पूर्वम्: १।४।२४
अनन्तरम्: १।४।२६
 
प्रथमावृत्तिः

सूत्रम्॥ भीत्रार्थानां भयहेतुः॥ १।४।२५

पदच्छेदः॥ भीत्रार्थानाम् ६।३ भयहेतुः १।१ अपादानम् १।१ २४ कारके ७।१ २३

समासः॥

भीश्च त्राश्च भीत्रौ, भीत्रौ अर्थौ येषां ते भीत्रार्थाः, तेषां ॰ द्वन्द्वगर्भः बहुव्रीहिः।
भयस्य हेतुः, भयहेतुः, षष्ठीतत्पुरुषः।

अर्थः॥

बिभेत्यर्थानां, त्रायत्यर्थानां च धातूनां प्रयोगे, भयस्य हेतुः यत् कारकं तद् अपादानसंज्ञं भवति॥

उदाहरणम्॥

बिभेत्यर्थानां -- चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानां -- चौरेभ्यः त्रायते, चौरेभ्यो रक्षति॥
काशिका-वृत्तिः
भीत्राऽर्थानां भयहेतुः १।४।२५

बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर् यः स्तत् कारकम् अपादानसंज्ञं भवति। चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानाम् चौरेभ्यस् त्रायते। चौरेभ्यो रक्षति। भयहेतुः इति किम्? अरण्ये बिभेति। अरण्ये त्रायते।
न्यासः
भीत्रार्थानां भयहेतुः। , १।४।२५

भीतिर्भीः; त्राणं त्राः; सम्पदादित्वात्? क्विप्। भीश्च त्राश्च भीत्रौ। भीत्रादर्थौ येषां ते भीत्रार्थाः। "बिभेत्यर्थानाम्" इत्यादि। बिभेतित्रायतिशब्दाविह साहचर्याद्बिभेतित्रायत्यर्थयोर्वर्तेते। बिभेतिरर्थो येषां ते बिभेत्यर्थाः। त्रायतिरर्थो येषां ते त्रायत्यर्थाः। "बिभेति" इति। "ञिभी भये" (धा।पा।१०८४), जौहोत्यादिकः। "उद्विजते" इति। "ओविजी भयचलनयोः" (धा।पा।१४६०) तौदादिकोऽनुदात्तेत्। "त्रायते" #इति। "त्रैङ पालने" (धा।पा।९६५) भौवादिकः। "अरण्ये बिभेति" इति। नात्रारण्याद्भयम्, किं तर्हि? तत्रस्थेभ्यश्चौरादिभ्यः। ननु चात्राधिकरणसंज्ञा परत्वात् बाधिका भविष्यति।अपि च-- ध्रुवमित्यनुवत्र्तते, "ध्रुवञ्चावधिभूतम्" इत्युक्तम्। न चारण्यमवधिबावेन विवक्षितम्, तत्किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन? एवं तर्हि पूर्वस्यायं प्रपञ्चः। न हि कायसम्प्राप्तिपूर्वक एवापायो भवति, किं तर्हि? बुद्धिसम्प्राप्तिपूर्वकोऽपि। अस्ति चेह बुद्धिकसंप्राप्तिपूर्वकोऽप्ययायः, तथा हि -- चौरेभ्यो बिभेतीत्यत्र यस्तावत् पुरुषः प्रेक्षावान् भवति स एवं पश्यति-- "यदि मां चौराः पश्येयुध्र्रुवं मे मृत्युः" इति विचारयंस्तान् बुद्ध्या प्राप्नोति, प्राप्य चततो निवर्तते। तत्र ध्रुवमित्यादिनैव सिद्धम्। तस्मात् पूर्वस्यायं प्रपञ्चः। न च प्रपञ्चे गुरुलाघवं चिन्त्यते। एवमुत्तरेऽपि योगाः पूर्वस्यैव प्रपञ्चा वेदितव्याः; तदुदाहरणानां "अध्ययनात् पराजयते" इत्येवमादीनां पूर्वेणैव सिद्धत्वात्। यथा च तेषां सिद्धत्वं तथा भाष्ये एव प्रतिपादितम्। तस्मात् तत्रापि गुरुलाघवं न चिन्तनीयम्॥
बाल-मनोरमा
भीत्रार्थानां भयहेतुः ५८०, १।४।२५

भीत्रा। चोराद्विभेतीति। चोरेण हेतुनेत्यर्थः। हेतुतृतीया प्राप्ता। चोरात्रायत इति। चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः। यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम्।

तत्त्व-बोधिनी
भीत्रार्थानां भयहेतुः ५२०, १।४।२५

भीत्रा। "कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे" इति रामायणे तु "कस्ये" त्यस्य संयुगेनान्वयान्नास्ति भयहेतुत्वमिति षष्ठीप्रयोगः सङ्गच्छत एव। न चैवं संयुगस्याऽपादानत्वापत्तिरिति वाच्यम्। परया अधिकरणसंज्ञया अपादानसंज्ञा[या]बाधात्। अधिकरणत्वाऽविवक्षायां तु इष्टापत्तेः। भीत्रार्थेति किम्()। व्याघ्रं पश्यति। न च कर्मत्वेन बाधः शङ्क्यः, कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी प्रसङ्गादित्याहुः। भयतहेतुग्रहणं चिन्त्यप्रयोजनम्, अरण्ये बिभेतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेरिति चेत्, अत्र वदन्ति--भयहेतुग्रहणाऽभावे कारकशेषत्वविवक्षायामतिप्रसङ्गः स्यात्। तथा च "अरण्यस्य चोराद्बिभेती"ति प्रयोगो न स्यादिति।