पूर्वम्: १।३।८२
अनन्तरम्: १।३।८४
 
प्रथमावृत्तिः

सूत्रम्॥ व्याङ्परिभ्यो रमः॥ १।३।८३

पदच्छेदः॥ व्याङ्परिभ्यः ५।३ रमः ५।१ ८५ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
व्याङ्परिभ्यो रमः १।३।८३

रमु क्रीडायम्। अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते। विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्यः इति किम्? अभिरमते।
लघु-सिद्धान्त-कौमुदी
व्याङ्परिभ्यो रमः ७५२, १।३।८३

रमु क्रीडायाम्॥ विरमति॥
न्यासः
व्याङपरिभ्यो रमः। , १।३।८३