पूर्वम्: १।३।८५
अनन्तरम्: १।३।८७
 
प्रथमावृत्तिः

सूत्रम्॥ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः॥ १।३।८६

पदच्छेदः॥ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यः ५।३ णेः ५।१ ८९ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
बुधयुधनशजनैङ्प्रुद्रुस्रुभ्यो णेः १।३।८६

णिचश्च १।३।७४ इति कर्त्रभिप्रायत्रियाफलविवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। बुध युध नश जन इङ् प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेम्यः परस्मैपदम् भवति। बोध्यति। योध्यति। नाशयति। जनयति। अध्यापयति। प्रावयति। द्रावयति। स्रवयति। ये ऽत्राकर्मकास् तेषाम् अणावकर्मकाच् चित्तवत्कर्तृकात् १।३।८८ इत्येवं सिद्धे वचनम् इदम् अचित्तवत्कर्तृकार्थम्। बोध्यति पद्मम्। योध्यन्ति काष्ठानि। नाशयति दुःखम्। जनयति सुखम्। ये ऽत्र चलनार्थ अपि तेषाम् निगरणचलनार्थेभ्यश्च १।३।८७ इति सिद्धे यदा न चलनार्थास् तदर्थं वचनम्। प्रवते। प्राप्नोति इति गम्यते। अयो द्रवति। विलीयते इत्यर्थः कुण्डिका स्रवति। स्यन्दते इत्यर्थः। तद्विषयाण्युदाहरणानि { प्रावयति। द्रावयति। स्रावयति}।
न्यासः
बुधयुधनशजनेङ्प्रुद्रुम्रुभ्यो णेः। , १।३।८६

"बुध अवगमने" (धा।पा।११७२), "युध सम्प्रहारे" (धा।पा।११७३), "णश अदर्शने" (धा।पा।११९४), "जनी प्रादुर्भावे" (धा।पा। ११४९), "इह अध्ययने" (धा।पा।१०४६), "च्यङ" (धा।पा।९५५) छ्युङ्, ज्युङ (धा।पा।९५६), झयुङ प्रुङ (धा।पा।९५७) प्लुङ (धा।पा।९५८) गतौ "दु द्रु गतौ" (धा।पा।९४४, ९४५), "सु रुआउ गतौ" (धा।पा।९४०)। "जनयति" इति। "जनीजृष्" (ग।सू।धा।पा।८१७) इत्यादिना मित्संज्ञा। मितां ह्यस्वत्वम्। "अध्यापयति" इति। "क्रीडजीनां णौ" ६।१।४७ इत्यात्त्वम्। पूर्ववत् पुक्। "एतद्विषयाण्युदाहरणानि" इति। प्राप्तिविलयनस्यन्दनविषयाण्येतानि प्रावयतीत्याद्युदाहरणानि यथाक्रममित्यर्थः। स्यन्दनं चलनमिति लोके प्रसिद्धम्। ततोऽन्यत्र स्यन्दयतीति बोद्धयम्। प्रावयति = प्रापयति द्रावयति = विलापयति। रुआआवयति = स्यन्दयतीत्यर्थः।
बाल-मनोरमा
विभाषाऽकर्मकात् ५७६, १।३।८६

विभाषाऽकर्मकात्। उपादिति, रम इति, परस्मैपदमिति चानुवर्तते। तदाह- उपाद्रमेरिति।

बाल-मनोरमा
बुधुयुधनशजनेङ्प्रुद्रुरुआउभ्यो णेः ५७७, १।३।८६

बुधयुध। बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः। बोधयति पद्ममिति। "सूर्य"इति शेषः। बुधिर्विकसनार्थकः। विकसति पद्मम्। तद्विकासयति सूर्य इत्यर्थः। "अणावकर्मकाच्चित्तवत्कर्तृका"दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत्। योधयति काष्ठानीति। काष्ठानि युध्यन्ते स्वयमेव। तानि योधयतीत्यर्थः। अणावचित्तवत्कर्तृकत्वात् "अणावकर्मका"दित्यस्य न प्राप्तिः। अतएव योधयति देवदत्तमिति नोदाह्मतम्, "अणावकर्मकाच्चित्तवत्कर्तृका"दित्येव सिद्धेः। एवमग्रेऽपि ज्ञेयम्। नाशयति दुःखमिति। दुखं नश्यति, तन्नाशयति हरिरित्यर्थः। जनयति सुखमिति। जायते सुखम्, तज्जनयति हरिरित्यर्थः। अध्यापयतीति। अधीते वेदं विधिः, तमध्यापयतीत्यर्थः। "प्रु गतौ" इत्यस्योदाहरति-- प्रावयतीति। गत्यर्थकत्वं मत्वा आह-- प्रापयतीत्यर्थ इति। द्रावयतीति। द्रवत्याज्यं, तद्द्रावयतीत्यर्थः। धातोद्र्रवीभावार्थकत्वं मत्वा आह-- स्यान्दयतीत्यर्थ इति। "प्रीतिं भक्तजनस्य यो जनयते" इत्यात्मनेपदं तु प्रामादिकमेव। यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम्। प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः।