पूर्वम्: १।३।३५
अनन्तरम्: १।३।३७
 
प्रथमावृत्तिः

सूत्रम्॥ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः॥ १।३।३६

पदच्छेदः॥ सम्मानन॰व्ययेषु ७।३ नियः ५।१ ३७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
सम्माननौत्सञ्जनाऽचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः १।३।३६

णीञ् प्रापणे। अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धम् एवाऽत्मनेपदम्। अकर्त्रभिप्रयार्थो ऽयम् आरम्भः। णीञ् प्राप्णे इत्येतस्मात् धातोरात्मनेपदं भवति सम्माननाऽदिषु विशेषणेषु सत्सु। सम्माननं पूजनम् नयते चार्वी लोकायते। चार्वी बुद्धिः, तत्सम्बन्धादचार्ये ऽपि चार्वी। स लोकायते शास्त्रे पदार्थान् नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति। ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति। उत्सञ्जनम् उत्क्षेपणम् माणवकम् उदानयते। उत्क्षिपति इत्यर्थः। आचार्यकरणम् आचार्यक्रिया माणवकम् ईदृशेन विधिना आत्मसमीपं प्राप्यति यथा स उपनेता स्वयम् आचार्यः सम्पद्यते। माणवकम् उपनयते। आत्मानम् आचार्यीकुर्वन् माणवकम् आत्मसमीपं प्रापयति इत्यर्थः। ज्ञानं प्रमेयनिश्चयः नयते चर्वी लोकयते। तत्र प्रमेयं निश्चिनोति इत्यर्थः। भृतिर्वेतनम् कर्मकरानुपनयते। भृतिदानेन समीपं करोति इत्यर्थः। विगणनम् ऋणादेर् निर्यातनम् मद्राः करम् विनयन्ते। निर्यातयन्ति इत्यर्थः। व्ययो धर्माऽदिषु विनियोगः। शतं विनयते। सहस्रं विनयते। धर्माऽद्यर्थं शतम् विनियुङ्क्ते इत्यर्थः। एतेषु इति किम्? अजां नयति ग्रामम्।
न्यासः
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः। , १।३।३६

"सम्माननादिषु विशेषणेषु" इति। किंस्विदत्र विशिष्यते नयत्यर्थोऽनेनेति विशेषणम्? किंस्विन्नयत्यर्थ एव विशेषणम्? विशिष्यते व्यावर्त्त्यतेऽर्थान्तरादिति कृत्वा। तत्र सम्माननमाचार्यकरणं भृतिश्चेति पूर्वेणैवार्थेनैतानि विशेषणानि, परिशिष्टानि तु नयत्यर्थस्वभावानि द्वितीयेन विशेषणानि। "नयते चार्वी लोकायते" इति। अत्र नयतेः प्रापणमर्थो विशेष्यः, शिष्यसम्माननन्तु तस्य फलभावेन विशेषमम्। तत्सम्बन्धादाचार्योऽपि चार्वीत्युच्यत इति। यथा कुन्तान्न प्रवेशयेत्युक्ते कुन्तशब्दः कुन्तसम्बन्धात् पुरुषेष्वपि वत्र्तते, तथेहापि चार्वीशब्दश्चार्वीसम्नब्धादाचार्येऽपि। "स्थिरीकृत्य" इति। निशच्लीकृत्येत्यर्थः। निश्चलत्वन्तु तेषामनन्यार्थभावः। "स्थाप्यमानाः" इति। लोकायते शास्त्रे पदार्थानां सम्यगवबोधः। "पूजिता भवन्ति" इति। अभिलषितार्थसम्पादनमेव तेषां पूजा। अभिलषितोऽर्थस्तु लोकायते शास्त्रे पदार्थानां सम्यवबोधः। "उत्क्षिपतीत्यर्थः" इति। एतेनोपत्सञ्जनं नयतेरर्थः, न तु तस्य विशेषणमिति दर्शयति। एवं "निश्चिनोतीत्यर्थः" इत्यादिभिरपि ज्ञानादीनां यथासम्भवं नयत्यर्थतां दर्शयतीति वेदितव्यम्। "ईदृशेन" इति। यादृशः शास्त्रोक्तो विधिः, तादृशेनेत्यर्थः। अत्राप्याचार्यकरणं नयत्यर्थस्य फलभावेनैव विशेषणम्। "कर्मकरानुपनयते" इति। अत्र हि भृतिर्हेतुभावेन नयत्यर्थस्य समीपकरणस्य विशेषणम्। "ऋणादेः" इति। आदिशब्देन करशुल्कदण्डादीनां ग्रहणम्। करो नाम राजग्राह्रो भागः कर्षकैः रक्षार्थं परिकल्पितः। "धर्मादिषु" इति। आदिशब्देन कामादिष्वपि॥
बाल-मनोरमा
संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ५३२, १।३।३६

संमननोत्सञ्जना। एषु गम्येषु णीञ्धातोरात् मनेपदमित्यर्थः। परगामिन्यपि फले आत्मनेपदार्थमिदम्। इतरे इति। संमाननाऽ‌ऽचार्यकरणप्रभृतय इत्यर्थः। प्रयोगोपाधय इति। वाच्यत्वाऽभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः। आत्मनेपदद्योत्या इति यावत्। तदेवोपपादयितुं प्रतिजानीते-- तथा हीति। संमानने उदाहरति-- शास्त्रे नयते इति। अत्र णीञ् प्रापणार्थकः। "सिद्धान्तप्रापणेनेत्यर्थः। फलितमिति। अर्थादिति भावः। उत्सञ्जने इति। "उदाह्यियते" इति शेषः। उत्सञ्जनमुत्क्षेपः। उत्क्षिपतीत्यर्थ इति। धातूनामनेकार्थत्वादिति सत्त्या प्रापयित्रपेक्षमेव। तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम्, पूर्वोत्तराऽङ्गकलापाम्नासामथ्र्यात्। तदाह--- विधिना आत्मसमीपं प्रापयतीति। तत्राऽ‌ऽचार्यकरणस्यार्थिकत्वमुपपादयति-- उपनयनपूर्वकेणेति। "माणवकमुपनयीत,तमध्यापयीते"त्यध्यापनार्थत्वमुपनयनस्याऽवगतम्, अध्यापनादाचार्यत्वं संपद्यते, "उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते।" इतिस्मरणात्। तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकहरति-- कर्मकरानुपनयते इति। भृतिः = वेतनं। तदर्थ#ं कर्म करोतीति कर्मकरः। "कर्मणि भृतौ" इति टप्रत्ययः। कर्मण्युपपदे कृञष्टः स्यात्कर्तरीति तदर्थः। उपपूर्वको णीञ् समीपप्रापणार्थकः। तदाह-- राज्ञे देयं भागंपरिशोधयतीति। परिगणयति दातुमित्यर्थः। व्यये उदाहरति-- शतं विनयते धर्मार्थमिति। अत्र विपूर्वो णीञ् व्ययार्थकः। तदाह-- विनियुङ्क्ते इत्यर्थ इति।

तत्त्व-बोधिनी
संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ४५०, १।३।३६

संमाननो। उपनयनपूर्वकेणेति। उपनयनं-- वटुसंस्कारः।तस्य परगामित्वात्परस्मैपदं प्राप्ते अनेनात्मनेपदं विधीयते। नह्रुपनयनमात्रेण आचार्यत्वं भवति किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधित्वं परपरया ज्ञेयम्। "उपनीय ददद्वेदमाचार्यः स उदाह्मतःर" इति स्मृतिः।