पूर्वम्: १।३।६०
अनन्तरम्: १।३।६२
 
प्रथमावृत्तिः

सूत्रम्॥ म्रियतेर्लुङ्‌लिङोश्च॥ १।३।६१

पदच्छेदः॥ म्रियतेः ५।१ लुङ्लिङोः ७।२ शितः ६।१ ६० आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
म्रियतेर् लुङ्लिङोश् च १।३।६१

म्र्ङ् प्राणत्यागे। ङित्त्वादात्मनेपदम् अत्र सिद्धम् एव। नियमार्थम् इदं वचनम्। म्रियतेर् लुङ्लिङोः शितश्चाऽत्मनेपदं भवति, अन्यत्र न भवति। अमृत। मृषीष्ट। शितः खल्वपि म्रियते, म्रियेते, म्रियन्ते। नियमः किमर्थः? मरिश्यति। अमरिस्यत्।
लघु-सिद्धान्त-कौमुदी
म्रियतेर्लुङ्लिङोश्च ६६७, १।३।६१

लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र। रिङ्। इयङ्। म्रियते। ममार। मर्ता। मरिष्यति। मृषीष्ट। अमृत॥ पृङ् व्यायामे॥ ४३॥ प्रायेणायं व्याङ्पूर्वः। व्याप्रियते। व्यापप्रे। व्यापप्राते। व्यापरिष्यते। व्यापृत। व्यापृषाताम्॥ जुषी प्रीतिसेवनयोः॥ ४४॥ जुषते। जुजुषे॥ ओविजी भयचलनयोः॥ ४५॥ प्रायेणायमुत्पूर्वः। उद्विजते॥
न्यासः
म्रियतेर्लुङलिङोश्च । , १।३।६१

"नियमार्थमिदं वचनम्िति। म्रियतेर्लुङलिङोः शित एव यथा स्यात्। यद्येवम्, ङिद्()ग्रहणं किमर्थम्? यावताऽन्यत्रात्मनेपदेन न भवितव्यमिति? उच्यते; स्वरार्थमुपदिश्यते-- मा हि मृतेति लुङि "तास्यनुदात्तेन्ङिदुपदेशाल्ल सार्वधातुकस्य" ६।१।१८० इति अनुदात्तत्वे कृते धातोरन्तोदात्तत्वं भवति। "तिङङतिङः" ८।१।२८ इति निघातोऽत्र "हि च" ८।१।३४ इति प्रतिषिध्यते। अडागमोऽपि "न माङयोगे" ६।४।७४ इति। "अमृत" इति। "ह्यस्वाद्ङात्" ८।२।२७ इति सिचो लोपः। "मृषीष्ट" इति। आशिषि लिङ, तस्य "लिङाशिषि" ३।४।११६ इत्याद्र्धधातुकत्वाद्विकरणाभावः; "सुट् तिथोः" ६।४।१०७ इति सुट्; वलि ६।१।६४ यलोपः। "म्रियते"इति। तुदादित्वाच्छः; "रिङ शयग्लिङक्षु" ७।४।२८ इति रिङादेशः, "अचि श्नुधातु" ६।४।७७ इत्यादिनेयङ। "मरिष्यति"इति। "ऋद्धनोः स्ये" ७।२।७० इतीट्॥
बाल-मनोरमा
म्रियतेर्लुङलिङोश्च ३६८, १।३।६१

म्रियतेः। अनुदात्तहितः" इत्यत आत्मनेपदमित्यनुवर्तते। चकारेण "शदेः शितः" इत्यतः शित इत्यनुकृष्यते। प्रकृतिभूतादित्यध्याहार्यम्। तदाह - लुङ्()लिङोरिति। तङ् स्यादिति। आत्मनेपदं स्यादित्यर्थः, "म्रियमाण" इत्यत्र आनस्यापि इष्टत्वात्। ननु हित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह - नान्यत्रेति। तर्हि ङित्त्वं व्यर्थमित्यत आह -- ङित्त्वं स्वरार्थमिति। "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त"मित्येतदर्तमित्यर्थ-। म्रियते इति। शे कृते रिङियङाविति भावः। ऋदन्तत्वाद्भारद्वाजमतेऽपि नेडित्याह -- ममर्थेति। मम्रिवेति। क्रादिनियमादिट्। मर्ता। "ऋद्धनोः स्ये" इति इटं मत्वाह - मरिष्यतीति। रि पि गताविति। द्वाविमावनिटौ। ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्य आह- अन्तरह्गत्वादियङिति। कृ? विक्षेपे इति। दीर्घानतोऽयं , सेट्। किरतीति। "ऋत इद्धातो"रितीत्त्वं। रपत्वम्। चकरतुरिति। कित्त्वेऽपि "ऋच्छत्यृ()ता"मिति गुण इति भावः। "वृ()तो वे"ति मत्वाह - करिता करीतेति।

तत्त्व-बोधिनी
म्रियतेर्लुङ्?लिङोश्च ३२२, १।३।६१

म्रियतेर्लुङ्()लिङोश्च। चात् "शित" इति अनुकृष्यते। तदाह-- शितश्च प्रकृतिभूतादिति।तङिति। आत्मनेपदमित्यर्थः। तेन "म्रियमाण" इति सिद्धम्। स्वरार्थमिति। " मा हि मृते" त्यत्र "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त"मित्यनेन ङितः परस्य लादेशसार्वधातुकस्यानुदात्तत्वे कृते धातुरुदात्तः। ङित्त्वाऽभावे तु प्रत्ययस्योदात्तत्वे धातुरनुदात्तः स्यात्। न च सिज्लोपस्याऽसिद्धत्वान्ङितः परत्वं लसार्वधातुकस्य दुरुपपादमिति तस्य कथमनुदात्तता स्यादिति शङ्क्यम्, ङित्त्वसामथ्र्यात्सिज्लोस्याऽसिद्धत्वं नेति सुवचत्वात्। "अमृते"त्यत्राडागमस्यैवोदात्तत्वान्मृङो ङित्त्वस्य न किंचित्प्रयोजनमिति अण्निवारणाय "मा हि मृते" ति माङः प्रयोगः। "तिङ्ङतिङः" इति तिङन्तनिघातेऽपि ङित्त्वं व्यर्थमेव स्यादिति "हि" शब्दप्रयोगः। हि प्रयोगे तु "हि चे"त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरः सिध्यतीति बोध्यम्। रि पि गतौ। परत्वाल्लघूपधगुणः स्यादित्याशङ्कायामाह--अन्तरङ्गत्वादिति।