पूर्वम्: १।३।११
अनन्तरम्: १।३।१३
 
प्रथमावृत्तिः

सूत्रम्॥ अनुदात्तङित आत्मनेपदम्॥ १।३।१२

पदच्छेदः॥ अनुदात्तङितः ५।१ आत्मनेपदम् १।१ ७७

समासः॥

अनुदात्तश्च ङश्च अनुदात्तङ्गौ, अनुदात्तङौ इतौ यस्य, सः अनुदात्तङित्, तस्मात् अनुदात्तङितः, द्वन्द्वगर्भः बहुव्रीहिः।

अर्थः॥

अनुदात्तेतः ङितश्च धातोः आत्मनेपदं भवति।

उदाहरणम्॥

आस् -- आस्ते। वस् -- वस्ते। एध -- एधते। षूङ् -- सूते। शीङ् -- शेते।
काशिका-वृत्तिः
अनुदात्तङित आत्मनेपदम् १।३।१२

अविशेषेण धातोरात्मनेपदं पर्स्मैपदं च विधास्यते, तत्र अयं नियमः क्रियते। अनुदात्तैतो ये धतवो ङितश्च, तेभ्य एव आत्मनेपदं भवति न अन्येभ्यः। अनुदत्तेद्भ्यः, आस आसते। वस वस्ते। ङिद्भ्यः खल्वपि, षूङ् सूते। शीङ् शेते।
लघु-सिद्धान्त-कौमुदी
अनुदात्तङित आत्मनेपदम् ३८०, १।३।१२

अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥
न्यासः
अनुदात्तङित आत्मनेपदम्। , १।३।१२

"तत्रायं नियमः क्रियते" इति। विधीयमानत्वात् प्रधानस्य प्रत्ययस्य न तु प्रकृतेरिति विज्ञायते। अत एवाह-- "अनुदात्तेतो ये धातवो ङितश्च तेभ्यः" इति। यदि पुनरयं प्रकृतिनियमः स्यात्, तदा किं स्यात्? अनुदात्तङिद्भ्यः प्रत्ययान्तरं न स्यात्। कामं वचनसामथ्र्यात् प्रत्ययान्तरमपि भविष्यतीत्येष दोषः शक्यते परिहर्तुम्। यस्तु वचनसामथ्र्यद्वारेणाभीष्टेऽर्थे प्रतीयमाने प्रतिपत्तिगौरवदोषः स्यात्, सोऽपरिहार्य एव। यदि तर्हि प्रत्ययनियमोऽयम्, तदा प्रकृतीनामनियतत्वात् ताभ्यः परस्मैपदमपि स्यात्? न भविष्यति; "शेषात्कत्र्तरि परस्मैदपदम्" १।३।७८ इति द्वितीयनियमविधानात् शेषादेव परस्मैपदम्, नान्यस्मादिति। "आस्ते" इत्यादि। "आस उपवेशने" (धा।पा।१०२१) "वस आच्छादने" (धा।पा।१०२३), "षूङ प्राणिगर्मविमोचने" (धा।पा।०३१) , "शीङ स्वपने" (धा।पा।१०३२), अदादित्वाच्छपो लुक्। "शेते" इति। "शीङः सार्वधातुके गुणः" ७।४।२१
तत्त्व-बोधिनी
अनुदात्तङित आत्मनेपदम् ७, १।३।१२

अनुदात्तश्च ङश्च अनुदात्तङौ, तौ इतौ यस्य सोऽनुदात्तङित्। द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं संबध्यते। तत्रानुदात्तांशे तदन्तविधेः फलाऽभावादंशान्तर एव तदन्तग्रहममित्याशयेनाह--अनुदात्तेत इत्यादि। "उपदेशेऽजनुनासिक" इत्यतोऽनुवृत्तमुपदेशग्रहममपि ङिदंश एव संबध्यते, नान्यत्र, अव्यभिचारात्तदाह-- उपदे()शे यो ङिदिति। विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह--- धातोरिति। लस्येति। नन्विहाऽनुवृत्तेरभावादुभयमपि दुर्लभं, "भूवादयः" इति सूत्रान्मण्डूकप्लुत्यानुवृत्तस्य "धातव" इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरितिपदे लब्धेऽपि लस्येत्येतन्न लभ्यत इति चेत्। अत्राहुः-- "इको झ"लित्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोरापेक्षो बोध्यः, तिङां लादेशत्वाल्लस्य च धातोर्विधानादिति। उपदेश इति किम्?। चुकुटिषति। "गाङ्कुटादिभ्यः" इति सन आतिदेशिकं ङित्त्वम्। धातोः किम्?। चङ्ङ्भ्यां माभूत्। अदुद्रुवत्। अवोचत्। ननु लावस्थायामेव वृतादिभ्यः "स्यतासी" इत्यादिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाऽप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गत्वात्स्यप्रत्ययात्पूर्वमेव लस्य तिबादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिध्यत्येवेति "वृद्भ्यः स्यसनो"रिति सूत्रे स्यग्रहणं व्यर्थं [स] त्तेनैव स्यग्रहणेन "विकरणेभ्यो नियमो बलीया"निति ज्ञापितम्। तेनानुदात्तेत्त्वाद्वर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्ते "वृद्भ्यः स्यसनो"रिति परस्मैपदमपि पक्षे भवति। तथा च विकरणेभ्यो नियमस्य बलीयस्त्वाच्चङ्ङोर्दोषः स्यादेव। अयं च पक्षः "शदेः शितः" इति सूत्रे भाष्यकैयटयोः स्पष्टः। किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावस्यकं। "धातोरेकाच" इत्यादिना यङ्। बोभूयते। "ऋतेरीयङ्"। ऋतीयते। शेते ह्नुते इत्यत्र तु व्यपदेशिवद्भावेन ङिदन्तत्वम्। "नमोवरिवश्चित्रङ" इति क्यचि चित्रीयते इत्येतत्कथमिति चेत्। अत्राहुः--- अवयवेऽचरितार्थो ङकार क्यजन्तस्य विशेषणं भवति। तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावेनैव ङिदन्तत्वं बोध्यमिति।