भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति। प्रत्ययस्य एव भविष्यत्कालता विधीयते न प्रकृतेः। गमी ग्रामम्। आगामी। प्रस्थायी। प्रतिरोधी। प्रतिबोधी। प्रतियोधी। प्रतियोगी। प्रतियायी। आयावी। भावी। अनद्यतन उपसङ्ख्यानम्। श्वो गमी ग्रामम्।
"प्रत्ययस्यैव" इत्यादि। इदं हि भविष्यति गम्यादयः साधवो भवन्ति,यदि प्रत्ययस्यैव भविष्यत्कालता विधीयते, अथ तु प्रत्ययस्यान्यकालता स्यान्न ते भविष्यति साधवः स्युः।तस्मात् प्रत्ययस्यैवानेन प्रकारेण भविष्यत्कालता विधीयते। "ग्रामं गमी" इति। "गमेरिनिः" (द।उ।६।५७) इतीनिप्रत्ययः,"सौ"
६।४।१३ इति दीर्घः। "अकेनोर्भविष्यदाधमण्र्ययोः"
२।३।७० इति षष्ठ()आं प्रतिषिद्धायां ग्रामशब्दात् "कर्मणि द्वितीया" (२।३२)। "आगामी" इति। "गमेरिनिः"(द।उ।६।५७) इति वत्र्तमाने "आङि णित्" (द।उ।६।५८)इतीनिः; णित्त्वादुपधावृद्धिः। "प्रस्थायी"इत्यादि। "ष्ठा गतिनिवृत्तौ" (धा।पा।९२८) "बुध बोधने" (धा।पा।११७२), "युज समाधौ" (धा।पा।११७७) "या प्रापणे" (धा।पा।१९४९) --एब्यः "सुप्यजातौ णिनिस्ताच्छील्ये"
३।२।७८ इति णिनिः।यातितिष्ठत्योः "आतो युक् चिण्कृतोः"
७।३।३३ इति युक्। युजः "चजोः कुघिण्()ण्यतोः"
इति कुत्वम्। "भावी" इति। "आङि णित्" (पं।उ।४।७) इति वत्र्तमाने "भुवश्च" (पं।उ।४।८) इतीनिः, णित्त्वाद्वृद्धिः।
"अनद्यतन उपसंख्यानम्" इति।
किं पुनः कारणं न सिध्यति? भविष्यतीति लृटायं निर्देशः क्रियते, तेन च लृट एव विषये भविष्यत्सामान्ये स्यात्, न भविष्यदनद्यतने,ततो लुटो न विषयः, लृटा बाधितत्वात्। तस्मादनद्यतन उपसंख्यानं कत्र्तव्यम्। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिहानुवत्र्तते,तेनानद्यतनेऽपि भविष्यतीति।
एते च गम्यादयो लुङ्लृटोरुभयोरपि बाधकाः, अपबादत्वात्।अपवादत्वं तु येननाप्राप्तिन्यायेन (व्या।प।४९) ननु च वासरूपविधिना लुङ्लृटावपि प्राप्नुतः,
तद्विधौ "भविष्यति गम्यादयः" इत्यनुवृत्तेः? सत्यम्;
अस्यामप्यनुवृत्तौ पक्षे एवेति चेत्? नैतदस्ति;एवं ह्रनुवृत्तिरपार्थिका स्यात्॥