। प्रशस्तार्थो मङ्गलशब्दः। तथा चोक्तम्- "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च" (म।भा। १।१।१) इति। इह चादौ वृद्धिशब्दो मङ्गलम्, मध्ये चायं वकारः, अन्ते च "स्वरिदतोयम्" ८।४।६६ इत्युदयशब्दः। "भुवो वार्थम्" इत्यादि। अथ वा-- भूवादय इत्यत्र निर्देशे नायमादिशब्द्स प्रयोगः, नापि मङ्गलार्थस्य वकारस्य किं तर्हि? वादिशब्दस्यौणादिकस्य। वदन्तीति वादयः,वाचका इत्यर्थः। वदेर्थातोः "वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्" (द।उ। १।५३) इति कर्तरीञ्()प्रत्ययः। यद्यपि वादीति सूत्रण्यन्तस्योपदानाम्, तथापि बहुलवचनादण्यन्तादपि भवति।"भ्वर्थाः" इति। तेषां वदीनामिदं विशेषणम्,भवनं भूः, सम्पदादित्वाद्()भावे क्विप्। भवतेरर्थः क्रियासामान्यम्। भूरर्थो येषां ते भ्वर्थाः।कस्मात् पुनस्ते भ्वर्थाः? "भुवो वार्थं वदन्ति" इति। इतिकरणो हेतौ-- यस्माद्भृवो धातोरर्थ वदन्त्यभिदधति तस्मात् ते भ्वर्थाः। एवं विधा वादयो वाचकाः शब्दा भूवादयो धातुसंज्ञा भवन्तीत्युक्तं इतीह सूत्रे संज्ञिनः स्मृताः =अभिमताः, अभिप्रेता इत्यर्थः। तदेवं क्रियावचनाः शब्दा भूवादयो धातुंसज्ञा भवन्तीत्युक्तं भवति।तेन याव-वा- दिव प्रभृतीनां धातुसमानशब्दानां क्रियावचनानां धातुसंज्ञा न भवति। गणपाठसामथ्र्यात् पाठोऽप्यङ्गीक्रियते। तेनाणपयतीत्येवमादीनां क्रियावचनानामपि धातुसंज्ञा न भवतकीत्युक्तंभवति। अस्मिन् व्याख्याने भूवादय इति षष्ठीसमासो वेदितव्यः-- भुवोवादयो भूवादय इति। अथ वा-- आदिशब्दस्यैवात्र "वा गतिगन्धनयोः"(धा।पा।१०५०)इत्यस्मात् परस्य प्रयोगः। वा आदिः येषां ते वादयः। आदिशब्दः प्रकारवाची, वाप्रकारा इत्यर्थः। प्रकारस्तु सादृश्यम्, तत्पुनः क्रियात्मकतया, यदाह-- "भ्वर्थाः" इति। भ्वर्थता तु भुवोऽर्थ वदतीति हेतोः। एवं विधा वाप्रकारकाः शब्दा इह सूत्रे संज्ञिनः स्मृता।तदनेन प्रकारेण क्रियावचनानामेव भूवादीनां धातुसंज्ञा भवतीत्युक्तम्। तेन धातुसमानशब्दानां या-वा-दिव-प्रभुतीनां धातुसंज्ञा न भवति। न हि ते क्रियावचनाः; निष्पन्नवस्त्वभिधायित्वात्। साध्यमानस्वरूपा हि क्रिया निरवयवा क्वचित् पूर्वापरीभूतावयवाऽनिष्पन्नवस्तुस्वभावा। गणपाठस्तु पूर्ववदेवाङ्गीक्रियते। तेनाणपयतीत्येवमादीनां शब्दानां धातुसंज्ञा न भवतीति। अस्मिन्नपि व्याख्यानं "भूवादयः" इति षष्ठीसमासोऽयम्। षष्ठी च वाच्यवाचकसम्नब्धलक्षणा वेदितव्या॥
बाल-मनोरमा
भूवादयो धातवः २०, १।३।१

भूवादयो धातवः। भूश्च वाश्च भूवौ। आदिश्च आदी। प्रथम आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः। भूवौ आदी येषां ते भूवादयः। भूप्रभृतयो वासदृशाश्च ये, ते धातुसंज्ञका इत्यर्थः। वाधातुसादृश्यं च क्रियावाचकत्वेन। तदाह--क्रियावाचिन #इत्यादिना। क्रियावाचिनः किम्?। धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत्। धातुत्वे हि "आतो धातोः" इत्याल्लोपः स्यात्। वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्तयच्छब्दस्याऽत्र न ग्रहणप्रसक्तिः। "क्रियावाचिन" इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम्, धातुपाठे वा इत्यस्य पाठात्। "वां गतिगन्धनयोः" "या प्रापणे" इत्यर्थनिर्देशस्याधुनिकत्वात्। "क्रियावाचिन" इत्युक्तौ तु न दोषः। वार्थस्य विकल्पस्य, "वा भविष्यति" इति "वा अभव"दित्येवं भूतभविष्यत्कालसंबन्धाऽभावेन क्रियात्वाऽभावादिति शब्देन्दुशेखरे स्थितम्। भ्यादयः किम्?। वर्जनक्रियावाचिनो हिरुगित्यस्य धातुत्वं मा भूत्।

तत्त्व-बोधिनी
भूवादयो धातवः १९, १।३।१

भूवादय इति। भूश्च वाश्च भूवाविति द्वन्द्वः , आदिशब्दयोव्र्यवस्थाप्रकारवाचिनोरेकशेषः। आदिश्च आदिश्च आदी, भूवौ आदी येषामिति विग्रहः। भूप्रभृतयो वासदृशाः। सादृश्यं च क्रियावाचित्वेनेत्यभिप्रेत्याह-क्रियावाचिन इति। क्रियावाचिन इति किम्?,"याः पश्यसी"त्यादौ धातुत्वं मा भूत्। सति हि तस्मिन् "अतो धातो"रित्याकारलोपः स्यादिति स्थितं मनोरमायाम्। भ्वादयः किम्?" "हिरुक्" "पृथग्" इत्याद्यव्ययानां "शिश्ये" इति भावार्थतिङन्तस्य च मा भूत्। स्तन्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते। चुलुम्पादीनां "बहुलमेतन्निदर्शन"मिति गणसूत्रेण सङ्ग्रहः।