पूर्वम्: १।३।५८
अनन्तरम्: १।३।६०
 
प्रथमावृत्तिः

सूत्रम्॥ प्रत्याङ्भ्यां श्रुवः॥ १।३।५९

पदच्छेदः॥ प्रत्याङ्भ्याम् ५।२ श्रुवः ५।१ १।१।५८ सनः ५।१ १।१।५७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
प्रत्याङ्भ्यां श्रुवः १।३।५९

प्रति आङित्येवं पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते।
न्यासः
प्रत्याङ्भ्यां श्रुवः। , १।३।५९

"उपसर्गग्रहणञ्चेदम्" इति। कथं श्रुव इति? विशेषणविशेष्यभावसम्बन्धे षष्ठी। तेनायं सम्बन्धो भवति-- शृणोतेर्यौ विशेषणभूतौ प्रत्याङौ तत्पूर्वाच्छरुवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति। उपसर्गादेवार्थं द्वारेण शृणोतेर्विशेषणभूताविति सामथ्र्यादुपसर्गयोग्र्रहणम्। "देवदत्तं प्रति शुश्रूषते" इति। प्रतिशब्दस्य "लक्षणे त्यम्भूताख्यान" १।४।८९ इत्यादिना लक्षणे कर्मप्रवचनीयसंज्ञा, तेन प्रतिना देवदत्त् एव सम्बध्यते; न धात्वर्थ इति॥
बाल-मनोरमा
प्रत्याङ्भ्यां श्रुवः ५५७, १।३।५९

प्रत्याङ्भ्यां श्रुवः। उक्तं नेति। आत्मनेपदं नेत्यर्थः। प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात्। तदाह-- कर्मप्रवचनीयात्स्यादेवेति। "आत्मनेपद"मिति शेषः। देवदत्तं प्रतीति। "लक्षणेत्थम्भूते"ति प्तिः कर्मप्रवचनीयः।