पूर्वम्: १।३।२
अनन्तरम्: १।३।४
 
प्रथमावृत्तिः

सूत्रम्॥ हलन्त्यम्॥ १।३।३

पदच्छेदः॥ हल् १।१ अन्त्यम् १।१ उपदेशे ७।१ इत् १।१

समासः॥

हस्य ल् हल्, षष्ठीतत्पुरुषः॥ हल् च हल् च=हल् सरूपाणाम् इति अनेन (१।२।६४) एकशेषः जातिविवक्षायाम् एकवचनं च, अनया रीत्या हल् प्रत्याहारः निष्पद्यते॥

अर्थः॥

अन्ते भवम् अन्त्यं, दिगादित्वात् (४।३।५४) यत् प्रत्ययः॥
उपदेशे अन्त्यं हल् इत्संज्ञकं भवति॥

उदाहरणम्॥

अ‌इ‌उ‌ण् इति ण-कारस्य। ऋऌक् इति क-कारस्य॥
काशिका-वृत्तिः
हलन्त्यम् १।३।३

उपदेशे इति वर्त्ते। अन्ते भवम् अन्त्यम्। धात्वादेः समुदायस्य यदन्त्यम् हल्, तदित्संज्ञं भवति। ऐउण् णकारः। ऋल्̥क् ककारः। एओङ् ङकरः। ऐऔच् चकारः। उपदेशे इत्येव। अग्निचित्। सोमसुत्। हस्य ल् हलिति द्वितीयम् अत्र हल्ग्रहणं तन्त्रेण उपात्तं द्रष्टव्यम्। तेन प्रत्याहारपाठे हलित्यत्र लकारस्य इत्संज्ञा क्रियते। तथा च सति हलन्त्यम् इत्यत्र प्रत्याहारे न इतरेतराश्रयदोषो भवति।
लघु-सिद्धान्त-कौमुदी
हलन्त्यम् १, १।३।३

उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
न्यासः
हलन्त्यम्। , १।३।३

"अन्ते भवमन्त्यम्" इति। दिगादित्वाद्यत्। अन्तशब्दोऽयं समाप्तौ वत्र्तते। यथा-- एतदन्तं वनमिति। येन च समाप्यते समुदायः सोऽन्तः। त्तरान्ते = समाप्तौ भवमन्त्यम्। हलिति हल्शब्दस्योभयलिङ्गत्वादन्त्यमिति नपुंसकेन निर्देशः। "धात्वादेः" इत्यादि। आदिशब्देन सूत्रप्रातिपदिकप्रत्ययागमादेशानां ग्रहणम्। तत्र धातोः -- "डुकृञ्" (धा।पा।१४७२) इति ञकारः; सूत्रस्य-- "ऐउण्" (मा।सू।१) इति णकारः; प्रातिपदिकस्य - "नवट्" इति टकारः; नदडिति पचादिषु पठ()ते। प्रत्ययस्य-- "गुप्तिज्किद्भ्यः सन्" ३।१।५ इति नकारः; आगमस्य "त्रपुजतुनोः षुक्" ४।३।१३६ इति ककारः; आदेशस्य च -- "चक्षिङः ख्याञ्" २।४।५४ इति ञकारः। "अग्निचित्, सोमसुत्" इति। चिनोतेः सुनोतेश्चा()ग्न चितवान् सोमं सुतवानिति क्विप्, तुक्। ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकारस्तस्येत्संज्ञा न प्राप्नोति; इतरेतराश्रयत्वात्। तथा हि-- इत्संज्ञायाम् "आदिरन्त्येन सहेता" १।१।७० इति हलिति प्रत्याहारग्रहणं भवति। त()स्मश्च तस्य लकारस्य हलन्त्यमितीत्संज्ञा। तदिदमितरेतराश्रयत्वं स्फुटतरमेव। "इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते" (व्या।प।२८) इत्यत आह-- "हस्य ल् हल्" इत्यादि। यदेकमावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम्। यथा-- प्रदीपः सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति। इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः। तेन तन्त्रेण द्वितीयमत्र हल्ग्रहणमुपात्तं परिगृहीतं वेदितव्यम्। यथा ()ओतो धावतीत्येकेन प्रयत्नेन द्वे वाक्ये उच्चारिते भवतः, तथेहाप्येकेनैव प्रयत्नेन द्वौ हल्शब्दावुच्चारितावित्यभिप्रायः। हस्य ल् हलिति समीपिसामीप्यसम्बन्धे षष्ठी। "तेन" इत्यादि। यतस्तन्त्रेण न्यायेन द्वितीयं हल्ग्रहणं कृतम्, तेन प्रत्याहारपाठे हलित्यस्य लकारस्य हकारसमीपवर्तिनः साक्षादेव संज्ञित्वेनोपात्तस्येत्संज्ञा क्रियते, न तु प्रत्याहारसमाश्रयणेन। एवञ्च सति "हलन्त्यम्" ३।३।३ इत्यत्र प्रत्याहारपाठे इतरेतराश्रयद#ओषो न भवति।
बाल-मनोरमा
हलन्त्यम् २, १।३।३

एकपदं सूत्रम्। हलि अन्त्यं हलन्त्यमिति विग्रहः। शौण्डादेराकृतिगणत्वात् "सप्तमी शौण्डैः" इति सप्तमीसमासः, सुप्सुपेति समासो वा। हल्पदमिह सूत्रपरम्। "उपदेशेऽजनुनासिक इत्()" इति पूर्वसूत्रादिदित्यनुवर्तते। तदाह--हलिति सूत्र इत्यादिना। इत्स्यादिति। इत्संज्ञकः स्यादित्यर्थः, संज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्संज्ञामनुपजीव्यैव इत्संज्ञा सिद्धेति नान्योन्याश्रय इति भावः।

बाल-मनोरमा
हलन्त्यम्(बि) ४, १।३।३

ततः किमित्यत आह--हलन्त्यम्। आवृत्तयोर्द्वितीयं सूत्रमेतत्। हल् अन्त्यमितिच्छेदः। हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात्। "उपदेशेऽजनुनासिक इ"दिति पूर्वसूत्रादुपदेश इति" इदिति चानुवर्तते। तदाह--उपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम्। अथ कोऽयमुपदेशो नाम()" तत्राह--उपदेश आद्योच्चारणमिति। उपशब्द आद्यर्थकः। दिशिरुच्चारणक्रियायाम्। भावे घञिति भावः। एतच्च "आदेच उपदेशे" इत्यादासूत्रे भाष्ये स्पष्टम्। धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्। आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥

--इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता। उपदेशे किम्-"इदमस्थमुः" इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत्। तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम्। ततः किमित्यत आह-ततोऽण्? अजित्यादिसंज्ञासिद्धाविति। ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः।

तत्त्व-बोधिनी
हलन्त्यम् ४, १।३।३

अन्तेऽवसाने भवमन्त्यम्। दिगादित्वाद्यत्। "उपदेशेऽजनुनासिक इत्" इत्यत "उपदेशे" इति, "इ"दिति चाऽत्रानुवर्तते। "आदिरन्त्येन-" इति सूत्रेण सहाऽन्योन्याश्रयमाशङ्क्य आवृत्त्या तं परिहरति-हलिति सूत्रेऽन्त्यमिति। हलि अन्त्यमिति विग्रहे "सप्तमी" इति योगविभागात् सुप्सुपा" इति वा समास इति भावः। यद्वा षष्ठीतत्पुरुषोऽयं, "हलिति सूत्रस्यान्त्यमित्स्यात् " इति व्याख्यानसम्भवात्।