पूर्वम्: १।३।८४
अनन्तरम्: १।३।८६
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषाऽकर्मकात्॥ १।३।८५

पदच्छेदः॥ विभाषा १।१ अकर्मकात् ५।१ उपात् ५।१ ८४ रमः ५।१ ८३ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
विभाशा ऽकर्मकात् १।३।८५

रमः उपातिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद् भुक्तम् औपरमति, यावद् भुक्तम् उपरमते। निवर्तते इत्यर्थः।
न्यासः
विभाषाऽकर्मकात्। , १।३।८५

"यावद्भुक्तम्" इति। "यावदवधारणे" २।१।८ इत्यव्ययीभावः।"भुक्तम" इति। "नपवंसके भावे क्तः" ३।३।११४ इति क्तप्रत्ययः। यावन्ति भोजनानि तावद्भ्यो निवत्र्तत इत्यर्थः। अथ वा-- यावद्()भुक्तमिति यथार्थे वीप्सायामव्ययीभावः। भोजनाद्भोजनन्निवत्र्तत इत्यर्थः॥