पूर्वम्: ३।१।९०
अनन्तरम्: ३।१।९२
 
प्रथमावृत्तिः

सूत्रम्॥ धातोः॥ ३।१।९१

पदच्छेदः॥ धातोः ५।१ ३।४।११७

अर्थः॥

आ तृतीयाध्यायपरिसमाप्तेः (३।४।११७) धातोः इति अयम् अधिकारः वेदितव्यः। {तव्यत्तव्यानीयरः ३।१।९६} इत्यादिकं वक्ष्यति, ते धातोः एव उत्पत्स्यन्ते॥
काशिका-वृत्तिः
धातोः ३।१।९१

धातोः इत्ययम् अधिकारो वेदितवय्H। आतृतीयाध्यायपरिसमाप्तेः यदित ऊर्ध्वम् अनुक्रमिष्यामो धातोः इत्येवं तद् वेदितव्यम्। वक्ष्यति तव्यत्तव्यानीयरः ३।१।९६ इति। कर्तव्यम्। करणीयम्। धातुग्रहनम् अनकर्थकं यङ्विधौ धात्वधिकारात्। कृदुपपदसज्ञार्थं तर्हि, अस्मिन् धात्वधिकारे ते यथा स्यातां, पूर्वत्र मा भूताम् इति। आर्धधातुकसंज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम्। धातोः इत्येवं विहितस्य यथा स्यात्। इह मा भूत्, लूभ्याम्, लूभिः इति।
लघु-सिद्धान्त-कौमुदी
धातोः ७६९, ३।१।९१

आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः। कृदतिङिति कृत्संज्ञा॥
न्यासः
धातोः। , ३।१।९१

"यङविधौ धातोरित्यधिकारात्" इति। "धातोरेकाचः" ३।१।२२ इति यङविधौ यत् धातुग्रहणं तस्येहाधिकारादित्यर्थः। इयञ्च धातुग्रहणस्यानर्थकत्वे युक्तिः। "कृदुपपदसंज्ञार्थं तु" इति। आनर्थक्यमपाकरोति। ननु च पूर्वेणापि धातुग्रहणेन कृदुपपदसंज्ञे सिध्यत स्याताम्, इह करिष्यतीति स्यप्रत्ययस्य "कृदतिङ" ३।१।९३ इति कृत्संज्ञा स्यात्। ततश्च "कृत्तद्धितसमासाश्च" १।२।४६ इति प्रातिपदिकसंज्ञा प्रसज्येत, तस्याञ्च सत्यां सुबुत्पत्तिः। "च्लि लुङि" ३।१।४३ इत्यत्र च "तत्रोपपदम्" ३।१।९२ इति लुङोऽप्यपपदसंज्ञा स्यात्, ततश्च लुङ्युपपदे च्लिरित्ययमर्थश्च सम्भाव्येत। तसमादिह धात्वधिकारे कृदुपपदसंज्ञे यथा स्यातां पूर्वत्र मा भूतामिति पूनर्धातुग्रहणम्। अथाधिकारेणैते संज्ञे विधास्येते प्रत्ययसंज्ञावत्, तेन पूर्वत्र न भविष्यतीति चेत्? न हि; सिंहावलोकितन्यायोप्यस्ति। अधिकारेण विधाने पूर्वत्रापि सम्भाव्येयाताम्। तत्र व्याख्यानं कत्र्तव्यं भवेत्। व्याख्यानाच्च लघु धातुग्रहणं भवति। अवश्यञ्चान्यार्थं धातुग्रहणं कत्र्तव्यम्, तदन्यार्थ क्रियमाणं कृदुपपदसंज्ञाविधावपि विस्पष्टार्थं भविष्यति। तामेव चान्यार्थतां दर्शयितुमाह--- "आर्धधातुकसंज्ञार्थम्" इत्यादि। चशब्दाद्वाऽसरूपविधानार्थञ्चेत्ययमत्रार्थो वेदितव्यः। "वाऽसरूपोऽस्त्रियाम्" ३।१।९४ इत्यस्मिन् धात्वधिकारेऽसरूपोऽपवादो बाधको यथा स्यात्, पूर्वत्र मा भूत्। तेन क्सादिभिः सिचः समावेशो न भवति। ननु च पूर्वेणापि धातुग्रहणेनार्धधातुकसंज्ञा सेत्स्यति, किं द्वितीयधातुग्रहणेन? इत्यत आह-- "धातोरित्येवम्" इत्यादि। धातोरित्येवं धातुशब्दमुच्चार्य विहितस्यार्धधातुकसंज्ञा यथा स्यादित्येवमर्थं पुनर्धातुकृग्रहणमित्यर्थः। किमर्थं पुनर्धातोरित्येवं विहितस्यार्धधातुकसंज्ञोच्यते? इत्याह-- "इह मा भूत्" इतति।असति द्वितीये धातुग्रहणे लूभ्याम्, लूभिरित्यत्रार्धधातुकसंज्ञा स्यात्। भवति ह्रत्र धातोः परः प्रत्ययः-- "क्विबन्ता धातुत्वं न जहति" (व्या।प।१३२) इति कृत्वा। आर्धधातुकत्वे सत्यार्धधातुकलक्षण इट् प्रसज्येत। द्वितीयं तु धातुग्रहणं क्रियमामं सामथ्र्याद्छबन्दपदात्मकं भवति। तेनायमर्थो लभ्यते-- धातोरित्येवं धातुसंशब्दनेन यो विहितः स अर्धधातुकसंज्ञो भवतीति। तेन लूभ्यामित्यादावार्धधातुकत्वं न भवति। न हीह धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातिपदिकादित्येवम्॥ "सप्तम्या निर्दिष्टम्" इत्यनेन सप्तमीस्थमित्यस्यार्थमाचष्टे। शब्दस्य हीयं संज्ञा विधीयते, स च कः सप्तमीस्थो भवति? यस्याः सप्तम्या निर्देशः। "कुम्भकारः" इति। उपपदसंज्ञायां "उपपदमतिङ" २।२।१९ इति समासः, "गतिकारकोपपदात् कृत्" ६।२।१३८ इत्यत्तरपदस्य प्रकृतिस्वरत्वं भवति। "स्थग्रहणम्" इत्यादि। निर्दिश्यतेऽनेनेति निर्देशः। सप्तमी निर्देशो यस्य स सप्तमीनिर्देशः। तत्प्रतिपत्त्यर्थं स्थग्रहणम्। एतदुक्तं भवति-- सूत्रे यत् सप्तम्या निर्दिष्टं तस्य संज्ञित्वेन प्रतिपत्तिर्यथा स्यादित्येवमर्थं स्थग्रहणम्। यदि पुनः स्थग्रहणं न क्रियते, ततः किं स्यादित्यत आह-- "इतरथा हि" इत्यादि। इतरथा ह्रक्रियमाणे स्थग्रहणे "संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" (पु।प।वृ।८१) इतिसैव सप्तम्युपपदसंज्ञां प्रतिपद्येत। न चासतः संज्ञिनः संज्ञा युक्तेति यत्र श्रूयते सप्तमी-- स्तम्बेरम इत्यादौ तत्रैव स्यात्। स्यादेतत्-- नैतत् प्रत्ययग्रहणम्,किं तर्हि? सप्तमीशब्दस्य स्वरूपस्य ग्रहणमित्याह-- "यत्र" इत्यादि। गतार्थम्। "स्थग्रहणात्तु" इत्यादि। स्थग्रहणे तु क्रियमाणे ग्रन्थाधिक्यात् सूत्रे यस्य सप्तम्या निर्देशस्तत् संज्ञित्वेन निर्दिश्यते, तेनु सर्वं सिद्धं भवति; येषामियं संज्ञेष्यते तेषां सर्वेषामेव सूत्रे सप्तमीनिर्देशात्। तथा हि-- "स्तम्बकर्णयोः" ३।२।१३ इत्यत्र स्तम्बकर्णशब्दौ सूत्रे सप्तम्या निर्दिष्टौ। "सप्तम्यां जनेर्डः" ३।२।९७ इत्यत्राप्युपसरादयः। "कर्मण्यण्" ३।२।१ इत्यत्रापि कर्माभिधायिनः कुम्भप्रभृतयः। ननु च लाघवार्थं संज्ञाकरणम्, तत्किमर्थं गुर्वी संज्ञा क्रियते? इत्याह-- "गुरुसंज्ञाकरणम्" इत्यादि। उपशब्दः सामीप्ये। उपोच्चारितं पदमुपपदमित्यन्यर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारो यथा स्यादित्येवमर्थं गुरुसंज्ञाकरणम्। समर्थपरिभाषोपस्थाने सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह-- "पश्य कुम्भम्" इत्यादि। अन्वर्थसंज्ञायां हि सत्यामुपपदाश्रयः प्रत्ययः पदविधिर्भवति। यत्र च पदगन्धोऽप्यस्ति तत्र समर्थपरिभाषोपतिष्ठते। तेन पश्य कुम्भं करोति कटमित्यत्र "कर्मण्यण्" ३।२।१ न भवति। न हीह कुम्भस्य करोतिना सामथ्र्यम्, किं तर्हि? पश्येत्यनेन। पदशब्दोऽप्यत्रान्वर्थ एव, न पारिभाषिकः। तथा हि सुबन्तस्य पदसंज्ञा टचोपपदसंज्ञाविधनकाले सुबन्ततयास्ति; यस्मादुपपदसंज्ञायां विहितायामुपपदाश्रयेऽपि प्रत्यय उपपदसमासोऽपि "गतिरकारकोपपदानां कृद्भिः समासवचनं प्राक्()सुबुत्पत्तेः" (व्या।प।वृ।१३८) इति सुबुत्पत्त्या भवितव्यः। तस्मादन्वर्थोऽयं पदशब्दः-- पद्यते गम्यतेऽर्थो येन तत् पदमिति। "तत्र" ग्रहणं सप्तमीस्थस्य प्रत्योत्पतिं()त प्रति निमित्तभावे सत्युपपदसंज्ञा यथा स्यादित्येवमर्थम्। असति हि तत्र ग्रहणे कर्मण्युपपदेऽनुपपदेऽपि प्रत्ययः स्यात्। यस्तु कर्मणीति सप्तम्या निर्देशः, स यदा सप्तम्यन्तः सम्भवति, तदा तस्योपपदसंज्ञार्थः स्यात्; न तु तस्मिन् सत्येव प्रत्ययेन भवितव्यमित्येषोऽर्थो लभ्यते। तस्मात् यथोक्तप्रयोजनार्थं तत्रग्रहणम्। ननु चानन्तरस्य धात्वदिकारस्य निर्देशार्थं तत्रग्रहणं कस्मान्न भवति, तत्रैतस्मिन् धात्वधिकारेऽनन्तर उपपदसंज्ञा यथा स्यादिति? नैतदस्ति; अधिकारादप्येतत् सिद्धम्। उपपदसंज्ञाधिकरिष्यते, तेन वक्ष्यमाणेषु संज्ञिषु संज्ञा भविष्यतीति नार्थ एतदर्थेन तत्रग्रहणेन। "तत्रैतस्मिन्" इत्यादिस्तु वृत्तिग्रन्थ एवमुन्नीयते-- एतस्मिन् धात्वधिकारे यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। तत्र च निमित्ते प्रत्यय इत्येषोऽर्थः सोपस्कारत्वाद्()वृत्तिग्रन्थस्य लभ्यते॥
बाल-मनोरमा
धातोः ६५०, ३।१।९१

धातोः। आ तृतीयेति। आतृतीयाध्यायपरिसमाप्तेरित्यर्थः। एतच्च भाष्ये स्पष्टम्। तत्रोपपदं कृदतिङिति। व्याख्यातं प्राक्।

तत्त्व-बोधिनी
धातोः ५४१, ३।१।९१

धातोः। ननु तिङ्निरूपणात्प्रागेव "स्पृशोऽनुदके क्विन्" "ऋत्विद्गधृ"गित्यादिना क्विन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसङ्गतिः सङ्गच्छत इतिचेत्। अत्राहुः-- क्विन्नादिनिरूपणस्य तत्र प्रासङ्गिकत्वात्, प्राधान्येन च कृतामत्रैव निरूपणान्नोक्तशङ्कावकाशैति। यद्यपि "धातोरेकाचो हलादे"रिति सूत्राद्धातोरित्यनुवर्तत एव तथापि आद्र्धातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातोरिति ग्रहणं कृतम्। अन्यथा "आद्र्धधातुकं शेषः" इत्यनेन तिङ्शिद्भिन्नस्य धातोर्विहितप्रत्ययमात्रस्याद्र्धधातुकसंज्ञायां लूभ्यां पूभ्यामित्यादाविड्गुणो स्यातां, धातोर्विहितत्वेन ब्यामादेराद्र्धधातुकत्वात्, पुनर्धातुग्रहणे कृते तु तव्यतव्यादय इव धातोरित्यवमविधानाद्भ्यामादेराद्र्धधातुकत्वं नेति दिक्। "प्राग्लादेशाद्धात्वधिकारः" इति पक्षोऽयुक्त इत्याशयेनाह-- आतृतीयसमाप्तेरिति। तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः। "प्राग्लादेशा"दिति पक्षे तु "तिह्शित्सार्वधातुक"मित्यत्र धातोरित्यधिकाराऽभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकत्वे "सार्वधातुकमपि"दिति ङित्त्वे च हरीनित्यादौ "घेर्ङिती" ति गुणः स्यादिति ज्ञेयम्। स्यादेतत्--- धातोर्लकारे सति तस्मिन् परतो नित्यत्वात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिबाद्यप्रसङ्गः, यत्र तु तिबाद्याश्रयो विकरणस्तत्रैव व्यवधानाऽभावाद्भवतित्यादौ तिबादयः स्युरिति चेत्। मैवम्। "विकरणेभ्यो नियमो बलीया" निति स्वीकारात्। अथवा विहितविशेषणाश्रयणेन धातोर्विहितस्य लस्येति व्याख्यानादिष्टसिद्धेः। नन्वेवं विहितविशेषणाश्रयणे "विद्लृ लाभे" इत्यस्माद्धातोर्विहितस्य लटः शब्विकरणव्यवायेऽपि "विदो लटो वा" इति णलादयः स्युरिति चेत्। अत्राह हरदत्तः-- धातुनाऽत्र विहितं विशेष्यते, विदना त्वानन्तर्यमिति। तथा चायमर्थः संपद्यते --धातोर्विहितस्य विदोऽनन्तरस्य लटो णलादय इत्यब्युपगमाद्वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विदन्तेर्लडिति दिक्। विधेयाऽनिर्देशात्स्वरितत्वाच्चाधिकारसूत्रमिदमित्याह---अधिकारोऽयमिति। तत्रोपपदमित्यादि। एतेन कृत्संज्ञोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धात्वधिकार आवश्यक इति ध्वनितम्। अयं भावः-- यदि द्वितीयधात्वधिकारो न स्यात्तदा पूर्वधात्वधिकारेऽपि कृदुपपदसंज्ञे स्याताम्। इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेन "च्लि लुङी" त्यादौ लुङन्त#ए उपपदे च्लिरित्यवमनिष्टोऽर्थः प्रसज्येत। तिङ्बिन्नधात्वधिकारप्रत्ययस्य कृत्संज्ञायां करिष्यतीत्यादौ स्यप्रत्ययस्य कृत्त्वेन "कृत्तद्धिते" तिप्रापतिपदिकत्वादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसङ्गाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोर्विधानार्थमयमधिकार इति।