पूर्वम्: १।३।१६
अनन्तरम्: १।३।१८
 
प्रथमावृत्तिः

सूत्रम्॥ नेर्विशः॥ १।३।१७

पदच्छेदः॥ नेः ५।१ विशः ५।१ आत्मनेपदम् १।१ १२

अर्थः॥

निपूर्वात् निश् (तुदा॰प॰) धातोः, आत्मनेपदं भवति।

उदाहरणम्॥

निविशते, निविशेते, निविशन्ते।
काशिका-वृत्तिः
नेर् विशः १।३।१७

शषात् कर्तरि पर्स्मैपदम् १।३।७८ इति प्रस्मैपदे प्राप्ते निपूर्वाद् विश आत्मनेपदं विधीयते। नेः परस्माद् विश आत्मनेपदं भवति। निविशते। निविशन्ते। नेः इति किम्? प्रविशति। यदागमास् तद्ग्रहणेन गृह्यन्ते तेन अटा न अस्ति व्यवधानम्। न्यविशत। नेरुपसर्गस्य ग्रहणम्, अर्थवद्ग्रहने न अनर्थकस्य ग्रहणम् इति। तस्मादिह न भवति, मधुनि विशान्ति भ्रमराः।
लघु-सिद्धान्त-कौमुदी
नेर्विशः ७३६, १।३।१७

निविशते॥
न्यासः
नेर्विशः। , १।३।१७

"निविशते" इति। "विश प्रवेशने" (१४२४) तुदादित्वाच्छः। "न्यविशत" इति। अडागमेन व्यवधानमित्यात्मनेपदेन न भविव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- "{यदागमास्तद्()ग्रहणेन" इति-- काशिका।पदमञ्जरी च। अडागमः" इत्यादि। "मधुनि विशन्ति" इति। अत्र नेः परस्य विशतेरात्मनेपदं प्राप्नोति, तत्कस्मान्न भवतीत्याह-- "नेरुपसर्गस्य" इत्यादि। मधुशब्दस्य सप्तमेयकवचने "इकोऽचि विभक्तौ" ७।१।७३ इति नुमि मधुनीति रूपं भवति, तस्य चावयवो निशब्दोऽनर्थकः॥
बाल-मनोरमा
नेर्विशः ५०८, १।३।१७

नेर्विशः। निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः। नेति निवृत्तम्। यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानात्टो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वऽभावात्, तथापि "अड्()व्यवाये उपसङ्ख्यान"मिति वार्तिकाद्भवतीति "शदेः शितः" इत्यत्र भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
नेर्विशः ४३६, १।३।१७

नेर्विशः। नेः किम्?। प्रविशति। अर्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम्। तेनेह न-- "मधूनि विशन्ति भ्रमराः"। "इत्युक्त्वा मैथिली भर्तुरङ्के निविशी भया" दित्यत्र तु "अङ्गानि विशती"ति पाठ()म्। न च पदसंस्कारपक्षे त्वङ्के नि विशतीति पाठेऽप्यदोष इति वाच्यं, त्वं करोति भवान् करोषीत्यादिप्रयोगस्यापि त्वदुक्तरीत्या साधुत्वापत्तेः, "वा लिप्साया"मित्यदेर्वैयथ्र्यापत्तेश्च। स्यादेतत्-- "नवाऽम्बुदश्यामतनुन्र्यविक्षते" त्यत्रात्मनेपदं न स्यात्, अटा व्यवधानात्। न च स्वाङ्गमव्यवधायकमिति वाच्यम्ङ्गभक्तस्याऽटो विकरणविशिष्टस्याऽवयवत्वेऽपि धातोरनवयवत्वादिति चेत्। अत्राहुः-- "लावस्थायामडागम"इति भाष्यमते न कश्चिद्दोषः। मतान्तरे तु उपसर्गनियमे "अड्व्यवाये उपसङ्ख्यान"मिति वार्तिकमस्तीति [दिक्]।